पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
[चतुर्थ
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति वितस्य

पाशम् । अथ धीरा अमृतत्वं विदित्वा ध्रुवमधुवेष्विह न

प्रार्थयन्ते ।। २ । ।

पराच इतेि- बालाः अल्पप्रज्ञा:, बाह्यान् काम्यमानान्विषयानेवावगच्छन्ति । ते विस्तीर्णस्य संसारस्य बन्धनं यान्तीत्यर्थः । यद्वा विततस्य सर्वत्राप्रतिहताज्ञस्य मृत्योर्मम पाशं यान्तीत्यर्थ । अथ धीरा इति । अथशब्दः प्रकृतविषयार्थान्तर परिग्रहे । धीमन्तः प्रत्यगात्मन्येव ध्रुवममृतत्वं विदित्वा इह संसारमण्डले अध्रुवेषु पदार्थेषु कमपि न प्रार्थयन्ते । प्रत्यकूतत्त्वज्ञस्य सर्वे जिहासितव्यमिति भावः । परमात्मनस्सर्वजीवगताहन्तास्पदत्वेन मुल्याहमर्थत्वात् प्रत्यक्तमस्तीति द्रष्टव्यम् ॥ २॥

येन रूपं रसं गन्धं शब्दान् स्पर्शश्च मैथुनान् । एतेनैव

विजानाति किमत्र परिशिष्यते । एतद्वै तत् ।। ३ ।।

येनेति । मैथुनान् मिथुननिमित्तकसुखविशेषानित्यर्थ । निश्शेपं येन तेनैव साधनंन जानानात्यथ । • नं दवा ज्योनिषां ज्योनि ' रिति म्पादिप्रकाशकान मिन्द्रियाणां तदनुगृहीतानामेव कार्यारम्भकत्वादिति भावः । किमत्र परिशिष्यते किं तदप्रकाश्यमिति भावः । एतद्वै तत्-पूर्वं प्राप्यतया निर्दिष्टं तत्परमं पदं एतद्वै एतदेव एनन्मन्त्रप्रतिपाद्यात्मम्वरुपमेवेत्यर्थ ।। ३ ।।

म्बप्रान्नं जागरितान्तञ्चोभौ येनानुपश्यति । महान्नं विभुः

मात्मानं मत्वा धीरो न शोचति ।। ४ ॥

स्वप्रान्नमिनि । मकल म्वमप्रपश्चं जाग्रत्प्रपचं च मन आदीन्द्रियभावमापन्नेन येन परमात्मना लोकः पश्यतीत्यर्थः । महान्तमित्यत्र तमिति शेषः । उक्तोऽर्थः ।। ४ ।।

य इदं मध्वदं वेद आत्मानं जीवमन्तिकात् । ईशानं भूत

भव्यस्य न ततों विजुगुप्सते । एतद्वै तत् ।। ५ ।।

थ इदं मध्वदमिति । इदमिति लिङ्गव्यत्ययश्छान्दसः । इमं मध्वदं

  • ऋतं पिबन्ता' विति निर्दिष्टं कर्मफलभोक्तारं जीवात्मानं 'गुहां प्रविष्टा'वित्युक्त

रीत्या तस्यान्तिकं कालत्रयवर्तिचिदचिदीश्वरं च यो बेद तं दुष्कृतकारिणमि