पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
[ आदितस्तरङ्ग
कथासरित्सागरः

एकस्तु वरसराजोऽस्ति स चैतामभिवाञ्छति । किं तु वासवदत्ताया भीत्या नीयते स्फुदम् ॥
एषापि रूपलुब्धा तं श्रुत्वा सोमप्रभामुखात् । स्वयंवराय वरसेशं राजपुत्र्यभिवाञ्छति ॥
तत्र यावद्विबाहोऽस्या न भवेत्तावदन्तरा । कृत्वा कालसदस्यैव रूपं वसेश्वरस्य तत् ॥
गत्वा गान्धर्वविधिना भार्यं कुर्याद्भवानिमाम्। एवं कलिङ्गसेनासौ तव सेत्स्यति सुन्दरी ॥
इत्यादिष्टः स शर्वेण प्रणिपत्याथ तं ययौ । गृहं मदनवेगः स्वं कालकूटगिरेस्तटम् ॥
अत्रान्तरे प्रतिनिशं गच्छन्त्या निजमन्दिरम् । प्रतिप्रभातमायान्त्या यत्रेण व्योमगामिना ॥
तया तक्षशिलापुर्या सा सोमप्रभया सह । कलिङ्गसेना क्रीडन्ती तां जगादैकदा रहः ॥
सखि वाच्यं न कस्यापि त्वया यत्ते ब्रवीम्यहम्। विधाहो मम संप्राप्त इति जाने यतः श्रुणु ॥
इह मां याचितुं दूताः प्रेषिता बहुभिर्युपैः। ते च तातेन संवृत्य तथैव प्रेषिता इतः ॥
यस्तु प्रसेनजिन्नाम श्रावस्यामस्ति भूपतिः । तदीयः केवढं दूतः सादरं तेन सत्कृतः ॥
मत्रितं चाम्बयाप्येतत्तन्मन्ये मद्वरो नृपः। स तातस्य तथाम्बायाः कुलीन इति संमतः ॥
स हि तत्र कुले जातो यत्रास्थाम्यालिकादिकाः । पितामखः कुरूणनं च पाण्डवानां च जज्ञिरे ॥
तत्प्रसेनजिते तस्मै सखि दत्तास्मि सांप्रतम् । तातेन राज्ञे श्रवस्यां नगर्यामिति निश्चयः ॥
एतत्कलिङ्गसेनातः श्रुत्वा सोमप्रभा शुचा । सृजन्तीवापरं हरं सद्यो धाराश्रुणारुदत् ॥
जगाद चैतां पृच्छन्तीं वयस्यामञ्चकारणम् । दृष्टनिःशेषभूलोका सा मयासुरपुत्रिका ॥
वयो रूपं कुलं शीलं वित्तं चेति वरस्य यत् । मृग्यते सखि तत्राचे वयो वंशादिकं ततः ॥
प्रसेनजिच प्रवयाः स दृष्टो नृपतिर्मया । जातीपुष्पस्य जात्येव जीर्णस्यास्य कुलेन किम् ॥
हिमशुभैण तेन त्वं हेमन्तेनेव पझिनी। परिम्लानाम्बुजमुखी युक्त शोच्या भविष्यसि ॥
अतो जातो विषादो मे प्रहर्षस्तु भवेन्मम । यदि स्याद्वत्सराजते कल्याण्युदयनः पतिः ॥
तस्य नास्ति हि रूपेण लावण्येन कुलेन च । शौर्येण च विभूत्या च तुल्योऽन्यो नृपतिभुवि ॥
तेन चेद्युज्यसे भर्ना सदृशेन कृशोदरि । धातुः फलति लावण्यनिर्माणं तदिदं त्वयि ॥
इति सोमप्रभकृतैर्वाक्यैर्यत्रैरिवेरितम् । ययौ कलिङ्गसेनाया मनो वत्सेश्वरं प्रति ॥
ततश्च सा तां प्रपच्छ राजकन्या मयात्मजाम् । कथं स वत्सराजाख्यः सखि किं वंशसंभवः ॥
कथं चोदयनो नाम्ना त्वया मे कथ्यतामिति । साथ सोमप्रभावादीच्छुणु तत्सखि वच्मि ते ॥
वस इत्यस्ति विख्यातो देशो भूमेर्विभूषणम् । पुरी तत्रास्ति कौशाम्बी द्वितीयेवामरावती ॥
तस्यां स कुरुते राज्यं यतो वत्सेश्वरस्ततः । वंशं च तस्य कल्याणि कीर्यमानं मया श्रुणु ॥
पाण्डवस्यार्जुनस्याभूदभिमन्युः किलात्मजः । चक्रव्यूहभिदा येन नीता कुरुचमूः क्षयम् ॥
तस्मात्परीक्षिदभवद्राजा भरतवंशभृत् । सर्पसत्रप्रणेताभूत्ततोऽपि जनमेजयः ॥
ततोऽभवच्छतानीकः कौशाम्बीमध्युवास यः । यश्च देवासुररणे दैत्यान्हत्वा व्यपद्यत ॥
तस्माद्राजा जगच्छाध्यः सहस्रानीक इत्यभूत् । यः शक्रप्रेषितरथो दिवि चक्रे गतागतम् ॥
तस्य देव्यां मृगावत्यामसावुदयनोऽजनि । भूषणं शशिनो वंशे जगन्नेत्रोत्सवो नृपः ॥
नाम्नो निमित्तमप्यस्य शृणु सा हि मृगावती। अन्तर्वत्नी सती राज्ञो जनन्यस्य सुजन्मनः ॥
उत्पन्नरुधिरस्नानदोहदा पापभीरुणा । भनें रचितळाक्षादिरसवापीकृताप्लवा ॥
पक्षिण तावंश्येन निपत्यामिषशङ्कया। नीत्वा विधिवशात्यक्ता जीवन्येवोदयाचले ॥
तत्र चाश्वासिता भूयो भर्तुसंगमवादिना । जमदभ्यर्षिणा दृष्टा स्थितासौ तत्र चाश्रमे ॥
अवज्ञाजनितेष्र्यायाः कंचित्कालं हि तादृशः । शापस्तिलोत्तमातोऽभूत्तद्भर्तुस्तद्वियोगदः ॥
दिवसैः सा च तत्रैव जमद्याश्रमे सुतम् । उद्याद्रौ प्रसूते स्म यौरिन्दुमिव नूतनम् ॥
असावुदयनो जातः सार्वभौमो महीपतिः । जनिष्यते च पुत्रोऽस्य सर्वविद्याधराधिपः ॥
इत्युच्चार्यास्बराद्वाणीमशरीरां तदा कृतम् । नामोदयन इत्यस्य देवैरुदयजन्मतः ॥