पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
४७
कठोपनिषत्

न निन्देदित्यर्थः । 'गुप्तिजिकद्भयस्सन्नि ? त्यत्र जुगुप्साशब्दः निन्दार्थक उक्तः । जुगुप्साविरामप्रमादार्थाना' मिति पञ्चमी । एतद्वै तदिति पूर्ववत् ।। ५ ।।

यः पूर्वं तपसो जातमद्भयः पूर्वभजायत । गुहां प्रविश्य

तिष्ठन्नं यो भूतेभिर्यपश्यत । एतद्वै तत्।। ६ ।।

यः पूर्व तपसो जातमिति ।

अप एव ससर्जादौ तासु वीर्यमपासृजत् ।

तदण्डमभवद्वैमं सहस्रांशुसमप्रभम् ।।

तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ।।

इति स्मृत्युक्तरीत्या अद्भय: अपादानेभ्यः व्यष्टिसृष्टः पूर्वं यः अजायत, तं, तपसः-- सङ्कल्पमात्रादेव पूर्व जानं * यो देवानां प्रथमं पुरस्ताद्विश्वाधेिको रुद्रो महर्षेि । हिरण्यगर्भ पश्यत जायमान मिति श्रुत्युक्तरीत्या प्रथमं जातं गुहां प्रविश्य तिष्ठन्तं हृदयगुहां प्रविश्य वर्तमानं, भूतेभिः-भूतैः देहेन्द्रियान्तःकरणादिभिरुपेतं चतुर्मुखं अयं सकलजगत्स्रष्टा स्यादितेि कटाक्षेणैक्षतेत्यर्थः । एतद्वै तत्-उक्तोर्थः।।

या प्राणेन संभवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती

या भूतेभिव्यजायत । एतद्वै तत् ।। ७ ।।

या प्राणेनेति। अयं च मन्त्रः । 'गुहां सूत्रे भगवता भाष्य प्रावष्टा'ावात कृता व्याख्यातः । इत्थं (तत्र) हेि भाष्यकृता ' कर्मफलान्यतीतेि अदितिः जीव उच्यते । प्राणेन संभवति—प्राणेन सह वर्तते । देवतामयी-इन्द्रियाधीनभोगा। गुहां प्रविश्य तिष्ठन्ती-हृदयपुण्डरीककुहरवर्तिनी । भूतेभिव्यजायत- पृथि व्यादिभिभूतैः सहिता देवादिरूपेण विविधाजायते इति भाषितम् । एतद्वै तत् .तत् तदात्मकमित्यर्थः । अत्रैव प्रकरणे 'ब्रह्मजशं देवमीड्यं विदित्वे'त्यत्र देव मित्यस्य परमात्मात्मकमिति व्याख्यातत्वात् 'क्षेत्रज्ञ चापि मां विद्धी'ति एतदुपवृंहण गीतावचनेऽपि मां मदात्मकमिति भाष्यकृतैव व्याख्यातत्वात् अपृथक्सिद्धविशेषण वाचिशब्दस्य विशेष्य इवापृथक्सिद्धविशेष्यवाचिशब्दस्यापि विशेषणे निरूढत्वात् तत्तदात्मकमित्यर्थो युक्त इति द्रष्टव्यम् ॥ ७ ॥