भ्रान्ताहं मददोषेण न मे भर्ता नपुंसकः। पुमानेवैष सुभगो नात्र कायोंभ्यथा मतिः ॥
इत्यालोच्यैनमेवार्थं लिखित्वा लज्जिता पुनः । पित्रे सा प्राहिणोल्लेखं शमं भेजे च तेन सः ॥
एतं ज्ञात्वा च वृत्तान्तं भैरवेणाद्य कुप्यत । आनाय्य स स्थूळशिराः शप्तो देवेन गुवाकः ॥
लिङ्गल्यागेन षण्ढत्वमाश्रितं यत्त्वया ततः। षण्ढ एव भवाजीवं पुमान्सोऽस्तु प्रभाकरः ॥
एवं नपुंसकीभूतो गुह्यकः सोऽद्य दुःखभाक् । प्रभाकरश्च पुरुषीभूतो भोगसुखाय सः॥
तदेतेनाद्य कार्येण देवस्यागमने मनाक् । जातो विलम्बः क्षिप्राच जानीतागतमेव तम् ॥
इति नारायणी देवी मातृणवद्वीति सा । देवश्चक्रेश्वरस्तावदाययौ सोऽत्र भैरवः ॥
संपूजितश्च सर्वाभिरुपहारैः स मातृभिः । ताण्डवेन क्षणं नृश्यन्नक्रीडद्योगिनीसखः ॥
तच्च सर्वं तरोः पृष्ठाच्चन्द्रस्वामी विलोकयन्। नारायण्या द शैकां दासीं सापि तमैक्षत ॥
अन्योन्यसाभिलापौ च दैवाहौ तौ बभूवतुः । सा च नारायणी देवी तथाभूतौ विवेद तौ ॥
गतेऽथ मातृसहिते भैरवे सा विलम्ब्य तम् । नारायणी पादपस्थं चन्द्रस्वामिनमाह्वयत् ॥
अवरुह्यगतं तं च स्वदासीं तां च सा ततः । पप्रच्छ कश्चिदन्योन्यमभिलाषोऽस्ति बामिति ॥
अस्ति देवीति विज्ञप्त ताभ्यां तथ्यं ततश्च सा । देवी विमुक्तकोपा तं चन्द्रस्वामिनमभ्यधात् ॥
सयेनोक्तेन तुष्टाहं युवयोर्न शपामि वाम् । ददाम्येतां तु दासीं ते भवतं निधृतौ युवाम् ॥
तच्छुत्वा सोऽब्रवीद्विप्रो देवि यद्यपि चञ्चलम् । मनो रुणद्मि तदपि स्पृशामि न परस्त्रियम् ॥
मनसः प्रकृतिर्येषा रक्ष्यं पापं तु कायिकम् । इत्यूचिवांसं तं धीरं विप्रं देवी जगद सा ॥
प्रीतास्मि ते वरश्चायं पुत्रादीशीघ्रमाप्स्यसि । इदं चोत्पलमम्लाथि विषादिनं गृहाण मे ॥
इत्युक्त्वा नीरजं दत्त्वा चन्द्रस्वामिद्विजस्य सा । नारायणी सदासीका देवी तस्य तिरोदधे ॥
स च प्राप्तोपलो रात्रौ क्षीणायां प्रस्थितस्ततः । तारापुरं तन्नगरं प्राप विप्रः परिभ्रमन् ॥
यत्रास्य स स्थितः पुत्रो महीपालः सुता च सा । अनन्तस्वामिनस्तस्य गृहे विप्रस्य मन्त्रिणः ॥
तत्र गत्वा स तस्यैव सत्रिणो भोजनेप्सया । द्वारे प्राध्ययनं चक्रे श्रुत्वा तमतिथिप्रियम् ॥
स च सत्री प्रतीहारैरावेद्यान्तः प्रवेशितम् । न्यमत्रयत दृथैव विद्वांसं भोजनाय तर ॥
निमन्त्रितोऽथ स श्रुत्वा तत्र पापहरं सरः। चन्द्रस्वामी ययौ त्रातुमनन्तहृदसंज्ञकम् ॥
आगच्छति ततः स्नात्वा यावत्तवत्समन्ततः । हाकष्टशब्दं शुश्राव नगरे तत्र स द्विजः ॥
तर्कारणं च पृच्छन्तं तमेवमवदज्जनः। इह स्थितो महीपालो नाम ब्राह्मणपुत्रकः ॥
अटव्याः सार्थवाहेन प्राप्तः सार्थधरेण सः। तस्मात्सुलक्षणो दृष्ट्वा याचित्वा भगिनीसखः ॥
अनन्तस्वामिना यत्नादिहनीतः स मत्रिणा । पुत्रीकृतश्चापुत्रेण स तेन प्रियतां गतः ॥
तारावर्मनृपस्येह राष्ट्रस्यास्य च सव्रणः । सोऽद्य कृष्णाहिन द्ष्टस्तेन हहारवः पुरे ॥
एतच्छुत्वा स एवैष सत्पुत्र इति चिन्तयन् । आययौ त्वरितश्चन्द्रस्वामी मन्त्रिगृहं स तत् ॥
तत्र सर्वैर्दूतं दृष्ट्वा परिज्ञाय च तं सुतम् । नन्दति स्म स हस्तस्थदेवीदत्तागदोत्पलाः ॥
अढौकयच्च नासायां महीपालस्य तस्य तत् । नीलोत्पलं तदैवाभूत्तद्गन्धेन स निर्विषः ॥
उत्तस्थौ च महीपालो निद्रा युक्त इवस्त सः । पुरे चात्रोत्सवं चक्रे जनः सर्वः सराजकः ॥
चन्द्रस्वामी च स तदा देवांशः कोऽप्यसाविति । अनन्तस्वामिना पौरै राज्ञा चार्थेरपूज्यत ॥
तस्थौ च तत्रैव सुखं मत्रिवेश्मनि सोऽर्चितः । पश्यन्पुत्रं महीपालं सुतां चन्द्रवतीं च ताम्॥
परिज्ञायापि चान्योन्यं तूष्णीं तस्थुत्रयोऽपि ते । कुर्वन्त्यकालेऽभिव्यक्तिं न कार्योपेक्षिणो बुध ॥
अथ तस्मै महीपालायान्तः संतोषितो गुणैः । राजा बन्धुमतीं नाम तारावर्मा ददौ सुताम् ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१९२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति