पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
[ आदितस्तरङ्गः
कथासरित्सागरः ।

तदृष्ट्वा तस्य पार्श्वस्थो धूर्त एकोऽब्रवीदिदम् । न तावदस्मै समान्यो विप्रः प्रायेण रोचते ॥ १४१

तद्य एष शिवो नाम सिप्रातीरे महातपाः । स्थितः संप्रति भात्यस्य न वेत्येतन्निरूप्यताम् ॥ १४२

तच्छुत्वा माधवोऽवादीकृतार्तिस्तं पुरोहितम् । हन्त प्रसीदानय तं विप्रो नान्यो हि तादृशः ॥ १४३

इत्युक्तस्तेन च ययौ स शिवस्यान्तिकं ततः पुरोधास्तमपश्यच्च रचितध्याननिश्चलम् ॥ १४४

उपाविशच्च तस्याग्रे ततः कृत्वा प्रदक्षिणम् । तक्षणं सोऽपि धूर्ताऽभूच्छनैरुन्मीलितेक्षणः ॥ १४५

ततः प्रणम्य तं प्रह्वः स उवाच पुरोहितः । न चेत्कुप्यसि तत्किंचित्प्रभो विज्ञापयाम्यहम् ॥ १४६

तन्निशम्य च तेनोष्ठपुटोन्नमनसंज्ञया। अनुज्ञातः शिवेनैवं तमवादीत्पुरोहितः ॥ १४७

इह स्थितो दाक्षिणात्यो राजपुत्रो महधनः । माधवाख्यः स चास्वस्थः सर्वस्वं दातुमुद्यतः ॥ १४८

मन्यसे यदि तन्तुभ्यं स सर्वं तत्प्रयच्छति । नानानर्घमहारत्नमयालंकरणोज्ज्वलम् ॥ १४९

तच्छुत्वा स शनैर्मुक्तमौनः किल शिवोऽब्रवीत् । ब्रह्मन्भिक्षशनस्यायैः कोऽथ मे ब्रह्मचारिणः ॥ १५०

ततः पुरोहितोऽप्येवं स तं पुनरभाषत । मैवं वादीर्महृत्रहानिक न वेत्स्याश्रमक्रमम् ॥ १५१

कृतदारो गृहे कुर्वन्देवपित्रतिथिक्रियाः। धनैस्त्रिवर्ग प्राप्नोति गृही ह्याश्रमिणां वरः ॥ १५२

ततः सोऽपि शिवोऽवादीत्कुतो मे दारसंग्रहः। नह्यहं परिणेष्यामि कुळद्याद्वशतादृशात् ॥ १५३

तच्छुत्वा सुखभोग्यं च मत्वा तस्य तथा धनम् । स प्राप्तावसरो लुब्धः पुरोधास्तमभाषत ॥ १५४

अस्ति तर्हि सुता कन्या विनयस्वामिनीति मे । अतिरूपवती सा च तां च तुभ्यं ददाम्यहम् ॥ १५५

यच्च प्रतिग्रहधनं तस्मात्प्राप्नोषि माधवात् । तदहं तव रक्षामि तद्भजस्व गृहाश्रमम् ॥ १५६

इत्यकथं स संपन्नयथेष्टार्थः शिवोऽब्रवीत् । ब्रह्मन्ग्रहस्तवायं चेत्तत्करोमि वचस्तव ॥ १५७

हेमरत्नस्वरूपे तु मुग्ध एवास्मि तापसः । त्वद्वाचैव प्रवर्तेऽहं यथा वेत्सि तथा कुरु ॥ १५८

एतच्छिववचः श्रुत्वा परितुष्टस्तथेति तम् । मूढो निनाय गेहं स्वं तथैव स पुरोहितः ॥ १५९

संनिवेश्य च तत्रैनं शिवाख्यमशिवं ततः । यथाकृतं शशंसैतन्मधवायाभिनन्दते ॥ १६०

तदैव च ददौ तस्मै भुतां क्लेशविवर्धिताम् । निजां शिवाय संपत्तिमिव मूढत्वहारिताम् ॥ १६१

कृतोद्वाहं तृतीयेऽह्नि प्रतिग्रहकृते च तम्। निनाय व्याजमन्दस्य माधवस्य ततोऽन्तिकम् ॥ १६२

अतर्यतपसं वन्दे त्वामित्यवितथं वदन् । माधवोऽभ्यपतत्तस्य शिवस्योत्थाय पादयोः ॥ १६३

ददौ च तस्मै विधिवत्कोषागारात्तदाहृतम् । भूरिवृत्रिममाणिक्यमयाभरणभाण्डकम् ॥ १६४

शिवोऽपि प्रतिगृथैतत्तस्य हस्ते पुरोधसः। नाहं वेद्मि त्वमेवैतद्वेत्सीत्युक्त्वा समर्पयत् ॥ १६५

अङ्गीकृतमिदं पूर्वं मया चिन्ता तवात्र का । इत्युक्त्वा तच्च जग्राह तत्क्षणं स पुरोहितः ॥ १६६

कृताशिषि ततो याते स्ववधूवासकं शिवे । नीत्वा स स्थापयामास तन्निजे कोषवेश्मनि ॥ १६७

माधवोऽपि तदन्येद्युर्मान्द्यव्याजं शनैस्यजन् । रोगोपशान्ति बक्ति स्म महदानप्रभावतः ॥ १६८

त्वया धर्मसहायेन समुत्तीर्णाऽहमापदः। इति चान्तिकमायान्तं प्रशशंस पुरोहितम् ॥ १६९

एतत्प्रभावादेतन्मे शरीरमिति कीर्तयन् । प्रकाशमेव चक्रे च शिवेन सह मित्रताम् ॥ १७०

शिवोऽपि यातेषु दिनेष्ववादीत्तं पुरोहितम् । एवमेव भवद्देहे भोक्ष्यते च कियन्मया ॥ १७१

तक त्वमेव मूल्येन गृहंस्याभरणं न तत् । महर्षमिति चेन्मूल्यं यथासंभव देहि मे ॥ १७२

तच्छुत्वा तदनर्थं च सस्वा तन्निष्क्रयं ददौ । तथेति तस्मै सर्वस्वं शिवाय स पुरोहितः ॥ १७३

तदर्थं च स्वहस्तेन शिवं लेख्यमकारयत् । स्वयं चाप्यकरोदुवा तद्धनं स्वधनाधिकम् ॥ १७४

अन्योन्यलिखितं हस्ते गृहीत्वा स पुरोहितः । पृथगासीत्पृथक्सोऽपि शिवो भेजे गृहस्थितिम् ॥ १७५

ततश्च स शिवः सोऽपि माधवः संगतावुभौ । पुरोहितार्थान्भुजानौ यथेच्छं तत्र तस्थतुः ॥ १७६

गते काले च मूल्यार्थी स पुरोधाः किळपणे । ततोऽनुकरणादेकं बिक्रेतुं कटकं ययौ ॥ १७७

तत्रैतद्रत्नतस्त्वज्ञाः परीक्ष्य वणिजोऽब्रुवन् । अहो कस्यास्ति विज्ञानं येनैतत्कृत्रिमं कृतम् ॥ १७८

काचस्फटिकखण्डा हि नानारागोपरञ्जिताः । रीतिबद्धा इमे नैते मणयो न च काञ्चनम् ॥ १७९