पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

iv

“ अग्रमेव लोकः स्यन्नभानादिरूपोऽति । न परः परलोकः इति मानी इति मननशीलः तदनुरूपभाचरन् पुनःपुनः जन्ममरणप्राप्य मम वशमापद्यत इत्येवमयं लोक इयत्र एवशब्दमध्याहृत्य व्याख्यातं परैः । आचार्यास्तु च- शब्दमध्याहत्य व्याचक्षते -- अत्रामुत्र च सुखं नास्तीत्यर्थः इति । देहान्तरेष भग्यमिति शेषः ।

इति अत्र परेषामभिमतो यः पाठः तमेव कृत्वा आचार्याः व्याचक्षत इत्येतैरुच्यत इति स्फुटम् । तत्र चकारयाहारेण अयं परश्च लोको नास्तीयों सति अस्यार्थस्य इतिमानीत्युत्तरत्र ॐथमन्वयः । न हि कश्चिदयं लोको नास्तीति मन्येत इति शङ्कर्हािराश्रोको देहान्तरेति । वर्तमाने देहे अयं लोको नास्तीति सत्यं न कश्चिन्मन्येत । देहान्तरपभोग्गं तु ऐहिकमा मुष्मिकं वा मुहं नास्तीति देहातिरिक्त आमा नास्तीत्यजानन् सर्वं मन्येतैव । ऐहिकसुखमेव चायं लोक इयुच्यते, इत्याशयः । एवं मावप्रकाशिकायामेकश्च व्याख्याने कृते कस्मिश्चित् श्रीभाष्यकोशे 'अयं लोको नास्ति पर उत मान’ इति स्थितं पाठं दृष्ट्वा तदनुसारेणेह प्रकारान्तरेण व्याख्यातमिति भाति ।

न हि नरेण मनुष्येण अवरेण प्रोक्तः अपरेण हीनेन प्राकृतबुद्धिनेत्येतत् । उन्नः एषः आत्मा यं च मां पृच्छांसं । न हि मुटु सम्यक् विहेयः विज्ञातुं शक्यः । यस्मात् बहुधा अस्ति नास्ति कर्ताऽकतं शुदोऽशुद्ध इत्याद्यनेकधा चिन्त्यमानः वादिभिः । कथ पुनः मुविहेय इति उच्यते । अनन्यप्रोक्ते अनन्येन अपृथग्दर्शिनऽऽचर्येण प्रतिपाधब्रामभूतेन प्रोके उत आस्मन गतिः अनेकधा अस्तिनास्तीयादलक्षण चिन्ता गतिः अत्र अस्मिमात्मनि नास्ति न विद्यते । सर्वविकल्धगतिप्रयस्तमितरूपत्वादात्मनः | अथ वा स्वात्मभूते अनन्यस्मिन् आमनि प्रोत अनन्यप्रोक्ते गतिरत्र अन्यावगतिर्नास्ति । श्रेयस्यान्यस्याभावात् । ज्ञानस्य एषा परा निष्ठा यदात्मैकत्वविज्ञानम् । अतो गन्तव्याभावान्न गतिरत्रावशिष्यते । संसार- गतिर्वाऽत्र नास्ति अनन्य आत्मनि प्रोते नान्तरीयकचात् तद्विज्ञानफलस्य मोक्षस्य । अथ वा प्रोच्यमानश्रममभूतेनाचार्येण अनन्यतया प्रोक्ते आत्मनि अगतिः अनवधोधोऽपरिज्ञानमत्र नास्ति । भवत्येवावगतिस्तद्विषया श्रोतुः तदनन्योऽइमियाचार्यस्येवेत्यर्थः । एवं सुविनेय आत्मा आगमक्ताऽऽचार्येणानन्यतया प्रोक्तः । इतरथा अणीयान् अणुतरः अणुप्रमाणादपिं सम्पद्यत आत्मा । अतत्रर्थं अतर्थः अणुप्रमाणो न तर्थ: खबुध्द्याभ्यूहेन केवलेन तर्केण । तर्यमाणेऽणु प्रमाणं केनचित् स्थापिंते आमनि ततोऽणुतरमन्योऽभ्यूहति । ततोप्यन्योऽणुतरमिति । न हि तर्कस्य निष्ठा कवि विद्यते ।

९. आपनीयेति स्थाने आपनेयेति ।

१०. अमित्यमिति लिङ्गध्यययश्छान्दसः शेवधिः अनित्यं अस्तु इति जानामीति । वा । शेषधिरिति शेवधिरित्येतत् अनित्यं जानामीति ब। ।

११. एतन्मन्त्रपर्यन्तमौपोद्वातकमेकं प्रकरणम् । तत्र प्रथममन्त्रे-हितं प्रियमिति मार्गद्वयमनर्थफमस्तीतंद्वितीये –तत्र धीरेण विविच्य प्रियपरित्यागेन हितं परिपाल्यमिति, तृतीये-नचिकेतसा विवेकिना प्रियं परित्यकमिति, चक्षुर्थे-प्रियस्य अविचेति नाम, हितस्य