मायया तfई नो यावन्मद्वन्मदनम जुका । वक्ष्यते राजपुत्रेण किं न तावद्विद्यते
॥ २२८
एतत्कलिङ्गसेनातः श्रुत्वा तां गोमुखादयः । ऊचुस्वैयच कार्येऽस्मिन्वरशः प्रेर्यतामिति ॥ २२९
ततस्तद्गतधीस्तस्मिन्नुद्याने ब्यहरद्दिनम् । नरवहनदत्तस्तां पश्यन्मदनमञ्चकाम् ॥ २३०
उत्फुल्लपद्मवदनां दलत्कुवलयेक्षणाम् । बन्धूककमनीयौष्ठीं मन्दरस्तबकस्तनीम् ॥ २३१
शिरीषसुकुमारा पच्चपुष्पमयीमिव । एकामेव जगज्जैत्रीं स्मरेण विहितामिषुम् ॥ २३२
कलिङ्गसेनाप्यन्येद्युर्गत्वा वत्सेश्वरं स्वयम् । सुताविवाहहेतोस्तद्यथाभीष्टं व्यजिज्ञपत् ॥ २३३
वत्सेशोऽपि विसृज्यैतामाहूय निजमत्रिणः। देव्यां वासवदत्तयां स्थितायां निजगाद तान् ॥ २३४
कलिङ्गसेना त्वरते सुतोद्वहाय तत्कथम् । कुर्मो यद्वन्धकीयेतां लोको बक्त्युत्तमामिति ॥ २३५
लोकश्च सर्वदा रक्ष्यस्तप्रवादेन किं पुरा । रामभद्रेण शुद्धापि त्यक्ता देवी न जानकी ॥ २३६
अम्बा हृतापि भीष्मेण यत्नाद्धातुः कृते तथा । प्रतीपं किं न वा त्यक्ता वृतपूर्वान्यभर्तृका ॥ २३७
एवं कङ्गि सेनैषा स्वयंवरवृते मयि । व्यूढा मनवेगेन तेनैततो गई ते जनः ॥ २३८
अतोऽस्यास्तनयामेतां गान्धर्वविधिना स्वयम् । रवाहनदत्तोऽसावुद्वहत्वनुरूपिकाम् ॥ २३९
इत्युक्ते वत्सराजेन स्माह यौगन्धरायणः। इच्छेत्कलिङ्गसेनैतदनौचित्यं कथं प्रभो ॥ २४०
दिव्यैषा हि न सामान्या ससुतेत्यसकृद्गतम् । मित्रेण चैतदुक्तं मे ज्ञानिना ब्रह्मरक्षसा ॥ २४१
इत्यादि तत्र ते यावद्विमृशन्ति परस्परम् । एवं माहेश्वरी तावद्वाणी प्रादुरभूद्दिवः ॥ २४२
मन्नेत्रानलदग्धस्य सृष्टस्यात्र मनोभुवः । नरवाहनदत्तस्य मयैवैषा विनिर्मिता ॥ २४३
तपस्तुष्टेन भार्यास्य रतिर्मदनमद्युका । एतया सहितश्चायं सर्वान्तःपुरमुख्यया ॥ २४४
विद्याधराधिराज्यं स दिव्यं कल्पं करिष्यति । मत्प्रसादाद्विजित्यारीनित्युक्त्वा विरराम वाक् ॥ २४५
श्रुत्वैतां भगवद्भणीं वत्सेशः सपरिच्छदः । तं प्रणम्य सुतोद्वाहे सानन्दो निश्चयं व्यधात् ॥ २४६
अथ स सचिवमुख्यं पूर्वविज्ञाततत्वं नरपतिरभिनन्द्याहूय मैौहूर्तिकांश्च ।
शुभफलदद्युच्छलनमूचुस्तु ते तं कतिपयदिनमध्ये भाविनं प्राप्तपूजाः ॥२४७
कालं मनागनुभविष्यति कंचिदत्र पुत्रो वियोगमनया सह भार्यया ते ।
जानीमहे वयमिदं निजशास्त्रदृष्ट्या वत्सेश्वरेति जगदुर्गणकाः पुनस्ते ॥ २४८
ततः स सूनोर्निजवैभवोचितं विवाहसंभारविधिं व्यधानृपः ।
तथा यथास्य स्वपुरी न केवलं पृथिव्यपि क्षोभमगात्तदुद्यमात् ॥ २४९
प्राप्ते विवाहदिवसेऽथ कलिङ्गसेन पित्रा निसृष्टनिजदिव्यविभूषणायाः ।
तस्याः प्रसाधनविधिं दुहितुश्चकार सोमप्रभा पतिनिदेशवशागत च ॥ २५०
कृतदिव्यकौतुका सा सुतरामथ मदनमञ्चका विबभौ ।
नन्वेवमेव कान्ता चन्द्रतनुः कातिकनुगता ॥ २५१
दिव्याङ्गनाश्च तस्या हराज्ञया श्रूयमाणगीतरवाः ।
तदूपजिताच्छन्ना हीता इव मङ्गलं विदधुः ॥ २५२
भक्तानुकम्पिनि जयाद्रिसुते त्वयाद्य रत्यास्तपः स्वयमुपेत्य कृतं कृतार्थम् ।
इत्यादि दिव्यवरचरणवाद्यमिश्रवाक्यानुमेयमपि संधत्तेऽत्र गौर्याः ॥ २५३
अथ नरवाहनदत्तः प्रविवेश स मनमधुकाध्युषितम् ।
कृतवरकौतुकशोभी विविधमहातोद्यधुद्विवाहगृहम् ॥ २५४
निर्वर्यं तत्र बहलोद्यतविप्रमत्तवीवाहमङ्गलविधिं च वधूवरौ तौ ।
वेदीं समारुरुहतुर्वेलिताग्निमुचें राज्ञां शिरोभुवमिवामलरत्नदीपाम् ॥ २५५
यदि युगपदिहेन्दुमूर्तिभानू कनकगिरिं भ्रमतोऽभितः कदाचित् ।
भवति तदुपसा तयोस्तदानीं जगति वधूवरयोः प्रदक्षिणेऽग्नेः ॥ २५६
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१६३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ८।]
१५७
मदनमवुकालम्बकः ६ ।