पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
६७
कठोपनिषत्

इन्द्रियादिवशीकरणप्रकरस्यैव ‘यच्छेद्वाङ्मनसी प्राज्ञः’ इत्यादिदर्शनान् , तदनुसारे णाव्यक्तशब्देन शरीरमेव गृञ्जते । ननु कथमव्यक्तशब्देन व्यक्तस्य शरीरस्याभि धानम् । तत्राह –‘ सूक्ष्मं तु तद्द्दत्वात्' भूतसूक्ष्ममव्याकृतं ह्वस्थाविशेषमापनं शरीरं भवति । ततश्च कारणवाचिना अध्यक्शब्देन स्थूलं शरीरमेवोपचारादुच्यत इत्यर्थः। ननूक्तशब्दस्य मुख्य एवार्थोऽस्तु, कुतः स्थूलशरीरे लक्षणाभ्युपगन्तव्यें. त्यत्राह--तईस्यादिति । स्थूलशरीरस्यैव कार्यार्हत्वा , तस्यैव वशीकार्यत्वाय प्रतिपादनस्यापेक्षितत्वात् , अव्यक्तशब्देन कारणवाचिना स्थूलशरीरलक्षणा उचितेति भावः । ननु यदि भूनसूक्ष्ममव्याकृतमभ्युपगम्यते, कापिलतन्त्रसिद्धोपादाने कः प्रद्वेष इत्यत्राह -‘ तदधीनत्वादर्थवन् । अस्मन्मते अव्यय परमात्माधीनतया तदधिष्ठितत्वेन प्रयोजनवत्वमस्ति । सांख्यमते तदनभ्युपगमात् तस्य निष्पयो जनस्त्वमिति भावः । ‘ज्ञेयत्वावचनाच्च । यदि तन्त्रसिद्धमव्यक्तमेवाविवक्षिष्यत्, तदास्य ज्ञेयत्वमवश्यत्। व्यक्ताव्यक्तज्ञविज्ञानान्मोक्षे वदङ्कितान्त्रिकैस्तेषां सर्वेषां ज्ञेयत्वाभ्युपगमात । नचाम्य ज्ञेयमुच्यते । अतो न तन्त्रसिद्धस्येह ग्रहणम् । वदतीति चेन्न प्राज्ञो हेि प्रकरणात् ' । ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं भहतः परं ध्रुवं निचाय्य तं मृत्युमुखस्प्रमुच्यते' इत्यव्यक्तस्य ज्ञेयत्वमनन्तरमेव श्रुतिर्वदतीति चेन्न । ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पद' मिति प्रज्ञस्य परमात्मनः प्रकरणात् स एव अशब्दमस्पर्शमिति मन्त्रे ज्ञेयत्वेन निर्दिश्यते, न तन्त्रसिद्धमव्यक्तम् | 'त्रयाणामेव चैवमुफ्म्न्यासः प्रक्षश्च' । अस्मिन्प्रकरणे हि उपायोपेयोपेतृणां त्रयाणामेव ज्ञेयत्वोपन्यासः 'अन्यत्र धर्मादन्यत्रा धर्मादि' ति प्रभश्च दृश्यते । नाव्यक्तादेः। ‘महद्वच्च । यथा ‘बुद्धेरामा महान्परइत्यत्रात्मशब्दसामानाधिकरण्यानि तन्त्रसिद्धं महत्तत्त्वं गृह्यते, एवमव्यक्त मप्यात्मनः परवेनाभिधानान्न कापिलतन्त्रसिद्धे गृयत इति स्थितम् । अत इयमुष निषत्सवपि परमामपरेति त्रिभिरधिकरणैर्निर्णीतम् ॥

क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजूभयत भाष्यसुधामुदारः ।

बामागमाध्वगदावदतूलवतो रामानुजस्स मुनिराद्रियतां मदुक्तिम् ॥

॥ इति कठोपनिषदि षछवीभाष्यम् ॥

॥ इति श्री रङ्गरामानुजमुनिविरचितं कठोपनिषद्भाष्यं समाप्तम् ॥