पुरा विद्याधरौ सन्तौ गगनाद्ळचाश्रमे । आबां स्नान्तीरपश्याव गङ्गायां मुनिकन्यकाः ॥ २९०
तुल्याभिलाषास्ताश्चात्र वाञ्छन्तौ सहसा रहः । चुलु तद्वन्धुभिः क्रोधाच्छाप्नौ स्वो दिव्यदृष्टिभिः ॥ २९१
पापाचारौ प्रजायेथां मर्ययोनौ युवामुभौ । तत्रापि विप्रयोगश्च विचित्रो वां भविष्यति ॥ २९२
मानुषागोचरे देशे विप्रकृष्टेऽप्युपागतम् । एकं दृष्ट्वा द्वितीयो वां यदा प्रज्ञानमाप्स्यति ॥ २९३
तदा विद्याधरगुरोर्विद्यां प्राप्य भविष्यथः । पुनर्विद्याधरौ युक्तौ शपमुक्तौ स्वबन्धुभिः ॥ २९४
एवं तैर्मुनिभिः शप्तौ जातावावामुभविह । वियोगोऽत्र यथा भूतस्तत्सर्वं विदितं च वः ॥ २९५
इदानीं पद्महेतोश्च श्वशृसिद्धिप्रभावतः । रक्षःपतेः पुरं गत्वा प्राप्तोऽयं चानुजो मया ॥ २९६
तत्रैव च गुरोः प्राप्य विद्याः प्रज्ञप्तिकौशिकात् । सद्यो विद्याधरीभूय वयं क्षिप्रमिहागताः ॥ २९७
इत्युक्त्वा पितरौ च तौ प्रियतमां तां चात्मजां भूपतेः
सद्यः शापतमोविमोक्षमुदितो विद्याविशेषेनिजैः ।
तैस्तैः संव्यभजद्विचित्रचरितः सोऽशोकदत्तस्तदा
नैते सपदि प्रबुद्धमनसोऽजायन्त विद्याधराः ॥ २९८
ततस्तमामद्य नृपं स साकं मातपितृभ्यां दयिताद्वयेन ।
उत्पत्य धन्यो निजचक्रवर्तधम द्युमार्गेण जबी जगाम ॥ २९९
तत्रालोक्य तमाज्ञां प्राप्य च तस्मादशोकवेग इति ।
नाम स बिभ्रत्सोऽपि च तद्धाता विजयवेग इति ॥ ३००
विद्याधरवरतरुणौ स्वजनानुगतावुभौ निजनिवासम् ।
गोबिन्दकूट संज्ञकमचलबरं भ्रातरौ ययतुः ॥ ३०१
सोऽप्याश्चर्यवशः प्रतापमुकुटो वाराणसीभूपतिः
स्वस्मिन्देवकुले द्वितीयकलशन्यस्तैकहेमाम्बुजः ।
तद्दत्तैपरैः सुवर्णकमलैरभ्यर्चतञ्जयस्यक-
स्तत्संबन्धमहत्तया प्रमुदितो मेने कृतार्थं कुलम् ॥ ३०२
एवं दिव्याः कारणेनावतीर्णा जायन्तेऽस्मिञ्जन्तवो जीवलोके ।
सस्योत्साहौ स्वोचितौ ते दधाना दुष्प्रपामप्यर्थसिद्धिं लभन्ते ॥ ३०३
तत्सत्त्वसागर भवानपि कोऽपि जाने देवांश एव भविता च यथेष्टसिद्धिः ।
प्रायः क्रियासु महतामपि दुष्करासु सोत्साहता कथयति प्रकृतेर्विशेषम् ॥ ३०४
सापि त्वदीप्सिता ननु दिव्या राजात्मजा कनकरेखा ।
बालमन्यथा हि वाञ्छति कनकपुरीदर्शिनं कथं हि पतिम् ॥ ३०५
इति रहसि निशम्य विष्णुदत्तात्सरसकथाप्रकरं स शक्तिदेवः।
हृदि कनकपुरीविलोकनैषी धृतिमवलम्ब्य निनाय च त्रियामाम् ॥ ३०६
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुर्दारिकालम्बके द्वितीयस्तरङ्गः।
*******
तृतीयस्तरङ्गः
ततस्तत्रोल्स्थळीपे प्रभाते तं मठस्थितम् । शक्तिदेवं स दशेन्द्रः सत्यव्रत उपाययौ ॥ १
स च प्राक्प्रतिपन्नः सळुपेत्यैनमभाषत । ब्रह्मस्त्वदिष्टसिद्ध्यर्थमुपायश्चिन्तितो मया ॥ २
अस्ति द्वीपवरं मध्ये रत्नकूटाख्यमम्बुधेः । कृतप्रतिष्ठरस्तत्रास्ते भगवान्हरिरब्धिना ॥ ३
आषाढशुक्छद्वादश्यां तत्र यात्रोत्सवे सदा । आयान्ति सर्वद्वीपेभ्यः पूजायै यन्तो जनाः ॥ ४
तत्र ज्ञायेत कनकपुरी सा जातुचित्पुरी । तदेहि तत्र गच्छावः प्रत्यासन्ना हि सा तिथिः ॥ ५
इति सत्यव्रतेनोक्तः शक्तिदेवस्तथेति सः। जग्राह हृष्टः पाथेयं विष्णुदत्तोपकल्पितम् ॥ ६