पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[आदितर
कथापीठलम्बकः

देव रुद्रावतारस्त्वं कोऽन्यो वेत्ति कथामिमाम । त्वत्प्रसादाद्गतप्रायः स शापो मे शरीरतः ॥ २७
तद्ब्रूहि निजवृत्तान्तं जन्मनः प्रभृति प्रभो । मां पवित्रय भूयोऽपि न गोप्यं यदि मादृशे ॥ २८
ततो वररुचिस्तस्य प्रणतस्यानुरोधतः । सर्वमाजन्मवृत्तान्तं विस्तरादिदमब्रवीत् ॥ २९
कौशाम्ब्यां सोमदत्ताख्यो नाम्नाग्निशिख इत्यपि । द्विजोऽभूत्तस्य भार्या च वसुदत्ताभिधाभवत् ॥ ३०
मुनिकन्या च सा शापात्तस्या जाताववातरत् । तस्यां तस्माद्द्विजवरादेष जातोऽस्मि शापतः ॥ ३१
ततो ममातिबालस्य पिता पञ्चत्वमागतः । अतिष्ठद्वर्धयन्ती तु माता मां कृच्छकर्मभिः ॥ ३२
अथाभ्यगच्छतां विप्रौ द्वावस्मद्गृहमेकदा । एकरात्रिनिवासार्थं दूराध्वपरिधूसरौ ॥ ३३
तिष्ठतोस्तत्र च तयोरुदभून्मुरजध्वनिः । तेन मामब्रवीन्माता भर्तुः स्मृत्वा सगद्गदम् ॥ ३४
नृत्यत्येष पितुर्मित्त्रं तव नन्दो नटः सुत । अहमप्यवदं मातर्द्रष्टुमेतद्व्रजाम्यहम् ॥ ३५
तवापि दर्शयिष्यामि सपाठं सर्वमेव तत् । एतन्मद्वचनं श्रुत्वा विप्रौ तौ विस्मयं गतौ ॥ ३६
अवोचत्तौ च मन्माता हे पुत्रौ नात्र संशयः । सकृच्छ्रुतमयं बालः सर्वं वै धारयेद्धृदि ॥ ३७
जिज्ञासार्थमथाभ्यां मे प्रातिशाख्यमपठ्यत । तथैव तन्मया सर्वं पठितं पश्यतोस्तयोः ॥ ३८
ततस्ताभ्यां समं गत्वा दृष्ट्वा नाट्यं तथैव तत् । गृहमेत्याग्रतो मातुः समग्रं दर्शितं मया ॥ ३१
एकश्रुतधरत्वेन मां निश्चित्य कथामिमाम् । व्याडिनामा तयोरेको मन्मातुः प्रणतोऽब्रवीत् ॥ ४०
वेतसाख्ये पुरे मातर्देवस्वामिकरम्भकौ । अभूतां भ्रातरौ विप्रावतिप्रीतौ परस्परम् ॥ ४१
तयोरेकस्य पुत्रोऽयमिन्द्रदत्तोऽपरस्य च । अहं व्याडिः समुत्पन्नो मत्पितास्तं गतस्ततः ॥ ४२
तच्छोकादिन्द्रदत्तस्य पिता यातो महापथम् । अस्मजनन्योश्च ततः स्फुटितं हृदयं शुचा ॥ ४३
तेनानाथौ सति धनेऽप्यावां विद्याभिकाङ्क्षिणौ । गतौ प्रार्थयितुं स्वामिकुमारं तपसा ततः ॥ ४४
तपःस्थितौ च तत्रावां स स्वप्ने प्रभुरादिशत् । अस्ति पाटलिकं नाम पुरं नन्दस्य भूपतेः ॥ ४५
तत्रास्ति चैको वर्षाख्यो विप्रस्तस्मादवाप्स्यथः । कृत्स्नां विद्यामतस्तत्र युवाभ्यां गम्यतामिति ॥ ४६
अथावां तत्पुरं यातौ पृच्छतोस्तत्र चावयोः । अस्तीह मूर्खो वर्षाख्यो विप्र इत्यवदज्जनः ॥ ४७
ततो दोलाधिरूढेन गत्वा चित्तेन तत्क्षणम् । गृहमावामपश्याव वर्षस्य विधुरस्थिति ॥ ४८
मूषकैः कृतवल्मीकं भित्तिविश्लेषजर्जरम् । विच्छायं छदिषा हीनं जन्मक्षेत्रमिवापदाम् ॥ ४९
तत्र ध्यानस्थितं वर्षमालोक्याभ्यन्तरे तदा । उपागतौ स्वस्तत्पत्नीं विहितातिथ्यसत्क्रियाम् ॥ ५०
धूसरक्षामवपुषं विशीर्णमलिनाम्बराम् । गुणरागागतां तस्य रूपिणीमिव दुर्गतिम् ॥ ५१
प्रणामपूर्वमावाभ्यां तस्यै सोऽथ निवेदितः । स्ववृत्तान्तश्च तद्भर्तृमौर्ख्यवार्ता च या श्रुता ॥ ५२
पुत्रौ युवां मे का लज्जा श्रूयतां कथयामि वाम् । इत्युक्त्वा सावयोः साध्वी कथामेतामवर्णयत् ॥ ५३
शंकरस्वामिनामात्र नगरेऽभूद्द्विजोत्तमः । मद्भर्ता चोपवर्षश्च तस्य पुत्राविमावुभौ ॥ ५४
अयं मूर्खो दरिद्रश्च विपरीतोऽस्य चानुजः । तेन चास्य नियुक्ताभूत्स्वभार्या गृहपोषणे ॥ ५५
कदाचिदथ संप्राप्ता प्रावृट् तस्यां च योषितः । सगुडं पिष्टरचितं गुह्यरूपं जुगुप्सितम् ॥ ५६
कृत्वा मूर्खाय विप्राय ददत्येव कृते हि ताः । शीतकाले निदाघे च स्नानक्लेशक्लमापहम् ॥ ५७
दत्तं न प्रतिपद्यन्त इत्याचारो हि कुत्सितः । तद्देवरगृहिण्या मे दत्तमस्मै सदक्षिणम् ॥ ५८
तद्गृहीत्वायमायातो मया निर्भर्त्सितो भृशम् । मूर्खभावकृतेनान्तर्मन्युना पर्यतप्यत ॥ ५९
ततः स्वामिकुमारस्य पादमूलं गतोऽभवन् । तपस्तुष्टेन तेनास्य सर्वा विद्याः प्रकाशिताः ॥ ६०
सकृच्छ्रुतधरं विप्रं प्राप्यैतास्त्वं प्रकाशयेः । इत्यादिष्टः स तेनैव सहर्षोऽयमिहागतः ॥ ६१
आगत्यैव च वृत्तान्तं सर्वं मह्यं न्यवेदयत् । तदा प्रभृत्यविरतं जपन्ध्यायंश्च तिष्ठति ॥ ६२
अतः श्रुतधरं कंचिदन्विष्यानयतं युवाम् । तेन सर्वार्थसिद्धिर्वां भविष्यति न संशयः ॥ ६३
श्रुत्वैतद्वर्षपत्नीतस्तूर्णं दौर्गत्यहानये । दत्त्वा हेमशतं चास्यै निर्गतौ स्वस्ततः पुरात् ॥ ६४
अथावां पृथिवीं भ्रान्तौ न च श्रुतधरं क्वचित् । लब्धवन्तौ ततः श्रान्तौ प्राप्तावद्य गृहं तव ॥ ६५