पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ आदितस्तरङ्गः ९२ ।
कथासरित्सागरः ।

अलं संतष्य भजसे स्वाधीनां तार्ह किं न ताम् । इत्युक्तस्तैश्च नैवैतदनुमेने स धार्मिकः ॥ ३४
ततो बळ्धरो बुद्धा स सेनापतिरेत्य तम् । प्रभुमभ्यर्थयामास सद्भक्तश्चरणानतः ॥ ३५
दासस्त्री तव दास्यैव सा देव न पराङ्गना । स्वयं चाहं प्रयच्छामि तद्रथं स्वीकुरु व मे ॥ ३६
अथवा तां त्यजामीह देव देवकुले ततः। न दोषो ग्रहणे तस्यास्तव देवकुलस्त्रियः ॥ ३७
इति स्वसेनापतिना निर्बन्धेन स पार्थिवः । तेनानुनाथ्यमानोऽपि सान्तःकोपमुवाच तम् ॥ ३८
राजा भूत्वा कथं कुर्यामधर्ममहमीदृशम् । मय्युल्लङ्घितमर्यादे को हि तिष्ठेत्स्वधर्मनि ॥ ३९
भक्तोऽपि च भवान्पापे नियोजयति मां कथम् । परलोकमहदुःखहेतौ क्षणसुखावहे ॥ ४०
न क्षमिष्ये च ते धर्यान्दारान्यदि विहायसि । सहते मादृशः को हि तादृशं धर्मविप्लवम् ॥ ४१
तद्वरं मृत्युरित्युक्त्वा स राजा निषिषेध तम् । त्यजन्त्युत्तमसरवा हि प्राणानपि न सत्पथम् ॥ ४२
तथैवार्थयमानांश्च पौरजानपदानपि । मिलितान्स निराचक्रे राजा सुदृढनिश्चयः ॥ ४३
ततः क्रमेण तेनैव स्मरज्वरभरोष्मणा । प्रक्षीणदेहः प्रययौ स यशःशेषतां नृपः ॥ ४४
सेनापतिश्चासहिष्णुतं तथा प्रमयं प्रभोः। सोऽनिं विवेश भक्तानामनिर्वाच्यं हि चेष्टितम् ॥ ४५
इत्याख्यातकथाश्रयं वेतालोंऽसस्थितस्तदा । स त्रिविक्रमसेनं तं भूयः पप्रच्छ पार्थिवम् ॥ ४६
तदेतयोः को नृपते सेनापतिमहीभृतः । सत्वेनाभ्यधिको ब्रूहि पूर्वोक्तः समयश्च ते ॥ ४७
इति वेतालतः श्रुत्वा मुक्तमौनः स तं नृपः । प्रत्युवाच द्वयो रोजा। सत्ववनधिकस्तयोः ॥ ४८
तदाकण्यैव वेतालः साक्षेपस्तमभाषत । सेनापतिः कथं नात्र राजन्नभ्यधिको वद ॥ ४९
यस्तथा स्वामिने भक्त्या स्वभार्या तां तथाविधाम् । सुचिरज्ञाततलोगसुखास्वादोऽप्युपानयत् ॥ ५०
आत्मानं चाग्निसाञ्चक्रे तस्मिन्पञ्चत्वमागते । अनास्वादिततद्भोगस्तत्कान्तां तु जहौ नृपः ॥ ५१
बेतालेनैवमुक्तस्तु विहस्य स नृपोऽब्रवीत् । यद्यप्येवं तथाप्येताकि चित्रं कुलपुत्रकः ॥ ५२
सेनापतिः स भक्या यत्स्वाम्यर्थे तत्तथाकरोत् । प्राणैरपि हि भृत्यानां स्वामिसंरक्षणं व्रतम् ॥ ५३
राजानस्तु मदाध्माता गजा इव निरङ्कुशाः । छिन्दन्ति धर्ममर्यादाष्टकलां विषयोन्मुखाः ॥ ५४
तेषां ऋद्रिक्तचित्तानामभिषेकाम्बुभिः समम् । विवेको विगळत्योघेनोह्यमान इवाखिलः ॥ ५५
क्षिष्यन्त इव चोद्य चलच्चामरमारुतैः । वृद्धोपदिष्टशास्त्रार्थरजोमशकमक्षिकाः ॥ ५६
आतपत्रेण सयं च सुयलोको निवार्यते । विभूतिवात्योपहता दृष्टिर्माणं च नेक्षते ॥ ५७
ते ते च विपदं प्राप्ता मारमोहितचेतसः । जगद्विजयिनोऽपीह राजानो नहुषायः ॥ ५८
एष राज पुनः पृथ्व्यामेकच्छत्रोऽपि यत्तया । उन्मादिन्या चपलाया लक्ष्म्येव न विमोहितः ॥ ५९
प्राणानपि स धर्मात्मा तस्याज न पुनः पदम् । अमार्गे निदधे धीरस्तेनासौ मेऽधिको मतः ॥ ६०
               इत्याकण्ये नृपस्य तस्य वचनं भूयस्तदंसस्थळ-
               द्वैतालः सहसा स्वमेव स पदं मायप्रभावाद्ययौ ।
               राजाप्यन्वसरत्तथैव स पुनः संप्रातुमेतं जवा
               दारव्धे हि सुदुष्करेऽपि महतां मध्ये विरामः कुतः ॥ ६१

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्यके चतुर्विंशस्तरः ।


_____


पञ्चविंशस्तरङ्गः


( अष्टादशो वेतालः ।)


ततः पितृबने तस्मिन्क्रव्यभक्षिभिरावृते । ज्वालाविलोलरसनैर्भूतैरिव चिताग्निभिः ॥ १
गवैव तस्यामक्षोभ्यः क्षपायां शिंशपातरुम्। स त्रिविक्रमसेनस्तमाससाद पुननृपः ॥ २
तत्रापश्यच्च वेताविकृतान्सदृशाकृतीन् । उल्लम्बमानान्सुबहून्प्रेतकायानशङ्कितम् ॥ ३
अहो किमेतकिवान्यन्मायी काढं क्षिपययम् । वेतालो मे न वेइयेषां प्राप्तुं येनेह भूयसाम् ॥ ४