पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३ ।]
१७१
रत्नप्रभालम्बकः ७ ।

कैटरूपेण सोमस्वामिद्विजेन सः । उक्तो निश्चयदत्तः स्वं तस्मै वृत्तान्तमब्रवीत् ॥ १३९
वेद्याधरीहेतोरुज्जयिन्याः समागतः। आनीतो धैर्यजितया यक्षिण्या च तया निशि ॥ १४०
पुततदाश्चर्यवृत्तान्तः कपिरूपधृत् । धीमान्निश्चयदत्तं तं सोमस्वामी जगाद सः॥ १४१
तं त्वया दुःखं मयेव स्त्रीकृते महत् । न च श्रियः स्त्रियश्चेह कदाचित्कस्यचित्स्थिराः ॥ १४२
भक्षणरागिण्यो नदीवत्कुटिलाशयाः । भुजगीवदविश्वस्या विद्युदुच्चपलाः स्त्रियः ॥ १४३
विद्याधरी रक्ताप्यनुरागपरा क्षणात् । प्राप्य कंचित्स्वजातीयं विरज्येत्वयि मानुषे ॥ १४४
स्त्रीनिमित्तेन प्रयासेनामुनाधुन । किंपाकफलतुल्येन विपाकविरसेन ते ॥ १४५
r विद्याधरपुरीं तां सखे पुष्करावतीम् । यक्षिणीस्कन्धमारुह्य तामेवोज्जयिनीं व्रज ॥ १४६
पद्वचनं मित्र पूर्व मित्रवचो मया । न कृतं रागिणा तेन परितष्येऽधुनाप्यहम् ॥ १४७
औत्तानुरक्तं हि सुस्निग्धो ब्राह्मणस्तदा । वारयन्भवशर्माख्यः सुहृन्मामेवमब्रवीत् ॥ १४८
सखे वशं मा गाः स्त्रीचित्तं ह्यतिदुर्गमम। तथा च मम वृत्तं तदिदं वच्मि ते श्रुणु ॥ १४९
गस्यामिहैवासीत्तरुणी रूपशालिनी । ब्राह्मणी सोमद नाम चपला गुप्तयोगिनी ॥ १५०
च सह मे दैवात्समभूत्संगमो रहः । तत्संगमक्रमत्तस्यां मम प्रीतिरवर्धत ॥ १५१
r तामहं स्वैरमीष्यकोपादताडयम् । तच्चा सहिष्ट सा ह्रा कोपं प्रच्छाद्य तत्क्षणम् ॥ १५२
द्युः प्रणयक्रीडाव्याजाचा मम सूत्रकम् । गलेऽबश्नादहं दान्तस्तत्क्षणं वेलदोऽभवम् ॥ १५३
उहं बलदीभूतस्तया दान्तोgजीविनः । एकस्य पुंसो विक्रीतो गृहीताभीष्टमूल्यया ॥ १५४
पितभारं मां क्लिश्यमानमवैक्षत । बन्धमोचनिका नाम योगिन्यत्र कृपान्विता ॥ १५५
ज्ञानतः सोमदया विदित्वा मां पशूकृतम् । मुमोच कण्ठासूत्रं मे मद्रस्वामिन्यपश्यति ॥ १५६
ऽहं मानुषीभूतः स च क्षिप्राद्विठोकयन् । पलायितं मां मन्वानो मत्स्वामी प्राभ्रमद्दिशः ॥ १५७
च बन्धमोचिन्या तया सह ततो व्रजन् । दैवादगतया दूरादृष्टः सोमदया तया ॥ १५८
क्रोधेन ज्वलन्ती तां ज्ञानिनीं बन्धमोचिनीम । अवादीत्किमयं पापस्तिर्यक्त्वान्मोचितस्त्वया ॥ १५९
प्राप्स्यसि दुराचरे फलमस्य कुकर्मणः । प्रातस्त्वां निहनिष्यामि सहितां पाप्मनामुना ॥ १६०
क्त्वैव गतायां च तस्यां सा सिद्धयोगिनी । तत्प्रतीघातहेतोर्मामवोचद्वन्धमोचिनी ॥ १६१
मां कृष्णतुरगीरूपेणैपायुपैष्यति । मया च शोणबडवारूपमत्राश्रयिष्यते ॥ १६२
युद्धे प्रवृत्ते नौ पृष्ठतः खङ्गपाणिना । सोमदायां प्रहर्तव्यं त्वयास्यामप्रमादिना ॥ १६३
मेतां हनिष्यावस्तप्रातस्त्वं गृहे मम । आगच्छेरित्युदित्वा सा गृहं मे स्वमदर्शयत् ॥ १६४
तस्यां प्रविष्टायामहं निजगृहानगाम् । अनुभूतादुतानेकजन्मामुत्रैव जन्मनि ॥ १६५
कृपाणपाणिश्च गतवानस्मि तद्रुहम् । अथागात्सोमदा सात्र कृष्णाश्व रूपधारिणी ॥ १६६
पे शोणहयारूपमकरोद्वन्धमोचिनी। खुरदन्तप्रहारैश्च ततो युद्धमभूत्तयोः ॥ १६७
प्रदत्तनिस्त्रिंशप्रहारा क्षुद्रशाकिनी । निहता बन्धमोचिन्या तया सा सोमदा ततः ॥ १६८
Iहं निर्भयीभूतस्तीर्णतिर्यक्त्वदुर्गतिः। न कुत्री संगमं भूयो मनसा समचिन्तयम् ॥ १६९
बलं साहसिकता शाकिनीशम्बराद्यः । दोषाः स्त्रीणां त्रयः प्रायो लोकत्रयभयावहः ॥ १७०
छाकिनीसखीं बन्धुदत्तां किमनुधावसि । स्नेहो यस्या न पत्यौ स्वे तस्यास्तु त्वय्यसौ कुतः ॥ १७१
मुक्तोऽप्यहं तेन मित्रेण भवशर्मणा । नाका वचनं तस्य प्राप्तोऽस्मीमां गा ॥ १७२
स्त्वां वच्मि मा कार्षीरनुरागपरां प्रति । क्लेशं सा हि स्वजातीये प्राप्ते त्वां त्यक्ष्यति ध्रुवम् ॥ १७३
व पुष्पं पुरुषं स्त्री वाञ्छति नवं नवम् । अतोऽनुतापो भविता ममेव भवतः सखे ॥ १७४
तत्कपिरूपस्थसोमस्वामिवचो हृदि । तस्य निश्चयदत्तस्य नाविशद्रागनिर्भरे ॥ १७५
च स कपिं तं हि न सा व्यभिचरेन्मयि । विद्याधराधिपकुले शुद्धे जाता ह्यसाविति ॥ १७६



१. वलदो वृषभः , दान्तो भन्नवृषणः