पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०६
[आदितस्तरङ्ग
कथासरित्सागरः।

आकर्षणाय भूयस्ते युक्त्या चैकं स्वनूपुरम् । संत्यज्य शृङ्कलापाशमिव याता ततोऽभ्यहम् ॥ २०४

अद्य चेत्थं मया प्राप्तो भवांस्तदृहमेत्य नः । भजस्व मे सुतां किं च गृहाणापरनूपुरम् ॥ २०५

इत्युक्तः स निशाचर्या तथेत्युक्त्वा तया सह । वीरो गगनमार्गेण तत्सिध्या तत्पुरं ययौ ॥२०६

सौवर्णं तदपश्यच्च शृङ्गं हिमवतः पुरम् । नशेध्वखेदविश्रान्तमर्कबिम्बमिवाचलम् ॥ २०७

रक्षोधिपसुतां तत्र नाम्ना विद्युत्प्रभां स ताम् । स्वसाहसमहसिद्धिमिव मूर्तामवाप्तवान् ॥ २०८

तया च सह तत्रैव कंचिस्कालमुवास सः । अशोकदत्तः प्रियया वधूविभवनिद्रेतः ॥ २०९

ततो जगाद तां श्वभ्रू मठं तद्देहि नूपुरम् । यतः संप्रति गन्तव्या पुरी वाराणसी मया ॥ २१०

तत्र तत्प्रतिज्ञातं स्वयं नरपतेः पुरः। एकत्वसृपुरस्पर्धिद्वितीयानयनं मया ॥ २११

इत्युक्ता तेन सा श्वशूर्छतीयं तं स्वनूपुरम् । तस्मै दत्त्वा पुनश्चैकं सुवर्णकमलं ददौ ॥ २१२

प्राप्ताञ्जनूपुरस्तस्मात्स पुरान्निर्ययौ ततः । अशोकदत्तो वचसा नियम्यागमनं पुनः ॥ २१३

तया श्वश्वैव चाकाशपथेन पुनरेव तम् । श्मशानं प्रापितः सोऽभून्निजसिद्धिप्रभावतः ॥ २१४

तरुमूले च तत्रैव स्थित्वा सा तं ततोऽब्रवीत् । सदा कृष्णचतुर्दश्यामिह रात्रावुपैम्यहम् ॥ २१५

तस्मान्निशि च भूयोऽपि त्वमेष्यसि यद् यदा । तदा तदा वटतरोर्मूलाप्राप्स्यसि मामितः ॥ २१६

एतच्छुत्वा तथेत्युक्त्वा तामामद्य निशाचरीम्। अशोकदत्तः स ततो ययौ तावत्पितुर्मुहम् ॥ २१७

कनीयुःसुतविश्लेषदुःखवैगुण्यदायिना । तादृशा तत्प्रवासेन पितरौ तत्र दुःखितौ ॥ २१८

अतर्कितागतो यावदनन्दयति तत्क्षणात् । ताबस बुद्ध ' श्वशुरस्तत्रैवास्याययौ नृपः ॥२१९

स तं साहसिकस्पर्शभीतैरिव सकण्टकैः। अत्रैः प्रणतमालिङ्ग्य मुमुदे भूपतिश्चिरम् ॥ २२०

ततस्तेन समं रज्ञा विवेश नृपमन्दिरम् । अशोकदत्तः स तद प्रमोदो मूर्तिमानिव ॥ २२१

ददौ राज्ञे स संयुक्तं तद्दिव्यं नूपुरद्वयम् । कुष्णमिव तीर्थस्तुतिं झणझणारवैः ॥ २२२

अर्पयामास तच्चास्मै कान्तं कनकपङ्कजम् । रक्षःकोषश्रियो हस्ताीलाम्बुजमिवाहृतम् ॥ २२३

पृष्टोऽथ कौतुकात्तेन राज्ञा देवीयुतेन सः । अवर्णयद्यथावृत्तं स्वं कर्णानन्दयि तत् ॥ २२४

विचित्रचरितोल्लेखचमत्कारितचेतनम् । प्राप्यते किं यशः शुभ्रमनङ्गीकृत्य साहसम् ॥ २२५

एवं वदंस्ततस्तेन जामात्र कृतकृत्यताम्। मेने स राजा देवी च प्राप्तन्नूपुरयुग्मका ॥ २२६

उत्सवातोद्यनिह्रदि तदा राजगृहं च तत् । अशोकदत्तस्य गुणानुदयदिव निर्बभौ ॥ २२७

अन्येद्युश्च स राजा तत्स्वकृते सुरसद्मनि । हेमाब्जं स्थापयामास सर्जेयकलशोपरि ॥ २२८

उभौ कलशपौ च शुशुभाते सितारुणौ । यशःप्रतापाविव तौ भूपालशोकदत्तयोः ॥ २२९

तादृशौ च विलोक्यैतौ स हर्षोत्फुल्ललोचनः । राजा माहेश्वरो भक्तिरसावेशादभाषत ॥ २३०

अहो विभाति पझेन तुङ्गोऽयं कलशोऽमुना । भूतिशुभ्रः कपर्दव जटाजूटेन बघृणा ॥ २३१

अभविष्यद्वितीयं चेदीदृशं कनकाम्बुजम् । अस्थापयिष्यतामुष्मिन्द्वितीये कलशेऽपि तत् ॥ २३२

इति राजवचः श्रुत्वाशोकदत्तस्ततोऽब्रवीत् । आनेष्याम्यहमम्भोजं द्वितीयमपि देव ते ॥ २३३

तच्छुत्वा न ममान्येन पङ्कजेन प्रयोजनम् । अलं ते साहसेनेति राजापि प्रत्युवाच तम् ॥ २३४

दिवसेष्वथ यातेषु हेमाब्जहरणैषिणि । अशोकदत्ते सा भूयोऽप्यागात्कृष्णचतुर्दशी ॥ २३५

तस्य चास्य सुवर्णाञ्जवाञ्छां बुद्ध्वा भयादिव । धूसरःस्वर्णक्रमले यातेऽस्तशिखरं रवौ ॥ २३६

संध्यारुणाभ्रपिशितग्रासगर्वादिव क्षणात् । तमोरक्षःसु धावत्सु धूमधूमेषु सर्वतः ॥ २३७

स्फुरदीपावलीदन्त मालाभास्वरभीषणे । नृम्भमाणे महारौद्रे निशानक्तंचरीमुखे ॥ २३८

प्रसुप्तराजपुत्रीकास्वैरं निर्गत्य मन्दिरात् । अशोकदत्तः स ययौ इमशनं पुनरेव तत् ॥ २३९

तत्र तस्मिन्वटतरोर्मूळे तां पुनरागताम् । ददर्श राक्षसीं श्वथै विहितस्वागतादराम् ॥ २४०

तया च सह भूयस्तद्गमन्तनिकेतनम् । स युवा हिमबच्छूद्री मार्गान्मुखवधूजनम् ॥ २४१

कंचित्कालं समं वध्वा तत्र स्थित्वाब्रवीच ताम् । श्वभ्रू देहेि द्वितीयं मे कुतश्चिकनकाम्बुजम् ॥ २४२