४१६ कथासरित्सागरः [ आदितस्तरङ्ग तत्र पुत्रोपहारोऽस्य राजार्थे धरया यथा । उक्तस्तथाब्रवीत्पल्यै धर्मवत्यै विबोध्य सः । तच्छुत्वा सा तमाह स्म नाथ कार्य शिवं प्रभोः। तत्प्रबोध्य सुतस्यास्य शिशोर्वक्तुं भवानिति । ततः प्रबोध्य सुप्तं तं बालं सत्त्ववरं सुतम् । आख्याय तं च वृत्तान्तमेवं वीरवरोऽब्रवीत् ।। तत्पुत्र चण्डिकादेव्या उपहारीकृते त्वयि। राजा जीवत्यसौ नो चेत्तृतीयेऽह्नि विपद्यते । एतच्छुत्वैव बालोऽपि यथार्थं नाम दर्शयन् । अछीबचित्तः पितरं तं स सत्ववरोऽब्रवीत् ।। कृतार्थोऽहं मम प्राणै राजा चेत्तात जीवति । भुक्तस्य हि तदन्नस्य दत्ता स्यान्निष्कृतिर्मया ॥ तत्किं विलम्ब्यते नीत्वा भगवत्याः पुरोऽधुना । उपहारीकुरुध्वं मामस्तु शान्तिर्मया प्रभोः । इति सत्ववरेणोक्ते तेन वीरवरोऽत्र सः । साधु सत्यं प्रसूतोऽसि मत्तः पुत्रेत्यभाषत ।। एतत्सोऽन्वागतो राजा सर्वं श्रुत्वा बहिः स्थितः । अहो एषां समं सत्त्वं सर्वेषामित्यचिन्तयत् । ततो वीरवरः स्कन्धे कृत्वा सर्ववरं सुतम् । भार्या धर्मवती चास्य कन्यां वीरवतीमपि ।। उभौ तौ ययतुतस्यां रात्रौ तक्षुण्डिकागृहम् । राजापि शूद्रकश्छन्नः स तयोर्ययौ पृष्ठतः तत्र देव्या पुरः स्कन्धात्सोऽथ पित्रावतारितः । देवीं सत्त्ववरो नत्वा धैर्यराशिर्यजिज्ञपत् । मम मूर्धापहारेण राजा जीवतु शूद्रकः। अन्यद्वर्षशतं देवि कुर्याद्राज्यमकण्टकम् । एवमुक्तवतस्तस्य साधु साध्वित्युदीर्य सः । सूनोः सत्ववरस्याथ कृष्टा करतलां शिशोः । छित्त्वा शिरश्चण्डिकायै देव्यै वीरवरो ददौ। मत्पुत्रेणोपहारेण राजा जीवत्विति ब्रुवन् । साधु कः स्वामिभक्तोऽन्यः समो वीरवर त्वया । येनैवमेकसपुत्रप्राणव्ययविधायिन । दत्तो जीवश्च राज्यं च शूद्रकस्यास्य भूपतेः । इत्यन्तरिक्षादुदगात्तत्क्षणं तत्र भारती ॥ तच्च सर्वं नृपे तस्मिश्छन्ने ऋण्वति पश्यति । कन्या वीरवती सा तु बाला वीरवरात्मजा । । उपेत्याश्लिष्य मूर्धानं तस्य भ्रातुर्हतस्य तम् । विळपन्युरुशोकान्धा हृत्स्फोटेन व्यपद्यत ततो वीरवरं भार्या धर्मवत्येवमब्रवीत् । राज्ञस्तावत्कृतं श्रेयस्तदिदानीं वदामि ते । निझना यत्र बालापि भ्रातृशोकादियं मृता । नष्टेऽपत्यद्वयेऽप्यस्मिस्तत्र किं जीवितेन मे । प्रागेव राज्ञः श्रेयोऽर्थं मूढया स्वशिरो मया । देव्यै नोपहृतं तस्माद्देह्यनुज्ञां ममाधुना । प्रविशाम्यनखं तावदात्तापत्यकलेवरा । इत्याग्रहाद्वदन्तीं तां सोऽथ वीरवरोऽत्रवीत् ॥ एवं कुरुष्व भद्रं ते का हि संप्रति ते रतिः । अपत्यदुःखैकमये जीवितव्ये मनस्विनि । किं न दत्तो मयैवात्मेत्येषा मा भूच ते व्यथा। दद्यां किं नाहमात्मानमन्यसाध्यं भवेद्यदि । तत्प्रतीक्षस्व यावत्ते चितामत्र करोम्यहम्। अमीभिद्रुभिर्देवीक्षेत्रनिर्माणसंभृतैः । इत्युक्त्वृ दारुभितैः स श्रुत्वा वीरवरञ्चिताम् । । दीपानेऽर्वालयामास न्यस्तापत्यशवद्वयाम् ततो धर्मवती पत्नी पतिवा सास्य पादयोः। प्रणम्य देवीं चण्डीं तां व्यजिज्ञपदपांसुला ।। जन्मान्तरेऽप्ययं भूयादार्यपुत्रः पतिर्मम । एतत्प्रभोस्तु राज्ञोऽस्तु मद्देहेनामुना शिवम् ।। इत्युदीयैव निपपात सा साध्वी तस्मिन्नम्भोवहेलया । ज्वालाकलापजटिले चितानले । ततश्च चिन्तयामास वीरो वीरवरोऽत्र सः। निष्पन्नं राजकार्यं मे वाग्व्याि ह्द्ता यथा । भुक्तस्य चान्नपिण्डस्य जातोऽहमनृणः प्रभोः । तदिदानीं ममैकस्य केयं जीवितगृश्रता ॥ भरणीयं प्रियं कृत्तं व्ययीकृत्य कुटुम्बकम् । जीवयन्नेकमात्मानं मादृशः को हि शोभते ।। तत्किमात्मोपहारेणाप्येतां प्रीणामि नाम्बिकाम् । इत्यालोच्य स देवीं तां स्तुत्या प्रागुपतस्थिवान् ।। जय महिषासुरमरिणि दारिणि रुरुदानवस्य शूळकरे । जय विबुधोत्सवकारिणि धारिणि भुवनत्रयस्य मातृवरे । जय जगदर्चितचरणे शरणे निःश्रेयसस्य भक्तानाम् जय धृतभास्करकिरणे हरणे दुरितान्धकारवृन्दानाम् ॥ जय काळि जय कपालिनि जय कङ्कालिनि शिवे नमस्तेऽस्तु । शूद्रकनृपतेरधुना प्रसीद मन्मस्तकोपहारेण ।
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३१६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१६
[ आदितस्तरैदृ
कयासरित्मप्रार: ।