पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
४९
कठोपनिषत्

मृत्युमाप्नोति य इह नानेव पश्यति–इह परमात्मनि भेदमिव यः पश्यति स तु संसारात्संसरं प्राप्नोतीत्यर्थः ॥ १० ॥

मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन । मृत्योस्स मृत्यै

गच्छति य इह नानेव पश्यति ।। ११ ॥

नन्वस्माकं सर्वात्मभूतं परमात्मतत्वं कुतो लभ्यत इत्यत्राह--मनसैवेदमाप्तव्य मिति । इदं आर्मस्वरूपं विशुद्धमनग्राह्यमित्यर्थः । उक्तमेवार्थं दृढीकरणायाभ्यस्यति नेह नानास्तीत्यादि । स्पष्टोर्थः ॥ ११ ॥

अङ्गुष्ठमात्रः पुरुषो मध्य आरमनि । तिष्ठति । ईशानो

भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२॥

अङ्गुष्ठमात्र इति । ईशानो भूतभव्यस्य–कालत्रयवर्तिनिखिलचेतनाचेत नेश्वरः पुरुषः, मध्य आत्मनि-उपासकशरीरमध्ये, अङ्गुष्ठपरिमाणम्सन्नास्ते । न ततो विजुगुप्सते -नतः भूतभव्येश्वरत्वादेव वात्सल्यातिशयाद्देहगतानपि दोषान् भोग्यतया पश्यतीत्यर्थः । ‘ननु प्राणाधिपस्संचरति स्वकर्मभिरङ्गुष्ठमात्र रबितुल्यरूपः अष्ठमात्रं पुरुषं निश्चकर्ष यमो बलन्' इत्यादिश्रुतिस्मृतिषु अङ्गुष्ठमात्रत्वेन प्रति पादितम्य जीवस्यैवास्मिन्मन्त्रे प्रतिपादनं किं न स्यात् । न च न तस्य भूतभव्येशा- नवादीति वाच्यम् । प्रथमश्रुतजीवलिङ्गानुवेधेन चरमश्रुतभूतभव्येशानत्वस्य आपेक्षि कतया यजयितुं शक्रयवादिति चेन्न । ‘शब्ददेव प्रमितः’ इत्यधिकरणे एवमेव । पूर्वपक्षी कृवा । 'हृदयावच्छेदनिबन्धनाङ्गुष्ठपरिमाणस्य परमात्मन्यपि संभवात् । 'अङ्गुष्ठमात्रः पुरुषेऽङ्गुष्ठं च समाश्रितः ' इति तैत्तिरीयके 'अङ्गुष्ठमात्रः पुरुक्षोन्तरात्मा सदा जनानां हृदये सन्निविष्टः' इति श्वेताश्वतरे चक्षुष्ठमालवस्य परमात्मन्यपि अवणात् असङ्गचितभूतभव्येशितृवस्य अनन्यथासिद्धब्रह्मलिनचादयं मन्त्रः परमात्म पर एवेति सिद्धान्तितस्यात् । यचत्र कैश्चिदुच्यते--अङ्गुष्ठमालत्वं जीवलिङ्गमे। अथापि ‘अङ्गुष्ठमात्रः पुरुधो मध्य आत्मनि तिष्ठती' ति पूर्वो धेन जीवमनूद्य ईशानो भूतभव्यस्येत्यनेन परमात्मभावो विधीयत -इति । तदसमञ्जसम् । तथाहि सति परमात्मन्यङ्गुष्ठमात्रत्वसंभावनाप्रदर्शकस्य ‘हृद्यपेक्षया तु मनुष्याधिकारन्वा' दिति सूत्रस्यासङ्गतिप्रसङ्गात् । ननु नास्मिन्मन्त्रं जीबानुवादेन ब्रक्षभावो विधीयते,