पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१२
[ आदितस्तरङ्गः ५
कथासरित्सागरः ।

प्रयान्तं च तमाह स स वेतालोऽस्य पृष्ठगः। चित्रं नोद्विजसे राजन्निशि कुर्वन्नामागमम् ॥
तद् खेदाय भूयस्ते वर्णयामि कथां श्रुणु । अस्ति पाटलिपुत्राख्यं ख्यातं भूमण्डले ॥
पुरम्
तत्रासीनृपतिः पूर्वं नाम्ना विक्रसकेसरी । गुणानामिव रन्नानमाश्रयं यं व्यधाद्विधेि:॥
तत्र शापावतीर्योऽभूद्दिव्यविज्ञानवान्सुकः। विदग्धचूडामणिरित्याख्यया सर्वशास्त्रवित् ॥
तेनोपदिष्टां सदृशीं राजपुत्रीं नृपत्मिजः । मागधीमुपयेमे स भार्या चन्द्रप्रभाभिधाम् ॥
तस्या अपि तथाभूता सर्वविज्ञानशालिनी । शारिका समिका नाम राजपुत्र्याः किलाभवत् ॥
ते चैकपञ्जरस्थे द्वे तत्रास्तां शुकशारिके । सेयमाने स्वविज्ञानैर्दपती तौ निजप्रभू ॥
एकदा साभिलाषस्तां शारिकां सोऽब्रवीच्छुकः। एकशय्यासनाहारं सुभगे भज मामिति ॥
नाहं पुरुपसंसर्गमिच्छामि पुरुषा यतः। दुष्टाः कृतन्ना इति सा शारिका प्रत्युवाच तम् ॥
न स्त्रियः ।
दुष्टाः पुरुषा दुष्टा नृशंसहृदयाः इति भूयः शुकेनोक्ते विवादोऽत्रालगत्तयोः ॥
कृतदासत्वभार्यात्वपणौ तौ शकुनी मिथः। निश्चयायाथ सभ्यं तं राजपुत्रमुपेयतुः ॥
ख विवादपदं श्रुत्वा तयोरास्थानगः पितुः । कथं कृतन्नाः पुरुषा हीत्याह स्म शारिकाम् ॥
ततः सा धृणुतेत्युक्त्वा निजपक्षप्रसिद्धये । भूदोषाख्यायिनीमेतां शारिकाकथयत्कथाम् ॥
अस्ति कामन्दिका नाम या महानगरी भुवि। अर्थदत्ताभिधानोऽस्ति वाणिक्तस्यां महधनः ॥
धनदत्ताभिधानश्च पुत्रस्तस्योदपद्यत । पितर्युपरते सोऽपि बभूवोच्छूद्रो युवा ॥
चूतादिसद्धे धूर्ताश्च मिलित्वा तमपातयन् । कामं व्यसनवृक्षस्य मूलं दुर्जनसंगतिः ॥
अचिराव्यसनक्षीणधनो दौर्गत्यलज्जया । सोऽथ त्यक्त्वा स्वदेशं तं भ्रान्तुं देशान्तराण्यगात् ॥
गच्छंश्च चन्दनपुरं नाम स्थानमवाप्य सः। विवेश भोजनार्थं सन्नेकस्य वणिजो गृहम् ॥
स वणिक्सुकुमारं तं दृष्ट्वा धृष्ट्यन्वय दिकम् । ज्ञात्वा कुलीनं सत्कृत्य स्वीचक्रे दैवयोगतः ॥
ददौ च सधनां तस्मै नाम्ना रत्नावलीं सुताम् । ततः स धनदत्तोऽत्र तस्थौ श्वशुरवेश्मनि ॥
दिनेष्वेव च यातेषु सुखविस्ऋतदुर्गतिः । स्वदेशं गन्तुकामोऽभूत्प्राप्तयें व्यसनोन्मुखः ॥
ततोऽनुमान्य कथमप्यवशं श्वशुरं शठः । तं दुहित्रेकसंतानं गृहीत्वा तामलंकृताम् ॥
भार्या रत्नावलीं युक्तामेकया वृद्धया स्त्रियां । स आत्मन तृतीयः सन्देशात्प्रस्थितवांस्ततः ॥
क्रमात्प्राप्याटवीं दूरामुक्त्वा तस्करजां भियम् । गृहीत्वाभरणं तस्य भार्यायाः स्वीचकार सः ॥
दृश्यतां धृतवेश्यादिकष्टव्यसनसङ्गिनाम् । हृदयं हा कृतन्नानां पुंसां निस्त्रिंशकर्कशम् ॥
सोऽथ पापोऽर्थहेतोस्तां भार्या गुणवतीमपि । हन्तुं श्वश्रे निचिक्षेप तया वृद्धस्रिया युताम् ॥
क्षिप्वैव च गते तस्मिन्साथ वृद्ध व्यपद्यत । तद्भार्या तु लतागुल्मविलग्ना न व्यपादि सा ॥
उत्तस्थौ च ततः श्वभ्रात्क्रोशन्ती करुणं शनैः। आलम्ब्य तृणगुल्मादि सशेषत्वात्किलायुषः ॥
आययौ विक्षताङ्गी च पृष्टा मार्गे पदे पदे । यथागतेनैव पथा कृच्छात्तत्सदनं पितुः ॥
तत्राकस्मात्तथाभूता प्राप्ता पृष्टा ससंभ्रमम् । मात्रा पित्रा च रुदती साध्वी सैवमभाषत ॥
मुपिताः स्मः पथि स्तेनैनीतो बा च मत्पतिः । वृद्धा सृता निपत्यापि श्वथै नाहं मृता पुनः ॥
अथागतेन केनापि पथिकेन कृपालुना। उद्धृताहं ततः श्वभ्रात्प्राप्तास्मीह च दैवतः ॥
एवमुक्तवती मात्रा पित्रा चाश्वासिता ततः। भर्तृचित्तैव सा तस्थौ तत्र रत्नावली सती ॥
याति काले च तद्भर्ता स स्वदेशगतः पुनः । चूतक्षपिततद्वित्तो धनदत्तो व्यचिन्तयत् ॥
आनयामि पुनर्गत्वा मार्गित्वा श्वशुराद्धनम् । गृहे स्थिता मे त्वत्पुत्रीत्यभिधास्ये च तत्र तम् ॥
एवं स हृदयं ध्यात्वा प्रायाच्छैरवेश्म तत् । प्राप्तं च तत्र तं दूरात्स्वभार्या पश्यति स्म स ॥ ३
धावित्वा चापतत्तस्य सा पापस्यापि पादयोः । दुष्टेऽपि पत्यौ साध्वीनां नान्यथावृत्ति मानसम् ॥ ३
भीताय च ततस्तस्मै तदशेषं न्यवेदयत् । यन्मृषां चौरपातादि पित्रोः प्राग्वर्णतं तया ॥



१. अस्मादग्रे किं चित्रुटितमिव भाति.