पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
[पञ्चम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

ज्योनिर्दर्शना ? दिति सूत्रे ‘ सर्वतेजसां छादकं सर्वतेजसां कारणभूतमनुग्राहकं । च अष्ठप्रमितस्य ज्योतिर्दश्यत “ इनि भाव्येण विवृतः । इदं च भाष्ये ‘न तत्र सूर्य इत्यादिमन्त्र पूर्वार्धस्यार्थमाह--सर्वतेजसां छादकमिति । उत्तरार्धस्य पूर्वपादार्थ माह--सर्वतेजसां कारणभूतमिति । अनुभानं पश्चज्ञानम् । तेन कार्यकारणभावः सिद्धः। पौर्वापर्यनियमो हि कार्यकारणभाव इति भावः । चतुर्थपादार्थमाह अनुग्राहकमिति । 'यस्यादित्यो भामुषयुज्य भाती' त्यादिश्रुतिश्चानुग्राहक्कवे प्रमाण मिति व्यास’विंवृत्तम् । तदीयदाप्तिसाक्षात्कारसंभवे तेजोन्तराणामभिभूनत्वं प्रथमा धीर्थः । तेजोन्तरे वलौ तदुपादानद्रव्यानुग्राहकत्वरूपं निमितत्वं तृतीयपादार्थः चाक्षुपरस्म्यनुग्राहकचन्द्रातपादेरिव उत्पन्नस्यापि तेजसः बसंबंधेन स्वकार्यकरण सामथ्र्याधाियकत्वलक्षणानुग्राहकत्वं चतुर्थपादार्थ इत्यप्यर्थनंचैव द्रष्टव्यः । अधिष्ठानः ब्रह्मरूपभानव्यतिरिक्तभानशून्यत्वमध्यस्तप्रपञ्चस्य तृतीयपादार्थ इति यत्रैरुच्यते। तदयुक्तम् । तथाहि सति भान्तमिति कथैर्थशतृप्रत्ययस्य शिष्यज्ञानं प्रकाशत इतिवदभेदेपि कथञ्चित्संभवेपि अनुभातीत्यस्य शब्दस्यायोगात् । न हि देवदत्त- गमनक्रियाव्यतिरिक्तागमनक्रियाशून्ये तिष्ठति यज्ञदतेगच्छन्नं देवदतं यज्ञदत्तोऽनु गच्छतीति प्रयोग दृष्टचरः । ननु वह्निमेत्र दहन्तमयोऽनुदहनीनि प्रयोगो दृष्टचर इति चेन्-न । अयसः पृथक दग्ध्यभावं निश्चितक्तः तप्रतिपिपादयिषया तादृश प्रयोगस्य सम्प्रतिपन्नाभावात् । ननु तदीयदीप्तिमाक्षात्कारसंभवे तेजोन्तराणामभि- भूतदमिति भवदभिमतार्थोपि न युज्यते, तदीयदीप्तिसाक्षाकाश्वनर्माप मुक्तानां तेजोन्तरसाक्षात्कारदर्शनेन सजातीयसंवलनधीनग्रहणलक्षणाभिभधम्याभावादिति चेदुच्यते । बह्वपथमवनन् । बद्धानां तत्स!क्षाकरप्रसक्कांदं कथमिति चेन्न । बद्धानामेवार्जुनादीनां तन्साक्षात्कारदर्शनात । यद्वा कालिदासकवौ परिगण्यमाने इतरः कुकविरकविरिनिवत् भाति ब्रह्मणि परिगण्यमने सूर्यादितेजोन्तरं न भाति । अतस्तदेव ब्रम अतिभास्वररूपशालीति पूर्वार्धार्थः । तदीयदीप्तिसाक्षात्कारसंभवे तेजोन्तराणामभिभूतव ' मिति व्यासर्थवचनम्यप्ययमेवार्थः । इममेवार्थ इतरतेजसां स्वरूपोत्पनं फलजनने च परमात्मनुग्रहसापेक्षत्वप्रदर्शकंन तमेव भान्तमित्युत्त राधेन द्रढयतीति ने दोष इत्यवगन्तव्यम् । यद्वा पूर्वार्धस्य यथाश्रुत एवार्थः । नन्वतिभास्वररूपवति स्र्यादौ प्रत्यक्षेणानुभूयमाने न भातीति प्रत्यक्षविरुद्धं कथमभि