पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
५३
कठोपनिषत्

तस्य सर्वप्राणिप्राणनहेतुत्वरूपं महिमानमाह--न-प्राणेनेति । केनेतरेण जीवन्तीत्यत्राह--यस्मिन्नेतावुपाश्रितौ। यदधीनं प्राणापानयोरपि जीवनं तद धीनमेव सर्वेषां जीवनमिति भावः । स्पष्टमन्यन् ।। ५ ॥

हन्त त इदं प्रत्रक्ष्यामि गुहं ब्रह्म सनातनम् ।

यथा च मरणं प्राप्य आत्मा भवति शैतम ॥ ६ ॥

हन्त त इदमिति । गुडं –अतिरहस्थं सनातनं ब्रह्म ते पुनरपि प्रवक्ष्यामि । हन्तेति स्वगतम् आश्चर्ये । हे गौतम आरमा मरणं मोक्ष प्राप्य यथा यसप्रकार- विशिष्टं भवति तथा पुनरपि मुमुक्षवे रागाद्यनुपहताय । उपदेशयोग्याय तुभ्यं वक्ष्यामीत्यर्थः ॥ । ६ ।।

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।

स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ।। ७ ।।

अधिकारिविशेषनिर्देशपरेण “हन्त त" इत्यनेन सूचितमर्थं विवृणोति योनिमिति । अन्ये परमात्मतत्वश्रवणविमुखः त्वद्विसदृशः शरीरपरिग्रहाय ब्राह्मणादियोनिं प्रपद्यन्ते । अन्ये स्थाचरभावमनुगच्छन्ति । स्वानुष्ठित्यज्ञादिकम . पासनानतिक्रमेण “ रमणीयचरण। " " तं विद्यकर्मणी समन्वारभेते’ इत्यादि श्रुत्यनुरेधदिति भावः । ७ ।।

य एष सुप्तेषु जागर्ति कामंकामं पुरुसो निर्भिमाणः ।

तदेव शुकं तद्रह्म तदेवामृतमुच्यत ।

तस्मिन् लोकाः श्रितास्सर्वे तदु नात्येति कश्चन ।

एतद्वै तत् । ८ ॥

एवं शिष्यं प्ररोचनथाभिमुखीकृत्य प्रकृतमनुसरत-“य एष सुप्तेषु जागर्तीति । सर्वेषु सुतेषु जीवेषु कामंक्रमं णमुलन्तमिदम् । सङ्कल्प्य सक्कल्प्येत्यर्थः । न तु ‘ सर्वान् कामान् छन्दतः प्रार्थयस्वेति प्रकृताः पुत्रादयः कामशब्देन निर्दिश्यन्ते । अयं चार्थः सन्ध्याधिकरणभाष्यश्रुतप्रकाशिकयोः स्पष्टः । सङ्कल्प्य स्क्च्छन्दनुरोधेन निर्मिमाणः पुरुषो योऽस्ति तदेव शुझी-प्रकाशकं तदेवानन्याधान