साप्यादिश्य प्रतीहारमविलम्चितमेव तम् । अभ्यन्तरं स्वनिकटं विप्रं प्रावेशयत्ततः ॥ ४६
प्रविष्टः सोऽभ्यपश्यतां तत्र नेत्रोत्सवप्रदाम् । धातुरङ्कतनिर्माणपर्याप्तिमिव रूपिणीम् ॥ ४७
स च सद्रत्नपर्यङ्कदूरादुत्थाय तं स्वयम् । स्वागतेनाहृतवती तद्दर्शनवशीकृता ॥ ४८
उपविष्टमपृच्छच कल्याणिन्कस्त्वमीदृशः । कथं च मानुषागम्यामिमां प्राप्तो भवान्भुवम् ॥ ४९
इत्युक्तः स तया चन्द्रप्रभया सकुतूहलम् । शक्तिदेवो निजं देशं जातिं चावेद्य नाम च ॥ ५०
तपुरीदर्शनपणाप्राप्तुं तां राजकन्यकाम् । यथा ऊनकरेखख्यामागतस्तद्वर्णयत् ॥ ५१
तद्वद् किमपि ध्यात्वा दीर्घ निःश्वस्य सा ततः । चन्द्रप्रभा तं विजने शक्तिदेवमभाषत ॥ ५२
श्रूयतां वच्मि ते किंचिदिदं सुभग संप्रति । अस्यस्यां शशिखण्डाख्यो विद्याधरपतिभुवि ॥ ५३
वयं तस्य चतस्रश्च जाता दुहितरः क्रमात् । ज्येष्ठा चन्द्रप्रभेत्यस्मि चन्द्ररेखेति चापरा ॥ ५४
शशिरेखा तृतीया च चतुर्थी च शशिप्रभा । ता वयं क्रमशः प्राप्त वृद्धिमत्र पितुगृहे ॥ ५५
एकदा च भगिन्यो मे स्नातुं तिस्रोऽपि ताः समम् । मयि कन्याघातस्थायां जग्मुर्मन्दाकिनीतटम् ॥ ५६
तत्राश्रयतपसं नाम मुनिं यौवनदर्पतः । तोयैर्जलस्थमसिचन्नारब्धजलकेलयः ॥ ५७
अतिनिर्बन्धनीस्ताश्च मुनिः क्रुद्धः शशाप सः। कुकन्यकाः प्रजायध्वं मर्यलोकेऽखिला इति ॥ ५८
तद्वद् सोऽस्मदीयेन पित्रा गत्वा प्रसादितः । पृथक्पृथक्स शापान्तमुक्त्वा तासां यथायथम् ॥ ५९
जातिस्मरत्वं दिव्येन विज्ञानेनोपचूंहितम् । मर्यभावेन सर्घसमादिदेश महामुनिः ॥ ६०
ततस्तासु तनूस्त्यक्ष मर्यलोकं गतासु सः। दवा मे नगरीमेतां पिता वेदाङ्गतो वनम् ॥ ६१
अथेह निवसन्तीं मां देवी स्वप्ने किळाचिका। मानुषः पुत्रि भेत ते भवितेति समादिशत् ॥ ६२
तेन विद्याधरांस्तांस्तान्वरानुद्दिशतो बहून् । पितुर्विधारणं कृत्वा कन्यैवाद्यप्यहं स्थिता ॥ ६३
इदानीं यमुनाश्चर्यमयेनागमनेन ते । वपुषा च वशीकृत्य तुभ्यमेवाहमर्पिता ॥ ६४
तद्रजामि चतुर्दश्यामागामिन्यां भवत्कृते । कतै तातस्य विज्ञप्तिमृषभाख्यं महागिरिम् ॥ ६५
तत्र तस्यां तिथौ सर्वे मिलन्ति प्रतिवत्सरम् । देवं हरं पूजयितुं दिग्भ्यो विद्याधरोत्तमाः ॥ ६६
तातस्तत्रैव चायाति तदनुज्ञामवाप्य च । इहागच्छाम्यहं तूर्णं ततः परिणयख माम् ॥ ६७
ततिष्ठ तावदित्युक्त्वा सा तं विद्याधरोचितैः । चन्द्रप्रभा शक्तिदेवं तैस्तैर्भागैरुपाचरत् ॥ ६८
तस्य चाभूत्तथेत्यत्र तिष्ठतस्तत्तद सुखम् । यद्दवानलतप्तस्य सुधाहनिमज्जने ॥ ६९
प्रायां च चतुर्दश्यां स तं चन्द्रप्रभाब्रवीत् । अद्य गच्छामि विज्ञयै तातस्याहं भवत्कृते ॥ ७०
सर्वः परिजनश्चायं मयैव सह यास्यति । त्वया चैकाकिना दुःखं न भाव्यं द्विसद्वयम् ॥ ७१
एकेन पुनरेतस्मिन्मन्दिरेऽप्यवतिष्ठता । मध्यमा भवंत भूमिर्नारोढव्या कथंचन ॥ ७२
इत्युक्त्वा सा युवानं तं न्यस्तचित्ता तदन्तिके । तदीयचित्तानुगता ययौ चन्द्रप्रभ ततः ॥ ७३
सोऽप्येका ततस्तत्र स्थितश्चेतो विनोदयन् । स्थानस्थानेषु बभ्राम शक्तिदेवो महद्धिषु ॥ ७४
किंस्विदत्र निषिद्धं मे तया पृष्ठेऽधिरोहणम्। विद्याधरदुहित्रेति जातकौतूहलोऽथ सः ॥ ७५
तस्यैव मध्यमां भूमिं मन्दिरस्यारुरोह ताम् । प्रायो वारितधामा हि प्रवृत्तिर्मनसो नृणाम् । ७६
आरूढस्तत्र चापश्यतांस्त्रीन्रत्नमण्डपान् । एकं चोद्धटितद्वारं तन्मध्याप्रविवेश सः ॥ ७७
प्रविश्य चान्तः सद्रत्नपर्यङ्क न्यस्ततूळिके । पटवगुण्ठितततुं शयनं कंचिदैक्षत ॥ ७८
वीक्षते यावदुत्क्षिप्य पटं तावन्मृतां तथा । परोपकारितृपतेस्तनयां वरकन्यकाम् ॥ ७९
दृष्ट्वा चाचिन्तयत्सोऽथ किमिदं महदद्भुतम् । किमप्रबोधसुतेयं किं वा भ्रान्तिरबाधका ॥ ८०
यस्याः कृते प्रवासोऽयं मम सैवेह तिष्ठति । असावपगतप्राणा तत्र देशे च जीवति ॥ ८१
अम्लानकान्तिरस्याश्च तद्विधत्रा मम ध्रुवम् । केनापि कारणेनेदमिन्द्रजालं वितन्यते ॥ ८२
इति संचिन्त्य निर्गत्य तावन्यैौ मण्डपौ क्रमात् । प्रविश्यान्तः स ददृशे तद्वदन्ये च कन्यके ॥ ८३
ततोऽपि निर्गतस्तस्य साध्य मन्दिरस्य सः । उपविष्टः स्थितोऽपश्यद्वापीमत्युत्तमामधः ॥ ८४
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/११४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११०
[ आदितस्तरङ्गः २६
कथासरित्सागरः