पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः २ ।]
१२५
मदनमझुकालम्बकः ६ ।

ततोऽसामान्यतद्वैपलोभलुण्ठितलजया । तयाप्यूचे स विनमद्वत्या मुनिपुंगवः ॥ ८१
एषा यदीच्छा भवतो नर्मलापो न चेदयम् । तदेव दाता नृपतिः पिता मे याच्यतामिति ॥ ८२
अथान्वयं परिजनान्मुनिस्तस्या निशम्य सः । गत्वा नृपं तरिपतरं सुषेणं तामयाचत ॥ ८३
सोऽपि तं वीक्ष्य तपसा वपुषा चातिभूमिगम् । उवाच रचितीतिथ्यो राजा मुनिकुमारकम् ॥ ८४
जाताप्सरसि रम्भायां कन्यैषा भगवन्मम । अस्या विवाहान्नाके मे तया भावी समागमः ॥ ८५
एवं तया व्रजन्त्या द्यां रम्भयैव ममोदितम् । एतत्कथं महाभाग भवेदिति निरूप्यताम् ॥ ८६
तच्छुत्वा मुनिपुत्रोऽसौ क्षणमेवमचिन्तयत् । किं पुरा मेनकोर्जेत सर्पदष्टा प्रमद्वारा ॥ ८७
दत्त्वायुषोऽर्ध मुनिना न भार्या रुरुणा कृता । त्रिशङ्कुः किं न नीतो द्यां विश्वामित्रेण लुब्धकः ॥ ८८
तदिदं स्वतपोभागय्ययार्तिक न करोम्यहम् । इत्यालोच्य न भारोऽयमित्युक्त्वा सोऽब्रवीन्मुनिः ॥ ८९
हे देवतास्तपोंशेन मदीयेनैष भूपतिः । सशरीरो दिवं यातु रम्भासंभोगसिद्धये ॥ ९०
इत्युक्ते तेन मुनिना ऋण्वन्यां राजसंसदि । एवमस्त्विति सुव्यक्ता दिव्या वागुदभूत्ततः ॥ ९१
ततः सुलोचनां तस्मै मुनये काश्यपाय तम् । वत्साय दत्वा तनयां स राजा दिवमुद्ययौ ॥ ९२
तत्र दिव्यत्वमासाद्य तय शक्रनियुक्तया । स रेमे रम्भया साकं भूयो दिव्यानुभावया ॥ ९३
इत्थं कृतार्थतां देव सुषेणः प्राप कन्यया । कन्या युष्मादृशां गेहेष्वीदृश्योऽवतरन्ति हि ॥ ९४
तदेषा कापि दिव्या ते जाता शापच्युता गृहे । कन्या नूनमतो मा गाः शुचं तज्जन्मना विभो ॥ ९५
इति श्रुत्वा कथां राजा गृहवृद्धाद्विजन्मनः। कलिङ्गदत्त नृपतिर्जहौ चिन्तां तुतोष च ॥ ९६
तां स चक्रे निजसुतां नयनानन्ददायिनीम् । नाम्ना कलिङ्गसेनेति बाळामिन्दुकलोपमाम् ॥ ९७
सापि तस्य पितुर्गेहे राजपुत्री ततः क्रमात् । कलिङ्ग सेना ववृधे वयस्यामध्यवर्तिनी ॥ ९८
, विजहार च हर्येषु सा गृहेषु वनेषु च । क्रीडारसमयस्येव छहरी शैशवाम्बुधेः ॥ ९९
कदाचिदथ ह`थां केलिसक्तां ददर्श ताम्। मयासुरसुता यान्ती व्योम्ना सोमप्रभाभिधा ॥ १००
सा तामालोक्य रूपेण मुनिमानसमोहिनीम् । सोमप्रभा नभःस्थैव जातप्रीतिरचिन्तयत् ॥ १०१
केयं किमैन्दवी मूर्तिः कान्तिस्तस्या दिवा कुतः । रतिर्वा यदि कामः क कन्यका तदवैम्यहम् ॥ १०२
अत्र राजगृहे कापि दिव्या शापच्युता भवेत् । जाने जन्मान्तरे चाभूनूनं सख्यं ममैतया ॥ १०३
एतद्धि मे वदत्यस्यामतिस्नेहाकुलं मनः। तद्युक्तं कर्तुमेतां मे स्वयंवरसखीं पुनः ॥ १०४
इति संचिन्त्य बालायास्तस्याः संत्रासशङ्कया । सोमप्रभा सा गगनादलक्षितमवातरत् ॥ १०५
मनुष्यकन्यकाभावमाश्रित्याश्वासकारणम् । सास्याः कलिङ्गसेनायाः शनैरुपससर्प च॥ १०६
दिष्या राजसुता कापि स्वयमत्यद्भुताकृतिः। असौ समागता पार्श्वमुचितेयं सखी मम ॥ १०७
इति तद्दर्शनादेव विचिन्त्योत्थाय चादरात् । कलिङ्गसेनाप्यालिङ्गत्सा तां सोमप्रभां तदा ॥ १०८
उपवेश्य च पप्रच्छ क्षणादन्वयनामनी । वक्ष्यामि सर्वे तिष्ठेति तां च सोमप्रभाब्रवीत् ॥ १०९
ततः कथाक्रमेणैव वाचा सख्यमबध्यत । ताभ्यामुभाभ्यामन्योन्यहस्तग्रहपुरःसरम् ॥ ११०
• अथ सोमप्रभावादीत्सखि त्वं राजकन्यका । राजपुत्रैः समं सख्यं कृच्छ्ाप्यतिवाह्यते ॥ १११
अल्पेनाप्यपराधेन ते हि कुष्यन्त्यमात्रया । राजपुत्रवणिक्पुत्रकथां श्रुण्वत्र वच्मि ते ॥ ११२
नगयी पुष्करावत्यां गूढ़ सेनाभिधो नृपः। आसीत्तस्य च जातोऽभूदेक एव किलात्मजः ॥ ११३
स राजपुत्रो दृप्तः सन्नेकपुत्रतया शुभम् । अशुभं वापि यच्चक्रे पिता तस्यासहिष्ट तत् ॥ ११४
भ्राम्यतोपवने जातु दृष्टस्तेनैकपुत्रकः। वणिजो ब्रह्मदत्तस्य स्वतुल्यविभवाकृतिः ॥ ११५
दृश् च स्थः सोऽनेन स्वयंप्रसुहृकृतः। तदैव चैकरूपौ तौ जातौ राजवणिक्सुतौ ॥ ११६
है. स्थातुं न शेकतुः क्षिप्रं तावन्योन्यमदर्शनम् । आशु बश्नाति हि प्रेम प्राग्जन्मान्तरसंस्तवः ॥ ११७
नोपभुजे स्म तं भोगं राजपुत्रः कदाचन । वणिक्पुत्रस्य यस्तस्य नादावेवोपकल्पितः ॥ ११८
एकदा सुहृदस्तस्य निश्चित्योद्वाहमादितः। अहिच्छत्रं विवाहाय स प्रतस्थे नृपात्मजः ॥ ११९