पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२४
आदितस्तरङः
कथासरित्सागरः ।

ततोऽपराजितं नाम खलं भक्ष्यं फलं च सा । एकं जरामृत्युहरं तस्मै दैत्यसुता ददौ ॥
ताभ्यां युक्तस्तयोक्तायां स्वदेशतः उत्थाय सर्वसंसिद्धकामोऽभूत्सवाप्यां मग्नः । क्रमात्रपः ॥
सत्वशीलोऽपि दैत्यस्त्रीपुरराज्यं शशास सः । तदूहि कोऽब्धिपतने द्वयोः सवाधिकोऽनयोः ॥
इति श्रुत्वा तथाप्रश्न वेतालाच्छापभीतितः । स त्रिविक्रमसेनस्तं भूपतिः प्रत्यभाषत ॥
एतयोः सत्त्वशीलोऽत्र स मे सत्वाधिको मतः । स ह्यविज्ञाततत्स्वार्था निरास्थः पतितोऽम्बुधौ ॥
राजा तु तत्वं विज्ञाय विवेशाम्भोधिमास्थया । दैत्यकभूयां च नावाञ्छदसाध्या स्पृहयेति सः ॥
इति तस्याकण्र्य वचो निरस्तमौनस्य भूपतेः स्कन्धात् ।
स जगाम पूर्ववत्तं वेतालः शिंशपातरुं स्वपम् ॥
राजापि तथैव स तं पुनरध्यानेतुमनुजगाम जवत् ।
प्रारब्धे समाप्ते कार्ये शिथिलीभवन्ति किं सुधियः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके चतुर्दशस्तरङ्गः।


_____


पञ्चदशस्तरङ्गः ।


( अष्टमो वेतालः ।)


गत्वा तां शिंशपां भूयो वेतालं प्राप्य भूमिपः । तं त्रिविक्रमसेनोऽत्र स्कन्धे कृस्वोच्चचाल सः ॥ १
प्रयान्तं स पुनस्तं च वेतालं स्कन्धतोऽब्रवीत् । श्रमविस्मृतये राजन्सतः प्रभ्रमिमं श्रुणु ॥ २
अङ्गदेशेऽग्रहारोऽस्ति महान्वृक्षघटाभिधः। विष्णुस्वामीति तत्रासीद्विजो यज्वा महाधनः ॥ ३
तस्य च स्वानुरूपयां पयां जाताः क्रमात्रयः । बभूवुस्तरुणाः पुत्रा दिव्यवैदग्ध्यशालिनः ॥ ४
ते पित्रा प्रेषितास्तेन कूर्महेतोः कदाचन । प्रारब्धयज्ञेन ययुस्ते त्रयो भ्रातरोऽम्बुधिम् ॥ ५
प्राप्य कूर्म ततो ज्यायान्कनिष्ठ तावभाषत । गृह्यतु युवयोरेकः कूर्म ऋतुकृते पितुः ॥ ६
अहमेतं न शक्नोमि ग्रहीतुं विस्रपिच्छलम् । इत्युक्तवन्तं तं ज्येष्ठं कनिष्ठं ताववोचताम् ॥ ७
तवात्र विचिकित्सा चेन्नावयोरपि सा कथम् । तच्छुत्वा सोऽब्रवीज्ज्येष्ठो गृहीतं कच्छपं युवाम् ॥ ८
पितुर्यज्ञक्रियालोपो भवेयुष्मत्कृतोऽन्यथा । ततो नरकपातः स्याद्युचयोस्तस्य च ध्रुवम् ॥ ९
इत्युक्तावनुजौ तेन तौ विहस्य तमूचतुः। धर्म वेत्स्यावयोरेव समानमपि नात्मनः॥ १०
ततो ज्येष्ठोऽब्रवीत्कि मे जानीथो नैव चङ्गताम् । अहं भोजनचङ्गोऽस्मि नार्हः स्प्रष्टुं जुगुप्सितम् ॥ ११
एतत्तस्य वचः श्रुत्वा भ्रातरं मध्यमोऽब्रवीत् । अहं तथैधिकधाङ्गो नारीचङ्गो विचक्षणः ॥ १२
मध्यमेनैवमुक्ते तु ज्यायान्पुनरुवाच सः । कूर्म ग्रह्वातु तद्धेष कनीयानावयोरिति ॥ १३
ततः स भृकुटिं कृत्वा कनीयान्युवाच तौ । हे मूर्वा तूलिकाचङ्गभृङ्गोऽहं हि विशेषतः ॥ १४
एवं ते कलहसक्तास्त्रयोऽपि भ्रातरो मिथः । निर्णयायाभिमानैकग्रस्ताः कूर्म विहाय तम् ॥ १५
राज्ञः प्रसेनजिन्नाम्नस्तत्प्रदेशभुवोऽन्तिकम् । नगरं सहसा जग्मुर्विटङ्कपुरनामकम् ॥ १६
तत्र प्रतीहारमुखेनावेद्यान्तः प्रविश्य च । नृपं विज्ञापयामासुः स्ववृत्तान्तं तथैव ते ॥ १७
तिष्ठतेहैव यावद्वः परीक्षिष्ये क्रमादहम् । इत्युक्तास्तेन राज्ञा च तस्थुस्तत्र तथेति ते ॥ १८
स्वाहारकाले चानाय्य तेभ्यः सोऽग्रासनं नृपः । राजाही दापयामास षड्रसं स्वादुभोजनम् ॥ १९
भुजानेषु च सर्वेषु तदैको बुभुजे न सः । विप्रो भोजनचङ्गोऽत्र जुगुप्साकूणिताननः ॥ २०
कथं न भोजनं भुक्ते ब्रह्मन्स्वादु सुगन्ध्यपि । इति राज्ञा स्वयं पृष्टः शनैर्विप्रो जगाद सः॥ २१
शवधूमदुरामोदः शालिभक्तेऽत्र विद्यते । तेन नाहमिदं भोक्तुमुत्सहे स्वाद्वपि प्रभो ॥ २२
इत्युक्ते तेन सर्वेऽपि तत्राघ्राय नृपाज्ञया । ऊचुः कलमशाल्यन्नमदोषं तसुगन्धि च ॥ २३
स तु भोजनचङ्गस्तन्नाश्नापिहितनासिकः। ततः स राजा संचिन्त्य यावदन्विष्यति क्रमात् ॥ २४
तावन्नियोगिजनतस्तनं बुबुधे तथा । ग्रामश्मशाननिकटक्षेत्रसंभवशालिजम् ॥ २५