पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११४
[ आदितस्तरङ्गः
कथासरित्सागरः ।

चकार च शनैस्तस्य प्रणाममुपगम्य सः तेनाप्यपास्तमौनेन स्वागतेनाभ्यनन्द्यत ॥ १९९

स्थितः क्षणाच तेनैव पृष्ठो वैधुर्यकरणम् । शशंसास्मै स्वविपदं व्यसनक्षीणवित्तजाम् ॥ २००

ततस्तं स जगामैवं देवदत्तं महाव्रती । नास्ति व्यसनिनां वरस भुवि पर्याप्तये धनम् ॥ २०१

इच्छा च विपदं हातुं यदि ते कुरु मद्वचः । अविद्याधरत्वं प्राप्तं यत्कृतः परिकरो मया ॥ २०२

तरसाधय त्वमप्येतन्मया सह सुलक्षण । मच्छासनं तु पाल्यं ते नयन्तु विपदस्तव ॥ २०३

इत्युक्तो व्रतिन तेन प्रतिश्रुत्य तथेति तत् । स देवदत्तस्तत्पार्ये तदैव स्थितिमग्रहीत् ॥ २०४

अन्येद्युश्च श्मशानान्ते गत्वा वटतरोरधः। विधाय रजनौ पूजां परमान्नं निवेद्य च ॥ २०५

बीन्विक्षु च विक्षिप्य संपादिततदर्चनः । तं पार्श्ववर्तिनं विप्रमुवाच स महाव्रती ॥ २०६

एवमेव त्वया कार्यमिह प्रत्यहमर्चनम् । विद्युत्प्रभं गृहाणेमां पूजामित्यभिधायिना ॥ २०७

अतः परं च जानेऽहं सिद्धिचैवं ध्रुवावयोः । इत्युक्त्वा स ययौ तेन समं स्वनिलयं व्रती ॥ २०८

सोऽपि नित्यं तरोस्तस्य मूले गत्वा तथैव तत् । देवदत्तोऽर्चनं चक्रे तथैव विधिना ततः ॥ २०९

एकदा च सपर्यान्ते द्विधाभूतात्तरोस्ततः। अकस्मात्पश्यतस्तस्य दिव्या नारी विनिर्ययौ ॥ २१०

एह्यस्मरस्वामिनी भद्र वक्ति त्वामिति वादिनी । सा तं प्रवेशयमास तस्यैवाभ्यन्तरं तरोः ॥ २११

स प्रविश्य ददर्शात्र दिव्यं मणिमयं गृहम् । पर्यङ्कवर्तनीमेकां तत्र चान्तर्वरस्त्रियम् ॥ २१२

रूपिणी सिद्धिरस्माकमियं स्यादिति स क्षणात् । यावद्भययति तावत्सा कृतातिथ्या वराङ्गना ॥ २१३

रणिताभरणैरर्विहितस्वागतैरिव । उत्थाय निजपर्य, तमुपावेशयत्स्खयम् ॥ २१४

जगाद च महाभाग सुता यक्षपतेरहम् । कन्या हि रत्नवर्षस्य ख्याता विद्युत्प्रभाख्यया ॥ २१५

आराधयच्च मामेष जालपादो महाव्रती । तस्यार्थसिद्धिदैवास्मि त्वं प्राणेष्वपि मे प्रभुः॥ २१६

तस्माद्धृष्टानुरागिण्याः कुरु पाणिग्रहं मम । इत्युक्तः स तया चक्रे देवदत्तस्तथेति तत् ॥ २१७

स्थित्वा च कंचित्कालं स गर्भभारे तया धृते । जगाम पुनरागन्तुं तं महाव्रतिनं प्रति ॥ २१८

शशंस च यथावृत्तं तं तस्मै सभयं ततः । सोऽप्येवमात्मसिद्ध्यर्थं जगादैनं महाव्रती ॥ २१९

भद्र साधु कृतं किं तु गत्वास्या ययोषितः। विपाव्योद्रमाकृष्य शीनिं गर्भ तमानय ॥ २२०

इत्युक्त्वा स्मारयित्वा च व्रतिना पूर्वसंगरम् । प्रेषितस्तेन भूयस्तां देवदत्तोऽप्यगात्प्रियाम् ॥ २२१

तत्र तिष्ठति यावच्च तद्विभावनदुर्मनाः। तावद्विद्युत्प्रभा सा तं यक्षी स्वयमभाषत ॥ २२२

आर्यपुत्र विषण्णोऽसि किमर्थं विदितं मया । आदिष्टं जालपादेन तवं मद्दर्भपाटनम् ॥ २२३

तद्भर्भमेतमाकर्ष पाटयित्वा ममोदरम् । न चेत्स्वयं करोम्येतत्कये ह्यस्त्यत्र किंचन ॥ २२४

एवं तयोक्तः स यदा कर्तुं तन्नाशकद्विजः। तदाकृष्टवती गर्भ सा स्वयं पाटितोदरा ॥ २२५

तं च कृष्टं पुरस्त्यक्त्वा देवदत्तं तमभ्यधात्। भोक्तुर्विद्याधरत्वस्य कारणं गृह्यतामयम् ॥ २२६

अहं च शापाद्यक्षीवे जाता विद्याधरी सती । अयमीदृक्च शापान्तो मम जातिस्मरा ह्यहम् ॥ २२७

इदानीं यामि धाम स्वं संगमश्चावयोः पुनः । तत्रैवेत्यभिधायैषा कापि विद्युत्प्रभा ययौ ॥ २२८

देवदत्तोऽपि तं गर्भ गृहीत्वा खिन्नमानसः । जगाम जालपादस्य तस्य स व्रतिनोऽन्तिकम् ॥ २२९

उपानयच्च ' तं गर्भ तस्मै सिद्धिप्रदायिनम् । भजन्त्यात्मंभरित्वं हि दुर्लभेऽपि न साधवः ॥ २३०

सोऽपि तत्पाचयित्वैव गर्भमांसं महाव्रती । व्यसृजद्देवदत्तं तं भैरवाचीकृतेऽटवीम् ॥ २३१

ततो दत्तबलिर्यावदेत्य पश्यति स द्विजः । तावन्मांसमशेषं तद्रतिना तेन भक्षितम् ॥ २३२

कथं सर्वं त्वया भुक्तमिति चात्रास्य जल्पतः । जिह्वो विद्याधरो भूत्वा जालपादः खमुद्ययौ ॥ २३३

व्योमश्यामलनिस्त्रिंशे हारकेयूरराजिते । तस्मिन्नुत्पतिते सोऽथ देवदत्तो व्यचिन्तयत् ॥ २३४

कष्टं कीदृगनेनाहं वञ्चितः पापबुद्धिना । यदि वात्यन्तमृजुता न कस्य परिभूतये ॥ २३५

तदेतस्यामपकारस्य कथमद्य प्रतिक्रियाम् । कुर्यां विद्याधरीभूतमप्येनं प्राप्नुयां कथम् ॥ २३६

तन्नास्युपायो वेतालसाधनादपरोऽत्र मे । इति निश्चित्य स ययौ रात्रौ पितृबनं ततः ॥ २३७