सभार्यमागतं तं च दृष्टैव करिमर्दनम् । वनं समर्थ तत्तस्मै लुब्धकः स ततो गतः ॥
एतदष्यहमालोक्य गत्वाश्रमपदं ततः । उभयं तन्महाश्चर्यमवोचं ब्रह्मदण्डिने ॥
सोऽथ प्रीत्या त्रिकालज्ञो मुनिमीमेवमभ्यधात् । धन्योऽसि दर्शितं सर्वं प्रसज्ञेनेश्वरेण ते ॥
या दृष्टा स्त्री त्वया तत्र सा माया भ्रमितं च यत् । तया संसारचक्रे तो भृङ्गवस्ते च जन्तवः ॥
वृषगर्दभरूपौ तौ धर्माधर्मं पृथक्पृथक् । श्रितास्तद्वान्तदुग्धासुमृषे सुकृतदुष्कृते ॥
स्वस्वाश्रयोत्थे संसेव्य भूत्वा च श्वेतकल्मषाः । द्विविधा जाणकाराभा विष्टब्धा निजवीर्यतः ॥
निर्माय द्विविधानेव जालपाशान्मुतादिकान् । सपुष्पविषपुष्पाभसुखदुःखानुषङ्गिणः ॥
यथास्वं तेषु संसक्ताः कालेनोरगरूपिणा । शुभाशुभाभ्यां वफाभ्यां हताः पुत्र यथोचितम् ॥
ततो घटकरूपासु नानायोनिषु मायया । बीरूपया तया क्षिप्तास्तथैवोत्थाय ते पुनः ॥
तुल्यासु पतिताः श्वेतकृष्णास्वाकृतिषु द्विधा । पुत्रादिजालपाशेषु सुखदुःखानुबन्धिषु ॥
ततः कृष्णा निजैर्जालैर्बद्धा दुःखविषार्दिताः। प्रवृत्ताः क्रन्दितुं विग्नाः शरणं परमेश्वरम् ।॥
तदृष्ट्वा जातवैराग्यास्ते श्वेता अपि जन्तवः । प्रारब्धा निजजालस्थास्तमेवाक्रन्दितुं प्रभुम ॥
ततः प्रबुध्य देवेन तेन तापसरूपिणा । ज्ञानाग्निज्वालया दग्धपाशाः सर्वेऽपि ते कृताः ॥
तेन विद्मसद्दण्डरूपमादित्यमण्डलम् । प्रविश्य तत्तदूर्घर्थं परमं धाम ते श्रिताः ॥
नष्टा च चक्राकारेण संसारेण सहैव सा । माया खूपखराकारधर्माधर्मसमन्विताः ॥
एवं भ्रमन्ति संसारे शुक्लकृष्णाः स्वकर्मभिः । ईश्वराराधनादेव विमुच्यन्ते च जन्तवः ॥
इति ते मोहशान्त्यर्थमीश्वरेण प्रदर्शितम् । वापीजले च यदृष्टं भवता तदिदं शृणु ॥
मृगाङ्कदत्तभाव्यर्थप्रदर्शनमिदं जले । प्रतिबिम्बमिवोत्पाद्य कृतं भगवता तव ॥
स हि बालमृगारातिपोततुल्यो भुजोपमैः। सचिवैर्दशभिर्युक्तो वञ्चितो वनसंनिभात् ॥
देशाळुब्धकतुल्येन पित्रा कोपात्प्रवासितः । अवन्तिदेशादुद्धृतां ख्यातिमन्यवनोपमात् ॥
शशाङ्कवत्यास्तसिह्या इव श्रुत्वा प्रधावितः । नागशापेन वातेन भ्रष्टमग्निभुजः कृतः ॥
ततो विनायकेनात्र स लम्बोदररूपिणा । संधाटितामात्यभुजः प्रकृतिस्थः पुनः कृतः ॥
ततो गत्वानुभूयातिक्लेशं प्राप्तां ततोऽन्यतः । तां शशाङ्कवतीं सिंहीमादायात्रागतश्च सः ॥
ततश्च निकटं प्राप्तं विद्युताशतिवारणम् । मृगाङ्कदत्तसिंहं तं दृष्ट्वा भार्यासमन्वितम् ॥
तत्खदेशवनं तस्मै समर्थं सकलं स्वतः। तत्पिता लुब्धकनिभः स प्रयातस्तपोवनम् ॥
इति संपन्नवद्भावि दर्शितं विभुना तव । तद्युष्मान्मत्रिणो भार्या राज्यं चाप्स्यति वः प्रभुः ॥
इत्यहं मुनिवरेण बोधितस्तेन लब्धधृतिराश्रमात्ततः ।
निर्गतोऽथ शनकैरुपाव्रजन्नद्य देव मिलितस्त्वया सह ॥
तस्मादभिमतमाप्स्यसि सचिवांल्लब्ध्वा प्रचण्डशक्तिमुखान्।
प्रस्थानकालपूजाप्रसन्नविघ्नेश्वरो नियतम् ॥
इति स्वसचिवाक्षणं विमलबुद्धितः सोऽद्भुतं
निशम्य परितोषवानपि मृगाङ्कदत्तः पुनः ॥
विचार्य सह तेन तामपरमव्यवास्यै क्रमा
दवन्तिनगरं प्रति व्रजितवान्स्वकार्याय च ॥
क्शन श्रीगोभदेशभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्वके तृतीयतरः।
_____
चतुर्थेस्तर
ततः श्रुतधियुतन सरां विमलबुझाि। स छुवतीवेतछत्रुञ्जयिनीं प्रति ॥
भृगदत्तः संप्रापन्त नर्मदनद्। औचित्रेल केंजळ विळखलङ्गम् ॥