पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
४५
कठोपनिषत्

य इदं परमं गुह्य श्राधयेत् ब्रह्मसंसदि । प्रयतःश्राद्धकाले वा

तदानन्त्याय कल्पते । तदानन्त्याय कल्पत इति ॥१७॥

।। इति तृतीया वली ॥

।। इति प्रथमोध्यायः ।।

य इदमिति । ब्रह्मसंसदि-ब्राह्मणसमाज || १७ ।।

॥ इति तृतीयवलीभाष्यं समाप्तम् ॥

॥ इति कठोपनिषदि प्रथमाध्यायभाष्यम् ॥


॥ अथ द्वितीयोध्यायः चतुर्थेवली ।।

हरिः ओं ॥

पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यन्ति

नान्तरात्मन्

चक्षुरमृतत्वमिच्छन् ।। १ ।।

'उत्तिष्ठत जाग्रते । ति प्रोत्साहनेपि आत्मस्वरूपविमुखान् पश्यन् शोचति – पराश्वीनेि । खानि इन्द्रियाणि । पराञ्चि-परानञ्चतीति पराञ्चि, परप्रकाशकानि न त्वात्मप्रकाशकानि । तत्र हेतं वदन् शोचति .. व्यतृणत्स्वयंभूः-स्वतन्त्र ईश्वरः इमानि स्वानि हिंसितवान् । 'तृहू हिंसाया' मिति धातुः । यद्वा-धातूनाम नेकार्थत्वात् परार्थप्रकाशकानि इन्द्रियाणि सृष्टवानित्यर्थ । तस्मात्पराङ्पश्यन्ति नान्तरात्मन्–पराङ्-पराच इति यावत् । पराष्ट्रपानात्मभूतान् पश्यन्ति उफ्लभन्ते अन्तगत्मानं नेत्यर्थः । यद्वा-पराङ्मुखानि भूत्वा विषयानेव पश्यन्तीत्यर्थः । पराङ् पश्यतीति पाठे लोकाभिप्रायमेकवचनम् । ईदशेऽपि लोकस्वभावे नद्याः प्रतिस्रोत:प्रवृत्त इव कश्चित् पुरुषधौरेयः प्रत्यगात्मप्रवणोप्यस्तोत्याह-कश्चिद्वीर इति । प्रत्यञ्चमात्मानं पश्यतीत्यर्थः । छान्दसं परस्मैपदम् । अत एव वर्तमानार्थे लखुपपतिश्ध । चक्षुश्शब्द इन्द्रिथमात्रपर । स्वस्वविषयव्यावृत्तेन्द्रियो मुमुक्ष