पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२८
[ आदितस्तर
कथासरित्सागरः ।

दिव्या तपदियं भवत्यवितथं व्योमाषासंचारिणी
दिव्या यान्तिं च मानुषीभिरसमस्नेहाहृताः संगतिम् ।
भेजे किं नृपतेः पृथोस्तनयया सख्यं न सारुन्धती
तत्प्रीत्या पृष्ठानिनाय सुरभिं स्वर्गान्न किं भूतले ॥
तत्क्षीराशनतो न किं पुनरसौ भ्रष्टोऽपि यातो दिवं
संभूताश्च ततः प्रभृत्यविकळा गावो न किं भूतले ।
तद्धन्यास्मि शुभोदयादुपनता दिव्या सखीयं मम
प्रातश्चन्वयनासनी सुनिपुणं प्रक्ष्यामि तामागताम् ॥
इत्यादि राजतनया हृदि चिन्तयन्ती तां यामिनीमनयत्र कलिङ्गरसेन ।
सोमप्रभा च निजवेश्मनि भूय एव तद्दर्शनोत्सुकमना रजनीं निनाय ॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमझुकलमबके द्वितीयस्तरङ्गः।

_____


तृतीयस्तरङ्गः


ततः सोमप्रभा प्रातस्तद्विनोदोपपादिनीम् । न्यस्तद्रुमयानेकमायासद्यत्रपुत्रिकाम् ॥
करण्डिकां समादाय स नभस्तलचारिणी । तस्याः कलिङ्गसेनाया निकटं पुनराययौ ॥
कलिङ्गसेनाष्यालोक्य तामानन्दश्चनिर्भरा । उस्थाय कण्ठे जग्राह पार्थासीनामुवाच च ॥
त्वदीयमुखपूर्णेन्दुदर्शनेन विना सखि । तमोमयी त्रियामाद्य शतयामेव मे ॥
तजन्मान्तरसंबन्धः कीदृशः स्यात्त्वया मम । यस्यायं परिणामोऽद्य त्वं देवि वेत्सि चेद्वद ॥
तच्छुत्वा राजपुत्रीं तामेवं सोमप्रभाब्रवीत् । ईडले नास्ति विज्ञानं नहिं जातिं स्मराम्यहम् ॥
न चात्र मुनयोऽभिज्ञाः केचितु यदि जानते । तैः कृतं तादृशं पूर्वं परतत्वविदश्च ते ॥
एवमुक्तवतीं भूयः प्रेमविश्रम्भपेशलम् । कलिङ्गसेना पप्रच्छ विजने तां सकौतुका ॥
ब्रूहि मे सखि कस्येह देवजातेः पितुस्त्वया । जन्मनाकृतो वंशो मुक्तयेव सुवृत्तया ॥
जगत्कर्णामृतं किं च तव नाम सुळक्षणे । करण्डिका किमर्थंथमस्यामस्ति च वस्तु किम् ॥
एवं कलिङ्गसेनायाः श्रुत्वा सप्रणयं वचः। सोमप्रभा सा सर्वे तस्क्रमाद्वक्तुं प्रचक्रमे ॥
5 अस्ति त्रिजगति ख्यातो मयो नाम महासुरः। आसुरं भावमुत्सृज्य शौरिं स शरणं श्रितः ॥
तेन दत्ताभयश्चक्रे स च वज्जभृतः सभाम् । दैत्याश्च देवपक्षोऽयमिति तं प्रति चुक्रुधुः ॥
तद्भयात्तेन विन्ध्याद्रौ मायाविवरमन्दिरम् । अगम्यमसुरेन्द्राणां बह्वाश्चर्यमयं कृतम् ॥
तस्यावां वे दुहितरौ मयस्य श्रह्मचारिणी । ज्येष्ठा स्वयंप्रभा नाम कुमारी ततृहस्थिता ॥
अहं सोमप्रभा नाम कनिष्ठा सा त्वहं सखि । नलकूबरसंज्ञाय दत्ता धनद सूनवे ॥
पित्रा च शिक्षितास्मीह मया यत्राण्यनेकधा। त्वत्प्रीत्या चेथमानीता पूर्णा तव करण्डिका ॥
इत्युक्त्वादर्शयत्तस्याः प्रोद्धट्य बहुकौतुकाः । सोभप्रभा काष्ठमयीः स्वमायायत्रपुत्रिकाः ॥
कीलिकाहतिमात्रेण काचिद्वा विहायसा । तदाज्ञया पुष्पमालामादाय द्रुतमाययौ ॥
काचित्तथैव पानीयमनिनाय यदृच्छया । काचिन्ननर्त काचिच्च 'कथालापमथाकरोत् ॥
इत्यादिभिर्महद्भयैः कंचित्कालं विनोद्य ताम् । सुरक्षित स्थापयित्वा तां च यत्रकरण्डिकाम् ॥
कलिङ्गरसेनमामय सोकां सोमप्रभा ततः । ययौ भर्तृपरायत्ता नभसा निजमन्दिरम् ॥
कलिङ्गसेनाप्याश्चर्यदर्शनध्वस्तया क्षुधा । प्रहृष्टा तदहस्तस्थौ सर्वाहारपराङ्मुखी ॥
तदृष्ट्वा च ततस्तस्या जननी रोगाङ्गिनी । आनन्दाख्येन भिषजा निरूप्याविकलोदिता ॥
कुतोऽपि हेतोर्हर्षेण नष्टोस्याः क्षुन्न रोगतः । उत्फुल्लनेत्रं वक्येतदस्या हसदिवाननम् ॥
इत्युक्ता भिषजा हर्षहेतुं तज्जननी च सा । पप्रच्छ तां यथावृत्तं सापि तस्यै तदब्रवीत् ॥