पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८६
[ आदितस्तरङ्ग
कथासरित्सागरः ।

मया यवश्यं त्यक्तव्यं शरीरं स्वप्रभं विना। इत्युक्त्वा वर्णितस्तस्मै खंवृत्तान्तोऽखिलो मया ॥
ततश्च स महात्मा मां प्रीतिमानेवमब्रवीत् । यक्षोऽहमेते सद्भार्यं त्वं च प्राप्तोऽयं मेऽतिथिः ॥
यथाशक्स्यतिथः पूजा धर्मो हि गृहमेधिनाम् । मयाचितोऽस्यतः किं च प्राणान्कस्मान्मुमुक्षसि ॥
वियोगो नागशपेन कंचित्कालमयं हि वः । अवश्यं क्षीणशापानां युष्माकं स्यात्समागमः ॥
निर्मुःखो नामकश्चन संसारे भद्र जायते । यक्षेणापि मया दुःखं यदृष्टं वच्मि तच्छुणु ॥
अस्त्यस्या वसुधावर्धधा मौलिमण्डनमालिका । त्रिगर्ता नाम नगरी सुमनोगुणगुम्फिता ॥
तस्यां द्विजयुवा कोsपि पवित्रधर इत्यभूत् । धनैर्दरिद्रः स्वजनैरदरिद्रः कुलादिभिः ॥
स वसश्रमतां मध्ये द्विजो मानी व्यचिन्तयत् । एषामर्थवतां मध्ये वृत्तस्थोऽपि न भाम्यहम् ॥
एकः सत्काव्यशब्दानामिव शब्दो निरर्थकः। मनस्वी च न शक्नोमि सेवां नापि प्रतिग्रहम् ॥
तद्भत्वा क्कचिदेकान्ते यक्षिणीं साधयाम्यहम् । अस्ति सत्रोपदेशो हि तत्र से गुरुवक्रतः ॥
इति संकल्प्य विधिवद्भत्वारण्याय यक्षिणीम् । भार्यात्वे पवित्रधरो ॥
साधयामास स द्विजः
सिद्धया च तया युक्तः सौदामिन्यभिधानया । तस्थौ घोरहिमोत्तीर्णा विटपीव मधुश्रिया ॥
एकदा तं सुतोत्पत बिता दुःखितचेतसम् । दृष्टा सा यक्षिणी भार्या पवित्रधरमब्रवीत् ॥
मार्यपुत्र कुंथाश्चिन्तां सूनुरुत्पद्यते हि नौ। इमं च णु वृत्तान्तमत्राहं कथयामि ते ॥
अस्ति दक्षिणदिक्प्रान्ते प्रावृषो जन्मभूरिव । पिहिताक घनश्यामा तमालवनवीथिका ॥
तस्यां पृथूदरो नाम यक्षो वसति विश्रुतः । तस्याहमियमेकैव नाम्ना सौदामिनी सुता ॥
सा स्नेहतेन पित्राहं नीयमान कुलादिषु । तेषु तेषु सदाक्रीडं दिव्योपवनभूमिषु ॥
एकदा च स सख्या क्रीडन्ती कपिशभुवा । अद्राक्षमट्टहासाख्यं कैलासे यक्षपुत्रकम् ॥
सोऽपि मां सखिमध्यस्थो दृष्टवानथ तत्क्षणम् । जातावावां किलान्योन्यरूपाकृष्टविलोचनौ ॥
तदृष्ट्वा तुल्यसंयोगमवेत्याहूय चात्र तम् । सद्योऽदृहसं तातेन विवाहो नौ विनिश्चितः ॥
स्थापिते लग्नदिवसे तातो मामनयद्रुहम् । अट्टहासोऽपि मुदितः समित्रः स्वगृहानगात् ॥
अन्येद्युश्च विषण्णेब कपिशधूः सखी मम । आगासमीपं पृष्टा च कृच्छादेवमभाषत ॥
अनाख्येयमपीदं ते कथयाम्यप्रियं सखि । अद्ययान्त्या मया दृष्टः सोऽट्टहसो वरस्तव ॥
चित्रस्थलाख्ये हिमवत्सानूद्याने त्वदुत्सुकः । विनोदयद्भिः सखिभिः क्रीडया यक्षराट् कृतः ॥
भ्राता दीप्तशिखस्तस्य तत्पुत्रो नडकूबरः । कल्पितस्तैः स्वयं ते च तस्य साचिव्यमाश्रयन् ॥
एवं कृतचिनोदं तं वयस्यैस्त्वप्रियं तदा । व्योम्ना यदृच्छया गच्छन्नपश्यन्नडकूबरः ॥
स तमाहूय संक्रुद्धो धनाधिपसुतोऽशपत् । भृत्यो भूत्वा प्रभोर्ललमभिवाञ्छसि यस्ततः ॥
दुर्मते भव मर्यस्त्वमूर्धमिच्छन्नधो व्रज । इत्युक्तस्तेन विग्नस्तं सोऽट्टहासो व्यजिज्ञपत् ॥
औत्सुक्यं नुदता देव मूर्छोदं मया कृतम् । नाधिकाराभिसनेन तत्क्षमां कुरु मे प्रभो ॥
इत्यातं तद्वचः श्रुत्वा प्रणिधानात्तथैव तत् । बुवा शापान्तहेतोस्तं सोऽब्रवीन्नडकूबरः ॥
यस्यां त्वमुत्सुकस्तस्यां यक्षिण्यां मानुषो भवन् । जनयित्वानुजं दीप्तशिखमेवैतमात्मजम् ॥
शापाद्विमुक्तः स्वपदं तया पल्या सहाप्स्यसि । अता तु ते सुतो भूत्वा कृत्वा राज्यमसौ भुवि ॥
शापान्मोक्ष्यत इत्युक्ते तेन विन्तेशसूनुना । सोऽट्टहसस्तिरोभूतः कापि शपप्रभावतः ॥
तद्युद्वाहमिहायाता पार्श्व ते सखि दुःखिता । इत्युक्तो हं तया सख्या दुःखात्कामप्यगां दशाम्॥
आत्मानमनुशोच्याथ गत्वा पित्रोर्निवेद्य तत् । अनैषं तमहं कालं पुनः संगमवा.छया ॥
सोऽट्टहासस्त्वमुत्पन्नः सा चाहं मिलितावुभौ । अवेहायां तदेवं नौ जनितैबाचिरसतः॥
एवं तयोक्ते ज्ञानिन्या सौदामिन्या प्रहर्षवान् । अभूदुत्पन्नपुत्रास्थः स पवित्रधरो द्विजः ॥
कालेन तस्य यक्षिण्यां तस्यां सूनुरजायत । गृहं चित्तं च जातेन तयोर्येन प्रकाशितम् ॥
दृष्ट्वा च तस्य पुत्रस्य स पवित्रधरो मुखम् । संपेदे सोऽट्टहासोऽत्र ग्रक्षो दिव्याकृतिः क्षणात् ॥