पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
५५
कठोपनिषत्

एकोचशीति । एकः समाभ्यधिकरहितः । वशः इच्छा सोऽस्यास्तीति वशी । जगद्वशे वर्तत’ इत्युक्तरीत्या वशवर्तिप्रपञ्चक इति बाऽर्थः। एकं बीजं ‘ तमःपरे । देव एकीभवती' ति श्रुयुक्तरीत्या स्वेन एकीभृताविभागावस्थं तमोळक्षणं बीजं महदादिबहुविधप्रपञ्चरूपेण यः करोति तं य आमनि तिष्ठन्नियुक्तरीत्या स्थान्तर्या मिणं ये पश्यन्ति तेषामेव मुक्तिरित्यर्थः ॥ १२ ॥

नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति

कामान् । तमात्मस्थं येऽनु पश्यन्ति धीरास्तेषां शान्तिः

शाश्वती नेतरेषाम् ।। १३ ।।

निन्यो नित्यानामिति । नित्यजेतन एक एव सन् बहूनां नित्यानां चेतना नामपेक्षितार्थान् अनायासेन प्रयच्छति । शिष्टं स्पष्टम् ॥ १३ ॥

तदेतदिति मन्यन्ते निर्देश्यं परमं सुखम् । कथन्नु तद्विजा

नीयां किमु भाति विभाति वा ।। १४ ॥

एवमुक्तशिष्य आह -- तदेतदितीति । तत्--अलैौकिकं परमात्मानमानन्द- रूपं ब्रम एतदिति-करतलामलकवत् अपरोक्षे भवादृशाः निष्पन्नयोगा मन्यन्ते । भवादृशाम्साक्षात्कर्तुं शक्नुवन्तीत्यर्थः । कथं रूपादिहीनं ब्रह्म अहणासमर्थमानसोऽहं विजानीयाम् । तत् किं दीप्तिमत्तया भासते । तत्रापि विस्सष्टं प्रकाशते । उत तेजोन्तर संवलनान्न विस्पष्टं प्रकाशते इति प्रश्नः ॥ १४ ॥

न तत्र वयं भाति न चन्द्रतारकं नेमा विद्युतो भान्ति

कुनोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा

सर्वमिदं विभाति ॥ १५ ॥

।। इति पवमवल्ली ॥

परमात्मनः योगयुगालम्बनाय ' आदित्यवर्णं तमसः परस्तात् ’ ‘सदैकरूपरूपाये ति प्रमाणप्रतिपन्नशुभाश्रयदिव्यमङ्गलविग्रहोऽस्ति, तद्विशिष्टः परमात्मा विभाति सर्वातिशायिदीप्तिमानित्याह— न तत्र क्षय भातीति । अयं च मन्त्रः