पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
६५
कठोपनिषत्

इयं चोपनिषत् भगदपरैवेति भगवता बादरायणेन समन्वयाध्याये त्रिभि रधिकरणैर्निर्णातम् । तत्र यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः' इति वाक्ये ब्रह्मक्षत्रयोरोदनत्वरूपणेन भोज्यत्वस्य च भोभ्यस्वस्य वा प्रतीतेः तमतिसंबन्धी यस्येति षष्ठयन्तयच्छब्दनिर्दिष्टो भोक्ता जीव एव स्यात्; परमरमनो भोक्तृत्वासंभवादिति पूर्वपशं कृत्वा, ‘अत्त चराचरग्रहणात् प्रकरणाच्च, गुहां प्रविष्टवात्मानौ हि तद्दर्शनात्, विशेषणाचति चतुर्भिस्सूत्रैः सिद्धान्तः कृतः । तेषां चायमर्थ: । ‘उभे भवत ओदनः ’ इति ओदनप्रति सम्बन्धितया प्रतीयमानः अत्ता परमात्मैव । ब्रह्मक्षत्रशब्दगृहीतनिखिलचराचर संहर्तृत्वस्यात्र मन्त्रे प्रतिपादनात् । अत्र ब्रनक्षत्रशब्दयो: निखिलचराचरक्षकत्व प्रकारःआदनशब्दस्य चिनाट्यवलक्षकत्रप्रकारश्च एतन्मन्त्रव्याख्यानावसरे प्रति पादितस्तत्रैवानुसंधेयः ‘महान्तं विभुमात्मानमिति प्रस्तुतत्वेन तस्य ब्रह्मप्रकरण- मध्यगतत्वाच्च । ननु तं पित्रस्तावित्युत्तरमन्त्रे कर्मफलभोगान्वयिनोरेव प्रतिपादनात् परमात्मनश्च जीवत् कर्तृत्वेन वा अन्तःकरणवत् करणवेन वाऽन्वयासंभवस्त्, परमात्मप्रकरणमध्यगतत्वं नास्तीत्यर्धक्योक्तं 'गुहां प्रविष्टावामानौ हि तद्दर्शनादिति। गुहां प्रविष्टं जीवपरमात्मानावे । तयोरेवास्मिन्प्रकरणे गृहप्रवेशदर्शनात् । ‘ते दुर्दशं गूढमनुप्रविष्टं गुहाहित 'मिति परमात्मनो गुद्दप्रवेशः श्रूयते । ‘या प्राणेन संभवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती' ति जीवस्यापि गुह्य प्रवेशो दृश्यते । । अतः द्वयोरपि गुहाप्रवेशदर्शनात् तयोरेवपिघदपिबतो छत्रिन्यायेन सुते पिबन्त विति निर्देशस्य संभवात् , आंतं पिबन्ताविति मन्त्रेण न परमाम प्रकरणविच्छदश्शकयशकः।“ विशेषणाच्च । अस्मिन्प्रकरणे ' ब्रह्मजज्ञे देवमीड्यं विदित्वे ति जीवपरयोरुपास्यत्वोपासकत्यादिना विशेषितत्वात् तयोरेखोपासनसौकर्याय एकाधिकरणस्थत्वप्रतिपादनार्थत्वात् ‘ठतं पिबन्तवति मन्त्रस्य जीवपरप्रतिपाद कत्वमेव । अतः यस्य ब्रह्म च क्षत्रं चेति मन्त्रः परमात्मपर एवेति निर्णीतम् । तथा ‘अनुष्ठमात्रः पुरुभो मध्य आमनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते’ इति मन्त्रे अनुष्ठमात्रतया निर्दिश्यमानो जीव एव; अङ्गुष्ठमात्रत्वस्य जीवधर्मतया ‘प्राणाधिपस्संचरति स्वकर्मभिरकुष्ठमात्रो रवितुल्यरूपः ’ ‘अङ्गुष्ठमात्रं