पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रङ्गः २३ ।]
४४१
शशाङ्कवतीलम्बुकः १२ ।

शिनानुगतः सख्या तरुणद्विजरूपिणा । आगत्य तं यशःकेतुं प्रह्रो राजानमब्रवीत् ॥ १०१
नीतोऽयं मया पुत्रो देहि मे तां स्नुषामिति । ततः संमद्य स नृपः शापभीतस्तमभ्यधात् ॥ १०२
हान्न जाने क गता सा नु ते क्षमस्व तत् । अपराधासुतस्यार्थे वदामि स्वसुतां तव ॥ १०३
युक्त्वा धूर्तराजं तं कृतक क्रोधनिप्पुरम् । विब्रुवाणं जरद्विप्ररूपं प्रार्थे स भूपतिः ॥ १०४
इसख्ये कृततत्पुत्रव्यपदेशाय तां ददौ । तनयां शशिने तस्मै यथाविधि शशिप्रभाम् ॥ १०५
त: स मूलदेवस्तौ यथाभूतौ वधूवरौ । आद्य स्वास्पदं प्रायाद्राजार्थेष्वकृतस्पृहः ॥ १०६
न तस्मिश्च मिलिते मनःस्वामिन्यभून्महान् । विवादो मूलदेवाग्रे शशिनस्तस्य चोभयोः ॥ १०७
स्वाम्यब्रवीदेषा दीयतां से शशिप्रभा । कन्यैव हि मयोदूढ़ा प्रागसौ गुर्वनुग्रहात् ॥ १०८
शी जगाद कोऽस्यास्त्यं मूर्छ दारा इयं मम । अग्निसाक्षिकमेषा हि पित्रा में प्रतिपादिता ॥ १०९
बं मायाबळप्रप्तराजपुत्रीनिमित्ततः । विवादासक्तयोर्नासीत्परिच्छेदस्तयोर्दूयोः ॥ ११०
द्राजंस्त्वं मम ब्रूहि तावकस्योपपद्यते । भार्या सा संशयं छिन्द्धि पूर्वोक्तः समयोऽस्ति ते ॥ १११
त वेतालतः श्रुत्वा तस्मात्स्कन्धश्रवर्तिनः । स त्रिविक्रमसेनस्तं नृपतिः प्रत्यभाषत ॥ ११२
ये शशिन एवासौ भार्यां न्याय्या नृपात्मजा । यस्मै प्रदत्ता प्रकटं पित्रा धर्येण वर्मना ॥ ११३
नस्वामी तु तां भेजे चौर्याद्गन्धर्वधर्मतः । चैौरस्य तु परस्वेषु स्वत्वं न्याय्यं न जातुचित् ॥ ११४
इति तस्य वचो निशम्य राज्ञो वेतालः स ययौ पुनस्तदेव ।
सहसैव तदंसतः स्वधाम क्षितिपः सोऽपि तमन्वियाय तूर्णम् ॥ ११५

इति महाकत्रिश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलयके द्वाविंशस्तरङ्गः


_____


त्रयोविंशस्तरङः


(षोडशो वेतालः)


५ गत्वा पुनः स्कन्धे बेतालं शिंशपाङ्गमात् । स त्रिविक्रमसेनस्तमाद्योदचलत्ततः ॥ १
गच्छन्तं च तं भूपं स वेतालोऽब्रवीत्पुनः । राजगृणु कथामेकामुद्रां कथयामि ते ॥ २
स्तीह हिमवान्नाम नगेन्द्रः सर्वरत्नभूः । यो गौरीगङ्गयोस्तुल्यः प्रभवो हरकान्तयोः ॥ ३
रासंस्पृष्टपृष्ठश्च यो मध्ये कुलभूताम् । अभिमानोन्नतः सत्यं गीयते भुवनत्रये ॥ ४
यास्ति सानुन्यन्वर्थं तत्काञ्चनपुरं पुरम् । न्यासीकृतमिवार्केण रश्मिवृन्दं विभाति यत् ॥ ५
मूतकेतुरित्यासीत्तस्मिन्पुरवरे पुरा । विद्याधरेश्वरः श्रीमान्मेराविव शतक्रतुः ॥ ६
आसीत्स्वगृहोद्याने कल्पवृक्षोऽन्वयागतः । यथार्थनामा प्रथितो यो मनोरथदायकः ॥ ७
प्राथै देवतात्मानं स राजा तत्प्रसादतः । प्राप जातिस्मरं पुत्रं बोधिसत्वांशसंभवम् ॥ ८
नवीरं महासत्त्वं सर्वभूतानुकम्पिनम् । गुरुशुश्रूषणपरं नाम्ना जीमूतवाहनम् ॥ ९
प्रप्तयौवनं तं च यौवराज्येऽभिषिक्तवान् । तनयं प्रेरितः सद्भिस्तदृणैः सचिवैश्च सः ॥ १०
वराज्यस्थितश्चैष जातु जीमूतवाहनः । हितैषिभिरुपागत्य जगदं पितृमत्रिभिः ॥ ११
प्र कल्पतरुर्योऽयमतिं वः सर्वकामदः। अधृष्यः सर्वभूतानां सैष पूज्यः सदा तव ॥ १२
स्मिन्सति हि शक्रोऽपि बाधेतास्मान्कुतोऽपरः । एतच्छुत्वा स जीमूतवाहनोऽन्तरचिन्तयत् ॥ १३
हो बतेद्दशमिमं संप्राप्यामरपादपम् । नसादितं किमप्यस्मात्पूर्वेर्नस्तादृशं फलम् ॥ १४
अलं कैश्चिदप्ययैरर्थितैः कृपणोचितैः। आत्मा चैष महत्मा च नीतौ द्वावपि लाघवम् ॥ १५
इदं खाधयिष्यामि काममस्मान्मनोगतम् । इति निश्चित्य स ययौ महासत्त्वोऽन्तिकं पितुः ॥ १६
त्र संविहिताशेषशुश्रूषापरितोषितम् । सुखासीनं तमेकान्ते पितरं स व्यजिज्ञपत् ॥ १७
त त्वमेव जानसि यदेतस्मिन्भवाम्बुधौ । आशरीरमि सर्वं वीचिविभ्रमचयलम् ॥ १८
शेषेणाचिरस्थायिप्रकाशप्रविलायिनी । संध्या विद्युच लक्ष्मीश्च दृष्टा कुत्र कदा स्थिरा ॥ १९