पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ आदितस्तरङ्ग
४३२
कथसरित्सागरः ।

गच्छंश्च कुशनाभाख्यं मुनिं मार्गे ददर्श सः । सोऽत्र तं तापसाकल्पं प्रणतं मुनिरादिशत् ॥
लक्ष्मीदत्तेन वणिजा सह पोतेन वारिधौ। गत्वा प्राप्स्यसि तामिष्टां कन्यां व्रज निराकुछः ॥
इति तद्वचसा प्रीतस्तं प्रणम्य स पार्थिवः। गच्छन्देशान्नदीरीन्क्रान्त्वा तं प्रापदम्बुधिम् ॥
सुतारशङ्कधवलैर्वीचिभृभिर्विकस्वरैः । वीक्षमाणमिवावर्तनेत्रैरातिथ्यसंभ्रमात् ॥
ततीरे वणिजा तेन मुनिप्रोक्न संगतिः । लक्ष्मीदतेन जज्ञेऽस्य स्वर्णद्वीपं यियासुना ॥
तेनैव सह चक्राङ्कपादमुद्रादिदर्शनात् । प्रद्रुणारुह्य बहनं प्रतस्थे सोऽम्बुधौ नृपः ॥
मध्यमध्धेश्च संप्राप्ते वहने वारिमध्यतः। उदगात्कल्पविटपिस्कन्धस्था सात्र कन्यका ॥
यावत्पश्यति तां राजा चकोर इत्र चन्द्रिकाम् । तावत्सा गायति स्मैवं वक्लकीवाद्यसुन्दरम् ॥
         यत्कर्मवीजमुप्तं येन पुरा निश्चितं स तदुक्तं ।
         पूर्वकृतस्य हि शक्यो विधिनापि न कर्तुमन्यथाभावः ॥
         तस्माद्यत्र यथा यद्भवितव्यं यस्य दैवयोगेन ।
         तत्र तथा तत्प्राप्त्यै विवशोऽसौ नीयतेऽत्र न भ्रान्तिः ॥
इति सूचितभव्यार्थी गायन्तीं तां विभावयन् । निःस्पन्दः ख क्षणं तस्थौ राजा स्मरशराहतः ॥
रनाकर नमः सत्यमगाधहृदयाय ते । येन त्वयैतां प्रच्छाद्य विप्रलब्धो हरिः श्रिया ॥
तत्सुरैरप्यलभ्यान्तं सपक्षक्ष्माभृदश्रयम् । शरणं त्वां प्रपन्नोऽहमिष्टसिद्धिं विधरस्व मे ॥
एवं यावत्समुद्रे तं स नतः स्तौति भूमिपः । तावत्सा कन्यका तत्र निममज्ज सपापा ॥
तदृचैवानुमानेऽस्याः स राजात्मानमक्षिपत् । वारिधावत्र कामाग्निसंतापस्येव शान्तये ॥
तीक्ष्याशङ्कितं मत्वा विनष्टं तं स सज्जनः । लक्ष्मीदत्तो वणिग्दुःखाद्देहत्यागोद्यतोऽभवत् ॥
मा कार्षीः साहसं नास्ति सन्नस्यास्याम्बुधौ भयम् । एष राजा यशःकेतुर्नाम्ना तापसवेषभृत् ॥
एतत्कर्यार्थमायातः पूर्वभार्येयमस्य च। एतां प्राप्य पुनश्चासावङ्गराज्यं समेष्यति ॥
इत्यथाश्वासितो वाचा तत्कालं गगनोत्थया । सार्थवाहो यथाकामं स जगामेष्टसिद्धये ॥
स राजापि यशःकेतुर्निमनोऽन्तर्महोदधौ । अकस्मान्नगरं दिव्यमपश्यज्जातविस्मयः ॥
भास्वन्मणिमयस्तम्भैः कचनोज्ज्वलभित्तिभिः । विराजमानं प्रासादैर्मुक्ताजालगवाक्षकैः ॥
नानारत्नशिलापट्टबद्धसोपानवापिकैः। कामदैः कल्पवृक्षाद्यैरुद्यानैरुपशोभितम् ॥
समृद्धेऽपि पुरे तत्र निर्जनेऽथ गृहं गृहम् । अनुप्रविश्य न यदा तां ददर्श प्रियां क्कचित् ॥
तदा विचिन्वन्द्वैकमुतुङ्गं मणिमन्दिरम् । आरुह्य द्वारमुद्धाट्य प्रविवेश स भूपतिः ॥
प्रविश्य चान्तः सद्रत्नपर्यङ्कस्थितमेककम् । वस्त्राच्छादितसर्वाङ्गं शयानं कंचिदैक्षत ॥
किं स्यात्सैवेति सोत्कण्ठमुद्धाटयति तन्मुखम् । यावत्तावपश्यतां स्वेप्सितामेव सोऽङ्गनाम् ॥
स्रस्तनीलांशुकध्वान्तहसन्मुखशशिश्रियम् । ज्योत्स्नवदतां पातालगतामिव दिवा निशम् ॥
तद्दर्शनेन चास्याभूदवस्था कापि सा तदा । श्रीमतं मरुपान्थस्य सरित्संदर्शनेन या ॥
साप्युन्मीछितचक्षुस्तं कल्याणाकृतिळऋणम् । वीक्ष्याकस्मात्तस्थाप्राप्तं संभ्रमाच्छयनं जहै॥
कृतातिथ्या नतमुखी पूजयन्तीव पदयोः । फुलेक्षणोत्पलन्यासैः शनैरेतमुवाच च ॥
को भवान्किमगम्यं च प्रविष्टोऽसि रसातळम् । राजचिह्नाङ्किततनोः किं च ते तापसव्रतम् ॥
इत्यादिश महाभाग प्रसादो यदि ते मयि । एवं तस्या वचः श्रुत्वा स राजा प्रत्युवाच ताम् ॥
अङ्गराजो यशःकेतुरिति नाम्नास्मि सुन्दरि । आप्तादन्वह दृश्यां च त्वामश्रेषमिहाम्बुधौ ॥
ततरत्वदर्थं कृत्वेमं वेषं राज्यं विमुच्य च । आगत्यैव प्रविष्टोऽहमनुमार्गेण तेऽम्बुधिम् ॥
तन्मे कथय कासि त्वमित्युक्ते तेन चाथ स। सलज्जा सानुरागा च सानन्दा चैवमभ्यधात् ॥
मृगाङ्कसेन इत्यस्ति श्रीमान्विद्याधराधिपः। मां मृगाङ्कवतीं नाम्ना विद्धि तस्य सुतामिमाम् ॥
स मामस्मिन्स्वनगरे विमुच्यैकाकिनीं पिता । न जाने हेतुना केन गतः कापि सपौरकः ॥