पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
६३
कठोपनिषत्

अन्योरक्रमणे उपयुज्यन्त इति व्यास`व्याख्यातम् । इदं च वयं भगवता बादरायणेन उकान्तिपादे चिन्तितम् । तथा हि-मूर्धन्यया शताधिकया नाड्या विदुषे गमनं, अन्याभिरविदुष इति नियमो नोपपद्यते । नाडीनां भूयस्त्वात् अतिसूक्ष्मवाच दुर्विवेचतया पुरुषेणोपादातुमशक्यत्वात् । ‘ तयोर्घमायन्नमृतःचमेति विष्वङ्ङन्या उत्क्रमणे भवन्तीति यादृच्छिकीमुत्क्रान्तिमनुवदतीति युक्तमित्येवं प्राप्ते पूर्वपक्षे--'तदोफोग्रज्वलनं तमशितद्वारो विंशसामथ्र्योतच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतशताधिकया’ इति सूत्रेण सिद्धान्तितम् । तस्य चायमर्थः । तदोकः तस्य जीवस्य स्थानं हृदयं अग्रचलनं अग्रेज्वलने प्रकाशनं यस्य तदिदमप्रज्वलनम् । तेन अप्रचलनेन प्रकाशितद्रो भवति । “ तस्य हृदयस्याएं प्रद्योतते तेन प्रद्यो तेनैष आत्म निष्कामति चक्षुषो वा मूध्न वा अन्येभ्यो वा शरीरदेशेभ्यः इति श्रुतेः । एतावद्विद्वदविद्वसधारणम् । विद्वांस्तु शताधिक्या मूर्धन्ययैव नाथ उस्ठमति । न चास्या नाड्या विदुषो दुर्विबेचत्वम् । विद्वान् हि परमपुरुषाराधन भूतात्यर्थप्रियविद्यमामयन् विद्याशेषभूततयाऽऽमनोऽत्यर्थप्रियगत्यनुसरणयोगाच प्रसन्नेन हर्देन परमपुरुषेणानुगृहीतो भवति । ततस्तां नाडीं विजानातीति तया विदुषो गतिरुपपद्यत इति । प्रकृतमनुसरामः ॥ १६ ॥

अङ्गुष्ठमालः पुरुषेन्तरात्मा सदा जनानां हृदये सन्निविष्टः ।।

तं स्वाच्छरीरामधूहेन्धुजादिषीकां धैर्येण । तं विद्याच्छुक्र-

भमृतं तं विधाच्छुक्रममृतमिति ॥ १७ ॥

अङ्गुष्ठमात्र इति । स्पष्टोर्थः । तं स्वाच्छरीरादिति । यथा देवदत्तः स्वाच्छरीराद्विलक्षण इत्युक्ते स्वशब्दः समभिव्याहृतदेवदतसग्घन्धिपरामर्श, एवं प्र्व निर्दिष्टन्तरामसंबन्धिपरामर्श स्वशब्दः । ततश्चायमर्थः। ते जनानामन्तरात्मानं तच्छरीरभूतान् जनशब्दिताचेतनात् प्रभृहे–विविच्य जानीयात् । ‘जुष्टं यदा पश्यत्यन्यमीश ’ मिति श्रुत्युक्तरीत्य। धारकत्वनियन्तृत्वशेषित्वादिना विलक्षणं जानी यादित्यर्थः । मुआव्---तृणविशेषात् । इषीकां -तन्मध्यवर्तिस्थूलतृणविशेषमिव । धैर्येण---शनकैौशलेनेति पूर्वेणान्वयः । ते विद्याच्छुक्रममृतं तं विद्याच्छुक्र- ममृतमिति । उकार्षः। द्विर्वचनमुपदेशसमास्यर्थम् ॥ १७ ॥