पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७४
[ आदितस्तर
कथासरित्सागरः

भुक्तैस्तैः सक्तुभिश्छागी समपद्यत सा तदा । ततो नीत्वा मयामर्षाद्विक्रीता सौनिकस्य सा ॥
ततः सौनिकभार्या मामुपेत्यावोचत क्रुधा । सत्सखी विप्रलब्धेयं त्वया तलप्स्यसे फलम् ॥
इति तत्तजितो गत्वा ततो गुरुं बहिः पुरः। श्रान्तः शयितवानस्मि मूळे न्यग्रोधशाखिनः ॥
तथाभूतस्य मे तत्र तया सौनिकभार्यया । आगत्य दुष्टयोगिन्या गळेऽबध्यत सूत्रकम् ॥
तस्यां गतायां पापायां प्रबुद्धोऽहं च तरक्षणम् । पश्यामि यावत्प्राप्तोऽस्मि मयूरत्वं स्थितस्मृतिः॥
ततो दिनानि कतिचिद्विनो भ्राम्यन्नितस्ततः । जीवशाकुनिकेनाहं गृहीतोऽभूवमेकदा ॥
स चानीय ददाति स्म मामस्मै चण्डकेतवे । भिल्लराजप्रतीहारमुख्याय प्राभृतीकृतम् ॥
प्रतीहारोऽप्ययं प्रादात्स्वभार्यायै तदैव माम् । तयाहं स्थापितश्चास्मि मण्डपे क्रीडनीयकः॥
अचेह दैवानीतेन त्वया मे कण्ठसूत्रके । मुक्ते प्राप्तोऽस्मि तां देव पुनः स्वां मानुषाकृतिम् ॥
तदितो मङ गच्छावः प्रतीहारो हि हन्त्यसौ । रात्रिचयसखीन्पापः प्रतिभेदभयात्सदा ॥
त्वं चानीतोऽमुना रात्रिचर्याद्रष्टाद्य तत्प्रभो । योगिनीनिर्मितं बह्वा कण्ठे सूत्रमिदं भवान् ॥
मयूरीभूय निर्यातु गवाक्षेणामुना बहिः । ततः प्रसारितभुजः सूत्रे कुण्ठान्तवोच्छूितान् ॥
मुक्त्वा बङ्गात्मनः कण्ठे तद्वन्नियम्यहं हुतम् । त्वयाथ मुक्ते में सूत्रे भवावः प्रकृतिस्थितौ ॥
बहिर्गलितेनास्ति द्वारेण न विनिर्गमः । एवमुक्तवति प्राशे तस्मिन्भीमपराक्रमे ॥
भृङ्गाङ्कदत्तस्तद्युक्तस्तथेति निरगात्ततः। जगाम च स्वनिळयं स्थितान्यसचिवद्वयम् ॥
तत्र सर्वेऽपि तेऽन्योन्यकृत्नवृत्तान्तवर्णनैः । निन्युघृगाङ्कदत्ताद्याः प्रहृष्टास्तां विभावरीम् ॥
प्रातर्मुगाकदत्तस्य पार्श्व तस्याजगाम सः । मायाबदुर्भिलराजस्तस्यां पलयामधीश्वरः ॥
स पृष्टरात्रिसौख्यस्तं राजपुत्रं विनोदयन् । अत्रैः क्रीडाम एहीति मायाबदुरभाषत ॥
ततस्तं सप्रतीहरं वीक्ष्य भिल्लं समागतम् । सखा मृगाङ्कदत्तस्य सोऽथ भृतधिरभ्यधात् ॥
किमलैर्विस्मृतं किं वा दृश्यमद्य हि वर्तते । प्रतीहारमयूरस्य नृत्यमुक्तं ह्य एव यत् ॥
श्रुत्वैतच्छुतः स्मृत्वा कौतुकाच्छबरेश्वरः। प्राहिणोस प्रतीहारं मयूरानयनाय तम् ॥
कथं प्रमादाद्विस्मृत्य न स चौरो मया हतः। साक्षी रात्रिरहस्यस्य क्षिप्तोऽपि शिखिवेश्मानि ॥
तद्यामि शीघ्रमुभयं करोमीति विचिन्तयन् । स्मृत्वोद्धातात्प्रतीहारः सोऽप्यगासत्वरं हम् ॥
तत्र यावत्प्रविश्यैव वीक्षते शिखिवेश्मनि । तावन्न चौरं नाप्यत्र स मयूरं ददर्श तम् ॥
अथ भीतविषण्णः स गत्वा स्वं नृपमब्रवीत् । निशि चौरेण से नीतः स मयूरः प्रभो इति ॥
प्रसिद्धः स महाचौरो येन बहीं हृतः स ते । इति तत्र स्मितमुखेनोक्ते श्रुतधिना ततः ॥
दृष्ट्वा मृगाङ्कदत्तादीन्हसतोऽन्योन्यर्शिनः। मायाबटुताग्निर्बन्धात्किमेतदिति पृष्टवान् ॥
ततः क्षत्रा यथा तेन राज्ञे मेलो यथा च सः। राजपत्न्या गृहं कामी गत्वा शस्रकलिं व्यध ॥
यथा क्षत्तृगृहप्राप्तिर्यथा भीमपराक्रमः । मोचितोऽत्र मयूरस्वान्निर्गमश्च यथा ततः ॥
तथा मृगाङ्गदत्तः स्वं क्षनुः संबन्धिनं च तम् । वृत्तान्तं शबरेन्द्राय तस्मै सर्वं शशंस सः ॥
तद्वद्धा छुरिकापरिक्षतकरामन्तःपुरे चेटिकां
दृष्ट्वा तामथ वीक्ष्य कण्ठरचिते तस्मिन्क्षणं सूत्रके ।
भूयो भीमपराक्रमस्य शिखितां शुद्धान्तविध्वंसिनं
क्षत्तारं शबरेश्वरः सपदि तं मायाबहुँ खोऽवधीत् ॥
तां त्वविनीतां राज्ञीं मृगाङ्कत्तेन रक्षितां बधतः।
दूरस्थितां चकार स मजुमतीं परिहृतस्पर्शम् ॥
तपूजितः स च ततोऽत्र पुलिन्दपल्लयामासीद्दिनानि किळ तानि मृगाकदत्तः ।
बद्धोद्यमोऽप्यधिगमाय शशाङ्कवत्याः संप्राप्तशेषसखिसंगमसव्यपेक्षः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्वके चतुर्थस्तरङ्गः।


_____