पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
[ आदितस्तरङ्गः ७
कथासरित्सागरः ।

ततः कदाचिद्ध्यास्त वसन्तसमयोत्सवे । देवीकृतं तदुद्यानं स राजा सातवाहनः ॥ १७८

विहरन्सुचिरं तत्र महेन्द्र इव नन्दने । बापीजलेऽवतीर्योऽभूत्क्रीडितुं कामिनीसखः ॥ १०९

असिञ्चतत्र दयिताः सहेलं करवारिभिः । असिच्यत स ताभिश्च वशभिरिव वारणः ॥ ११०

संवैधौताञ्जनाताम्रनेत्रैर्जहुर्जलाप्लुतैः। अत्रैः सक्तम्बरठ्यक्तविभागैश्च तमङ्गनाः॥ १११

विदलपत्रतिलकाः स चक्रे वनमध्यगाः । च्युताभरणपुष्षारता लता वायुरिव प्रियाः ॥ ११२

अथैका तस्य महिषी राइः स्तनभरालसा । शिरीषसुकुमाराी क्रीडन्ती क्लममभ्यगात् ॥ ११३

सा जलैरभिषिञ्चन्तं राजानमसह सती। अब्रवीन्मोदकैर्देव परिताडय मामिति ॥ ११४

तच्छुत्वा मोदकान्राजा द्रुतमानाययद्वहून् । ततो विहस्य सा राी पुनरेवमभाषत ॥ ११५

राजन्नवसरः कोऽत्र मोदकानां जलान्तरे । उदकैः सिञ्च मा त्वं मामित्युक्तं हि मया तव ॥ ११६

संधिमात्रं न जानासि माशब्दोदकशब्दयोः । न च प्रकरणं वेत्सि मूर्धस्त्वं कथमीदृशः ॥ ११७

इत्युक्तः स तया राज्ञा शब्दशास्त्रविदा नृपः । परिवारे हसत्यन्तर्लज्जाक्रान्तो झगित्यभूत् ॥ ११८

परित्यक्तजलक्रीडो वीतर्पश्च तस्क्षणम् । जातावमानो निर्दक्षः प्राविशन्निजमन्दिरम् ॥ ११९

ततश्चिन्तापरो मुह्यन्नाहारादिपराङ्मुखः । चित्रस्थ इत्र पृष्टोऽपि नैव किंचिद्भाषत ॥ १२०

पाण्डित्यं शरणं वा मे मृत्युर्वंति विचिन्तयन् । शयनीयपरित्यक्तगात्रः संताघवानभूत् ॥ १२१

अकस्मादथ राज्ञस्तां दृष्ट्वावस्थां तथाविधाम् । किमेतदिति संभ्रान्तः सर्वः परिजनोऽभवत् ॥ १२२

ततोऽहं शर्ववर्मा च ज्ञातवन्तौ क्रमेण ताम् । अत्रान्तरे स च प्रायः पर्यहीयत बासरः ॥ १२३

अस्मिन्काले न च स्वस्थो राजेत्यालोच्य तत्क्षणम् । आवाभ्यां राजहंसाख्य आहूतो राजचेटकः ॥ १२४

शरीरवात भूपस्य स च पृष्टोऽब्रवीदिदम् । नेदृशो दुर्मनाः पूर्वं दृष्टो देवः कदाचन ॥ १२५

विष्णुशक्तिदुहित्रा च मिथ्यापण्डितया तया । विलक्षीकृत इत्याहुर्देव्योऽन्याः कोपनिर्भरम् ॥ १२६

एतत्तस्य मुखाच्छुत्वा राजचेदस्य दुर्मनाः । शर्वबर्मद्वितीयोऽहं संशयादित्यचिन्तयम् ॥ १२७

व्याधिर्यदि भवेद्राज्ञः प्रविशेयुश्चिकित्सकाः । अधिव यदि तत्रास्य कारणं नोपलभ्यते ॥ १२८

नास्त्येव हि विपक्षेऽस्य राज्ये निहतकण्टके । अनुरक्ताः प्रजाश्चैता न हानिः परिदृश्यते ॥१२९

तत्कस्मादेष खेदः स्यादीदृशः सहसा प्रभोः। एवं विचिन्तिते धीमाञ्शर्ववर्मेदमब्रवीत् ॥ १३०

अहं जानामि राज्ञोऽस्य मन्युमौढ्यनुतापतः । मूखऽहमिति पाण्डित्यं सदैवायं हि वाञ्छति ॥ १३१

उपलब्धो मया चैष पूर्वमेव तदशयः । राज्यावमानितश्चाद्य तन्निमित्तमिति श्रुतम् ॥ १३२

एवमन्योन्यमालोच्य तां रात्रिमतिवाह्य च । प्रातराबामगच्छाव वासवेइम महीपतेः ॥ १३३

तत्र सर्वस्य रुद्धेऽपि प्रवेशे कथमप्यहम् । प्राविशं मम पश्चाच शर्ववर्मा लघुक्रमम् ॥ १३४

उपविश्याथ निकटे विज्ञप्तः स मया नृपः । अकारणं कथं देव वर्तसे विमना इति ॥ १३५

तच्छुत्वापि तथैवासीत्स तूष्णीं सातवाहनः । शर्ववर्मा ततश्लैम द्रुतं वाक्यमब्रवीत् ॥ १३६

श्रुतं मम स्यात्कापीति प्रागुक्तं देव मे स्वया । तेनाहं कृतवानद्य स्वप्नमाणवकं निशि ॥१३७

स्वप्ने ततो मया दृष्टं नभसङ्कयुतमम्बुजम् । तच्च दिव्येन केनापि कुमारेण विकासितम् ॥ १३८

ततश्च निर्गता तस्माद्दिध्या स्त्री धवलाम्बरा । तव देव मुखं सा च प्रविष्टा समनन्तरम् ॥१३९

इयदृष्ट्वा प्रबुद्धोऽस्मि मन्ये सा च सरस्वती । देवस्य वदने साक्षात्संप्रविष्टा न संशयः ॥ १४०

एवं निवेदितस्वप्ने शर्ववर्मणि तत्क्षणम् । मामस्तमैौनः साकूतमवदत्सातवाहनः ॥ १४१

शिक्षमाणः प्रयत्नेन कालेन कियता पुमान् । अधिगच्छति पाण्डित्यमेतन्मे कथ्यतां त्वया ॥ १४२

मम तेन विना षा लक्ष्मीर्न प्रतिभासते । विभवैः किं नु मूर्धस्य काष्टस्याभरणैरिव ॥ १४३

ततोऽहमवदं राजन्वर्षेद्दशभिः सदा । ज्ञायते सर्वविद्यानां मुखं व्याकरणं नरैः ॥ १४४

अहं तु शिक्षयामि त्वां वर्षषट्रेन तद्विभो। धृत्वेतरसहसा सेवें शर्ववर्मा किलावदत् ॥ १४५

सुखोचितो जनः छेशं कथं कुर्याद्दियच्चिरम् । तदहं मासषट्रेन देव र्हत्वां शिक्ष्यामि तत् ॥ १४६