पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
[ आदितस्तरङ्गः २७ ।
कथासरित्सागरः ।

इति तेनोदितः पित्रा वणिक्पुत्रः प्रसह्य सः । न तथा प्रतिपेदे तन्निनिन्दभ्यधिकं पुनः ॥ २६

ततः स तर्पिता वेदाङ्गत्वा धर्मानुशासितुः । राज्ञः कलिङ्गदत्तस्य पुरतः सर्वमब्रवीत् ॥ २७

सोऽपि राजा तमास्थाने युक्स्यानाय्य वणिक्सुतम् । मृषारचितकोपः सन्नेवं क्षत्तरमादिशत् ॥ २८

श्रुतं मया वणिक्पुत्रः पापोऽयमतिदुष्कृती । निर्विचारं तदेषोऽद्य हन्यतां देशदूषकः ॥ २९

इत्यूचिवांस्ततः पित्रा कृतविज्ञापनः किल । नृपतिर्धर्मचर्यायै द्वौ मासौ वधनिग्रहम् ॥ ३०

संविधार्य तदन्ते च पुनरानयनाय सः । तस्यैव तस्पितुर्हस्ते न्यस्तवांस्तं वणिक्सुतम् ॥ ३१

सोऽपि पित्रा गृहं नीतो वणिक्पुत्रो भयाकुलः । किं मयापकृतं राज्ञो भवेदिति विचिन्तयन् ॥ ३२

अकारणं द्विमासान्ते मरणं भावि भाबयन् । अनिद्रोऽपचिताहारलान्तस्तस्थौ दिवानिशम् ॥ ३३

ततो मासद्वये याते राजाने छुशपाण्डुरः। पुनः स्वपित्रा तेनासौ बाणिक्सूनुरनीयत ॥ ३४

राजा तं च तथाभूतं वीक्ष्य पन्नमभाषत । किमीहळू त्वं कृशीभूतः किं रुद्रं ते मयशनम् ॥ ३५

तच्छुत्वा स वणिक्पुत्रो राजानं तमभाषत । आस्मापि विस्मृतो भीत्या मम का त्वशने कथा ॥ ३६

युष्मदादिष्टनिधनश्रवणाप्रभृति प्रभो। मृत्युमायान्तमायान्तमन्वहं चिन्तयाम्यहम् ॥ ३७

इत्युक्तवन्तं तं रज स वणिक्पुत्रमब्रवीत् । बोधितोऽसि मया वरस युक्त्या प्राणभयं स्खतः॥ ३८

ईदृगेव हि सर्वस्य जन्तोर्मेत्युभयं भवेत् । तद्रक्षणोपकाराच्च धर्मः कोऽभ्यधिको वद ॥ ३९

तदेतत्तव धर्माय मुमुक्षयै च दर्शितम् । मृत्युभीतो हि यतते नरो मोक्षाय बुद्धिमान् ॥ ४०

अतो न गर्हणीयोऽयमेतद्धर्मा पिता त्वया । इति राजवचः श्रुत्या प्रह्वोऽवादीद्वणिक्सुतः ॥ ४१

धर्मोपदेशाद्देवेन कृती तावदहं कृतः । मोक्ष्येच्छा प्रजाता मे तमप्युपदिश प्रभो ॥ ४२

तच्छुत्वा तं वणिक्पुत्रं प्राप्ते तत्र पुरोसवे । तैलपूर्ण करे पात्रं दत्त्वा राजा जगाद सः॥ ४३

इदं पात्रं गृहीत्वा त्वमेहि भ्रान्त्वा पुरीमिमाम् । तैलबिन्दुनिपातश्च रक्षणीयस्त्वया सुत ॥ ४४

निपतिष्यति यथेकस्तैलबिन्दुरितस्तव । सद्यो निपातयिष्यन्ति त्वामेते पुरुषास्ततः ॥ ४५

एवं किलोक्त्वा व्यसृजत्तं भ्रमाय वणिक्सुतम् । उखातखङ्गान्पुरुषन्द वा पश्चात्स भूपतिः ॥ ४६

वणिक्पुत्रोऽपि स भयाद्रसैस्तैलळचच्युतिम् । पुरी तामभितो भ्रान्त्वा कृच्छाद्गान्नृपान्तिकम् ॥ ४७

नृपोऽप्यगलितानीततैलं दृष्ट्वा तमभ्यधात् । कश्विपुरभ्रमेऽप्यद्य दृष्टोऽत्र भ्रमता त्वया ॥ ४८

तच्छुत्वा स वणिक्पुत्रः प्रोवाच रचिताञ्जलिः । यत्सत्यं न मया देव दृष्टं किंचिन्न च श्रुतम् ॥ ४९

अहं कावधानेन तैललेशपरिच्युतिम् । खङ्गपातभयाद्रक्षस्तदानीमभ्रमं पुरीम् ॥ ५०

एवं बणिक्पुतेनोक्ते स राजा निजगाद तम् । दृश्यतैलैकचित्तेन न त्वया किंचिदीक्षितम् ॥ ५१

तन्तेनैवावधानेन परानुध्यानमाचर । एकाग्रो हि बहिर्मुत्तिनिवृत्तस्तत्त्वमीक्षते ॥ ५२

दृष्टतस्वश्च न पुनः कर्मजालेन बध्यते । एष मोक्षोपदेशस्ते संक्षेपात्कथितो मया ॥ ५३

इत्युक्त्वा प्रहितो राज्ञा पतित्वा तस्य पादयोः। कृतार्थः स वणिक्पुत्रो हृष्टः पितृगृहं ययौ ॥ ५४

एवं कलिङ्गदत्तस्य प्रजास्तस्यानुशासतः । तारादत्ताभिधानभूद्राजं राज्ञः कुलोचित ॥ ५५

यया स राजा शुशुभे रीतिमत्या सुवृत्तथा । नाना दृष्टान्तरसिको भारत्या सुकविर्यथा ॥ ५६

या प्रकाशगुणश्लाघ्या ज्योत्स्नेव शशलक्ष्मणः । तस्यामृतमयस्याभूदविभिनैव भूपतेः ॥ ५७

तया देव्या समं तत्र सुखिनस्तस्य ति ष्ठतः । नृपस्य जग्मुर्दिवसाः शय्येव दिवि वत्रिणः ॥ ५८

अत्रान्तरे किलैतस्मिन्कथासंधौ शतक्रतोः । कुतोऽपि हेतोत्रिदिवे वर्तते स्म महोत्सवः ॥ ५९

तत्राप्सरःसु सर्वासु नर्तितुं मिलितास्वपि । एका सुरभिदत्ताख्या नाश्यत वराप्सराः ॥ ६०

प्रणिधानात्ततः शक्रस्तां ददर्श रहःस्थिताम् । विद्याधरेण केनापि सहितां नन्दनान्तरे ॥ ६१

तदृष्ट्वा जातकोपोऽन्तः स धूम्रारिरचिन्तयत् । अहो एतौ दुराचा मदनान्धावुभावपि ॥ ६२

एका यचरत्येव विस्मृस्यास्मान्स्खतश्रवत् । करोत्यविनयं चान्यो देवभूमौ प्रविश्य यत् ॥६३

अथवस्य वराकस्य दोषो विद्याधरस्यं कः। आकृष्टो हि वशीकृत्य रूपेणायमिझनया ॥ ६४