हा कारुणिक हा वत्स परार्थप्रत्तजीवित । ह। कथं वैनतेयेदमविमृश्य कृतं त्वया ॥ १७६
एतच्छुत्रैव तादर्थोऽत्र सोऽनुतप्तो व्यचिन्तयत् । हा कथं बोधिसत्वांशः समोह लक्षितो मया ॥ १७७
जीमूतवाहनः सोऽयं परार्थप्राणदायकः । यस्य भ्रमति कृत्स्त्रेऽस्मिस्त्रैलोक्ये कीर्तिघोषणा ॥ १७८
तन्मे मृतेऽस्मिन्पापस्य प्राप्तमग्निप्रवेशनम् । अधर्मविषवृक्षस्य पच्यते स्वादु किं फलम् ॥ १७९
इति चिन्ताकुले ताक्ष्यै दृष्ट्वा बन्धून्निपत्य सः । व्रणव्यथायां पञ्चत्वं प्राप जीमूतवाहनः ॥ १८०
ततो विलंपतोस्तत्र तत्पित्रोः शोकदीनयोः । उस्क्रुश्य मुहुरामानं शङ्कचूडे च निन्दति ॥ १८१
भार्या मलयवत्यस्य नभो दृष्ट्वाश्रुगद्गदम् । पूर्वप्रसन्नां वरदामित्युपालभताम्बिकाम् ॥ १८२
विद्याधराधिपो भाविचक्रवर्ती पतिस्तव । भवितेत्यहमादिष्टा देवि गौरि तदा त्वया ॥ १८३
तन्मिथ्यावादिनी जाता त्वमप्यसि कथं मयि । इत्युक्तवत्यां तस्यां सा गौरी प्रत्यक्षतामगात् ॥ १८४
न मे मिथ्या वचः पुत्रीत्युक्त्वा सा स्वकमण्डलः। अमृतेनाशु जीमूतवाहनं सिध्यति स्म तम् ॥ १८५
तेन खोऽक्षतसर्वाङ्गः पूर्वाधिकतरद्युतिः । जीवन्सद्यः समुत्तस्थौ कृती जीमूतवाहनः ॥ १८६
उत्थितं प्रणतं तं च सर्वेषु प्रणमत्सु सा । उवाच देवी तुष्टास्मि देहदानेन तेऽमुना ॥ १८७
तदेषा त्वाभिषिञ्चमि पुत्रात्मीयेन पाणिना । विद्याधराणामाकरपं चक्रवर्तिपदेऽधुना ॥ १८८
एवं वदन्ती जीमूतवाहनं कलशाम्बुभिः । तमभ्यषिञ्चच्छचणी पूजिता च तिरोदधे ॥ १८९
निपेतुश्चात्र तत्कालं दिव्याः कुसुमवृष्टयः। नन्ति स्म च सानन्दं देवदुन्दुभयो दिवि ॥ १९०
अथोवाच स तं प्रहस्ताक्ष्ये जीमूतवाहनम् । चक्रवर्तनहं प्रीतः पुरुषातिशये त्वयि ॥ १९१
अपूर्वादारमतिना त्रिजगतकौतुकावहम् । ब्रह्माण्डभित्तिलिखितं येन चिन्नमिदं कृतम् ॥ १९२
तन्मां प्रशाधि मत्तश्च शृणुष्वाभीप्सितं वरम् । इत्युक्तवन्तं गरुडं महासत्त्वो जगाद सः ॥ १९३
न भक्ष्याः सानुतापेन भूत्वा नागाः पुनस्त्वया । तेऽप्यस्थिशेषा जीवन्तु ये त्वया पूर्वभक्षिताः॥ १९४
एवमस्तु न भोक्ष्येऽहं नागाञ्शान्तमतः परम् । प्राग्ये च भुक्तास्ते जीवन्त्विति तादर्थोऽध्युवाच सः ॥ १९५
ततोऽस्थिशेषा येऽप्यासन्नागास्तत्पूर्वभक्षिताः। तेऽपि सर्वे समुत्तस्थुस्तद्वरामृतजीविताः॥ १९६
सुरैर्नागैर्मुनिगणैः सानन्दैर्मिलितैरथ । स लोकत्रितयाभिख्यामुवाह मलयाचलः ॥ १९७
तत्कालं ते च जीमूतवाहनोदन्तमद्भुतम् । गैौर्याः प्रसादाद्वित्रिदुः सर्वे विद्याधरेश्वराः ॥ १९८
आगत्य ते च चरणावनता हिमाद्रिं निन्युः क्षणान्मुक्तिबन्धुसुहृत्समेतम् ।
तं पार्वतीस्वकरलुप्तमहाभिषेकं सच्चक्रवर्तिनमथ प्रतिमुक्ततार्यम् ॥ १९९
तत्र स पित्रा मात्रा मित्रावसुना च मलयवत्या च ।
निजगृहगतागतेन च संयुक्तः शचूडेन ॥ २००
लोकोत्तरचरिताद्भुतसिद्धां जीमूतवाहनः सुचिरम् ।
अभजत रत्नोपचितां विद्याधरचक्रवर्तिधुरम् ॥ २०१
इत्यत्युदरसरसामाख्याय कथां तदा स वेताळः।
पुनरेव तं त्रिविक्रमसेनं पप्रच्छ राजानम् ॥ २०२
तद्रुहि. शङ्कचूडः किं वा जीमूतवाहनोऽभ्यधिकः।
सत्वेन तयोरुभयोः पूर्वोक्तश्चात्र समयस्ते ॥ २०३
इत्यस्माद्रेतालाच्छुत्वा मौनं विहाय शापभयात् ।
तमुवाच स त्रिविक्रमसेनो नृपतिर्निरुद्वेगः ॥ २०४
बहुजन्मसिद्धमेतञ्चित्रं जीमूतवाहनस्य कियत् ।
लाघ्यः स शब्द्धचूडो मरणोत्तीर्णाऽपि यो रिपवे ॥ २०५
अन्यप्रत्तात्मानं प्राप्य सुदूरं गताय तार्याय ।
पश्वाद्धावन्गत्वा स्वं देहमुपानयत्प्रसभम् ॥ २०६
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३४६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४६
[ आदितस्तरङ्गः ९० ।
कथासरित्सागरः ।