पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नद्वप च गर्जन्तमायान्तं मण्डलैभैमन् । खङ्गच्छिन्नकरानीकं मुक्तारष्टिमपातयत् ॥
काकी तस्करचमूर्विदलन्नवपङ्कजाः । समाधारण्यविक्रान्तः करी कमलिनीरिव ॥
वं मार्गमतिक्रम्य दृष्टान्यद्भुतविक्रमाम् । मालवं प्राप्य देवीं स्वां सोऽब्रवीत्सत्वसाग ॥
मार्गवृत्तमेतन्मे वाच्यं पितृगृहे हि विक्रमे
त्वया । लज्जैषा देवि का लांघा क्षत्रियस्य ॥
युक्त्वा च तया साकं प्राविशत्तस्पितुगृहम् । संभ्रमात्तेन पृष्टश्च निजं वृत्तान्तमुक्तवान् ॥
दत्तहस्यश्वस्तेनैव श्वशुरेण सः। गजानीकाभिधस्यागाद्राज्ञोऽतिबलिनोऽन्तिकम् ॥
वीं तु कल्याणवतीं भार्यां तां पितृवेश्मनि । तत्रैव स्थापयामास विपक्षविजयोद्यतः ॥
स्मिन्प्रयाते यातेषु दिवसेष्वेकत्र सा । देवी वातायनाग्रस्था कंचित्पुरुषमैक्षत ॥
दृष्ट एव रूपेण तस्याश्चित्तमपाहरत् । स्मरेणाकृष्यमाणा च तत्क्षणं सा व्यचिन्तयत् ॥
नेऽहं नार्यपुत्राद्यसुरूपोऽन्यो न शौर्यवान् । धावयेव तथाप्यस्मिन्पुरुषे बत मे मनः ॥
द्यदस्तु भजाम्येनमिति संचिन्त्य सा तदा । सख्यै रहस्यधारिण्यै स्वाभिप्रायं शशंस तम् ॥
यैवानाय्य नक्तं च. वातायनपथेन सा । अन्तःपुरं तं पुरुषं रज्जू क्षिप्तं न्यवेशयत् ॥
प्रविष्टोऽत्र पुरुषो नैवाध्यासितुमोजसा । शशाक तस्याः पर्यॐ न्यषीदत्पृथगासने ॥
दृष्ट्वा बत नीचोऽयमिति यावद्विषीदति । राज्ञी सा तावदत्रागादुपरिष्टाद्धमन्नहिः ॥
विलोक्य भयोत्थाय सहसा पुरुषोऽत्र सः । धनुरादाय भुजगं जघन विशिखेन तम् ॥
पन्नपतितं तं च गवाक्षेणाक्षिपद्वहिः । हर्षेण तन्त्र्योत्तीण ननर्त स च कातरः ॥
त्यन्तं वीक्ष्य तं विप्रः सा कल्याणवती धृशम् । दध्यौ धिग्धिकिमेतेन निःसन्त्वेनाधमेन मे ॥
नैव तद्विरक्तां तां चित्तज्ञा सा च तत्सखी । निर्गत्याशु प्रविश्यात्र जगाद कृत संभ्रमा ॥
गतस्ते पिता देवि तदयं यातु संप्रति । यथागतेनैव पथा स्वगृहं त्वरितं युवा ॥
व तयोक्ते निर्यातो रज्ज्वा वातायनाद्वहिः। भयाकुलः स पतितो न दैवात्षयतां गतः ॥
ते तस्मिन्नवोचत्तां सा कल्याणवती सखीम् । सखि सुष्टु कृतं नीचो यत्त्वयैष बहिष्कृतः ॥
तं त्वया मे हृद्यं चेतो हि मम दूयते । भर्ता मे व्याघ्रसिंहदीन्निपात्यापहृते ह्रिया ॥
यं तु भुजगं हत्वा हीनसत्वः प्रनृत्यति । तत्तादृशं तं हित्वा किमस्मिन्मे प्राकृते रतिः ॥
इप्रतिष्ठितमतिं धिङ् मां धिगथवा स्त्रियः । या धावन्त्यशुचिं हित्वा कर्णं मक्षिका इव ॥
ते जातानुतापा सा राजं नीत्वा निशां ततः । प्रतीक्षमाणा भर्तारमासीत्तत्र पितुर्युद्दे ॥
(वत्स दत्तान्यबलो गजानीकेन भूभुजा । गत्वा तान्गोत्रजान्पञ्च पापानिसहबलोऽवधीत् ॥
ततः स संप्राप्य पुनः स्वराज्यमानीय भार्या च पितुगृहात्तम् ।
प्रपूर्य तं य श्वशुरं धनौवैर्निष्कण्टकां क्ष्मां सुचिरं शशास ॥
इति वीरे सुभगे च सत्पतौ विवेकिनीनामपि देव योषिताम् ।
चलं मनो धावति यत्र कुत्रचिद्विशुद्धसत्त्वा विरलाः पुनः स्त्रियः ॥
इति मरुभूतिनिगदितामाकण्यै कथां स वत्सराजसुतः ।
नरवाहनदत्तस्तां सुखसुप्तो नीतवान्रजनीम् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके द्वितीयस्तरङ्गः।


_____


तृतीयस्तरङ्गः ।


तः प्रातः कृतावश्यकार्यः स सचिवैः सह । नरवाहनदत्तः स्वमुद्यानं विहरन्ययौ ॥