इति माता किलाश्वस्य कृतसंवित्तया सह । मार्गाने गुप्तमेकस्मिन्कूपे जालमकारयत् ॥
तदा चेश्वरवर्माभूत्तदोलारूढमानसः । शुचेवाल्पाल्पमाहारपानं चक्रे च सुन्दरी ॥
गीतवादित्रनृत्तेषु न बबन्ध रतिं च सा । आश्वस्यते स्म प्रणयैस्तैस्तैरीश्वरवर्मणा ॥
ततो दिने वयस्योक्ते सुन्दरीमन्दिरात्ततः चचालेश्वरवर्मा स कुट्टनीकृतमङ्गलः ॥
अनुवव्राज सोदश्वः सुन्दरी तं समाका । नगराद्वहिरा कूपादुद्धान्तर्जालकात्ततः ॥
ततो निवर्यं यावच्च सुन्दरीं तां प्रयाति सः । तावदात्मा तया कूपे जालपृष्ठे निचिक्षिपे ॥
हा हा स्वामिनि हा पुत्रीत्याक्रन्दः सुमहांस्ततः । दासीनां भृत्यवर्गस्य तन्मातुश्चत्र शुश्रुवे ॥
तेन प्रतिनिवृत्त्यैव समित्रः स वणिक्सुतः । कूपे क्षिप्ततनू कान्त बुद्ध्वा मोहमगात्क्षणम् ॥
सप्रलापं च शोचन्ती तस्मिन्मकरकट्यथ । स्वानवात्तारयद्रुत्यान्कूपे स्निग्धान्ससंविदः ॥
रज्जुभिस्तेऽवतीयैव दिष्ट्या जीवति जीवति । इत्युक्त्वा तां ततः कूपादुत्क्षिपन्ति स्म सुन्दरीम ॥
उत्क्षिप्ता मृतकल्पं सा कृत्वात्मानं निवेदितम् । प्रत्यागतं वणिक्पुत्रमालापं शनकैर्ददौ ॥
समाश्वस्तां समादाय हृष्टस्तां सानुगः प्रियाम् । आगादीश्वरवमसौ प्रत्यावृत्त्यैव तद्वहम् ॥
निश्चित्य सुन्दरीप्रेमप्रत्ययं जन्मनः फलम् । तत्प्राप्तिमेव मत्वा स यात्राबुद्धिं पुनर्जहौ ॥
ततो बद्धस्थितिं तत्र सोऽर्थदत्तः सखा पुनः । तमभ्यधात्सखे मोहाकिमात्मा नाशितस्त्वया ॥
सा भूत्ते सुन्दरीस्नेहप्रत्ययः कूपपाततः । अतक्र्या कुट्टनीकूटरचना हि विधेरपि ॥
पितुश्च ऋषितार्थः किं वक्ष्यसे यास्यसि क वा । तदितोऽद्यापि निर्याहि कल्याणे चेन्मतिस्त ॥
एतत्तस्य वचः सख्युरवधीर्यं वणिग्युवा । मासेनान्यव्ययीचक्रे तत्र कोटित्रयं स तत् ॥
ततो हृतस्खो दत्तार्धचन्द्रकः सुन्दरीगृहात् । तया मकरकट्याथ कुट्टन्या निरवास्यत ॥
अर्थदत्तादयस्ते च गत्वा स्वनगरं द्रुतम् । तत्पित्रे तरसमाचख्युर्यथावृत्तमशेषतः ॥
स तस्पिता रत्नवर्मा तदुद्धा दुःखितो भृशम् । कुट्टनीं यमजिह्मां तां गत्वा वोचद्वणिक्पतिः ॥
गृहीत्वा मूल्यमीदृक्स त्वया से शिक्षितः सुतः । हृतं मकरकटया यत्सर्वस्वं तस्य हेलया ॥
इत्युक्त्वा पुत्रवृत्तान्तं तस्यै स तमवर्णयत् । ततः सा यमजिह्न तं वृद्धकुट्टन्यभाषत ॥
आनाययेह पुत्रं ते करिष्यामि तथा यथा । तस्या मकरकट्यास्तसर्वस्वं स हरिष्यति ॥
एवं तया प्रतिज्ञाते कुट्टन्या यमजिह्वया । तदैव शीघ्र संदिश्य वृत्त्या दानपुरःसरम् ॥
रत्नवर्मा ततस्तस्य पुत्रस्यानयनाय सः । तन्मित्रमर्थदत्तं च प्रजिघाय हितैषिणम् ॥
अर्थदत्तः स गत्वा च तस्काञ्चनपुरं पुरम् । तस्मै तं सर्वसंदेशं शंशंसेश्वरवर्मणे ॥
पुनस्तं चाब्रवीन्पित्र नाकार्षीस्त्वं वचो हि मे । तदद्य बेइयासद्रवो दृष्टः प्रत्यक्षतस्त्वया ॥
अर्धचन्द्रस्त्वया प्राप्तो दत्वा तत्कोटिपञ्चकम् । कः प्राज्ञो वाञ्छति स्नेहं वेश्यासु सिकतासु ॥
किमुच्यते वा भवतो वस्तुधर्मोऽयमीदृशः । तावद्विदग्धो वीरश्च नरो भागी शुभस्य च ॥
यावत्पतति नैवासौ रामाविभ्रमभूमिषु । तदागच्छ पितुः पार्श्व मन्युप्रतिकृतिं कुरु ॥
इत्युक्त्वा सोऽर्थदन्तेन तेनानीयत सत्वरम् । आश्वस्येश्वरवर्मासौ पितुः पार्श्वमुपागतः ॥
पित्रा चैकसुतस्नेहात्सान्त्वयित्वैव तेन सः । नीतोऽभूद्यमजिह्वयाः कुट्टन्या निकटं पुनः ॥
पृष्टश्श्वात्र तयाचख्यौ सोऽर्थदन्तमुखेन तम् । स्खोदन्तं सुन्दीकूपनिपातान्तं धनक्षयम् ॥
यमजिह्मा ततोऽवादी हमेवापराधिनी । यद्विस्मृत्य मया मायामेतामेष न शिक्षितः ॥
पेथ्संक्ररकट्या हि जालमन्तथैषध्यत । तत्पृष्ठे सुन्दरी देहमक्षिपन्न ममार यत् ॥
तदत्रास्ति प्रतीकार इत्युक्त्वा सापि कुट्टनी । आनाययस्वदासीभिरालं नाम स्वमर्कटम् ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२०४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति