पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७०
[ आदितस्तरङ्ग
कथासरित्सागरः ।

सहागतमृगैः श्वङ्गप्रोखात स्नानमृत्तिकः । युक्तः कतिपयैरन्यैः समानैर्मुनिपुत्रकैः ॥
सोऽस्मानुपागाह्वयैव सरः प्रपतनोद्यतान् । करुणार्दा हि सर्वस्य सन्तोऽकारणबान्धवाः ॥
अवदच्च न कार्यं वः पापं कापुरुषोचितम् । दुःखान्धा हि पतन्त्येव विपकुंभेषु कातराः ॥
धीरास्तु दृष्टसन्मार्गी विवेकामलचक्षुषः । न पतन्यवटे प्राप्यमवश्यं प्राप्नुवन्ति च ॥
यूयं च भव्याकृतयः कल्याणं प्राप्स्यथ ध्रुवम् । तडूत किं नु दुःखं वो मानसं दूयते हि मे ॥
एवमुक्तवते तस्मै मुनिपुत्राय तत्क्षणम् । आमूलान्निजवृत्तान्तं सर्वं कथितवानहम् ॥
ततस्तेन वयं तैस्तैर्वाक्यैरायतिदर्शिभिः । संबोध्य सानुगेनापि देहत्यागान्निवर्तिता ॥
अथ स्नात्वा ततो नातिदूरं स मुनिपुत्रकः । अस्माननैषीदातिथ्यं विधित्सुः पितुराश्रमम् ॥
तत्रोच्चशाखोर्वभुजैर्वेदिकासूत्थितस्थितैः । प्रारब्धतपसीबार्करश्मिपैः पादपैरपि ॥
उपवेश्यैकदेशेऽस्मान्दत्ताध्यन्स मुनेः सुतः । एकैकमाश्रमतर्र गत्वा भिक्षामयाचत ॥
अपूर्यत क्षणात्तस्य फलैस्तेभ्यः स्वतयुतैः। भिक्षापात्रमथागात्ततृहीत्वा सोऽस्मदन्तिकम् ॥
अदाच दिव्यास्वादानि तान्यस्मभ्यं फलनि सः । यैर्मुक्तैरमृतेनेव तृप्ता जाता वयं तदा ॥
क्षीणेऽह्नि चाब्धौ पतिते सूर्ये ज्योतिर्भिरम्बरे । तरपातोच्छलितैरम्भःशीकरैरिव पूरिते ॥
तद्वैराग्यादिव प्राचीशैलङ्गतपोवनम् । संवीत चन्द्रिकाधौतवल्कले शशिनि श्रिते ॥
एकस्थानोपविष्टानां कृताशेषकर्मणाम् । मुनीनामाश्रमे तत्र दर्शनाय गता वयम् ॥
प्रणिपत्योपविष्टाश्च कृतातिथ्यैः प्रियंबदैः । कुतो यूयमिति क्षिप्रास्पृष्टाः स्मस्तैर्महर्षिभिः ॥
ततो मुनिकुमारेण तेन तेभ्यो निवेदितः । तदश्रमप्रवेशन्तो वृत्तान्तोऽस्मन्निबन्धनः ॥
अथास्मानत्र कण्वाख्यो ज्ञानी मुनिरभाषत । किमेवं बीरपुरुषा अपि लैब्यं गताः स्थ भोः ॥
आपद्यभन्नधैर्ययं संपद्यनभिमानिता । यदुत्साहस्य चत्यागस्तद्धि सत्पुरुषव्रतम् ॥
महान्तश्च सहान्येव कृच्छ्ाण्युत्तीर्य धैर्यतः । महतोऽर्थान्समासाद्य महच्छब्दमवाप्नुवन् ॥
इयं सुन्दरसेनस्य तथा च श्रूयतां कथा । यथा मन्द्रवत्यर्थे क्लेशस्तेनान्वभूयत ॥
इत्युक्त्वा स मुनिः कण्वः सर्वेष्वत्र महर्षिषु । अस्मासु चोपश्चण्वसु कथमेतामवर्णयत् ॥
अस्यलंकृतकौबेरीदिङ्मुखो निषधाभिधः। देश स्तत्त्रालका नाम बभूव नगरी पुरा ॥
यस्यां सदैव सर्वार्थसमृद्धिसुखितो जनः । केवढं रत्नदीपानामासीच्छश्वदनिर्युतिः ॥
तस्यामन्वर्थनामाभून्महसेनो महीपतिः। शरजन्माङ्गताप्युग्रप्रतापप्लुष्टशात्रवः ॥
तस्य राज्ञो महामन्त्री गुणपालित इत्यभूत् । शौर्यालयो महीभारवोढा शेष इवापरः ॥
तस्मिन्नयस्तभरस्यास्य सुखिनः क्षपितद्विषः। देव्यां शशिप्रभाख्यायामुत्पेदे नृपतेः सुतः॥
नाम्ना सुन्दरसेनो यः शिशुरेवाशिशुर्गुणैः। शौर्यसैौन्दर्यलक्ष्मीभ्यां स्वयंवरपतिर्युतः ॥
तस्य राजसुतस्यात्र शूरास्तुल्यवयोगुणाः । आ बाल्यात्सह संवृद्धा बभूवुः पश्च मत्रिणः ॥
चण्डप्रभो भीमभुजस्तथा व्याघ्रपराक्रमः । वीरो विक्रमशक्तिश्च दृढबुद्धिश्च पञ्चमः ॥
ते च सर्वे महासत्त्वा बलबुद्धिसमन्विताः । कुलीनाः स्वामिभक्ताश्च रुतज्ञा अपि पक्षिणाम् ॥
तैः समं स उवासात्र राजपुत्रः पितुगृहे । अनुरूपां विना भार्या तरुणोऽप्यपरिग्रहः ॥
अनम्राक्रसणं शौर्यं धनं निजभुजाजितम् । भार्या रूपानुरूपा च पुरुषस्येह पूज्यते ॥
अन्यथा तु किमेतेन त्रयेणापीत्यचिन्तयत् । स च सुन्दरसनोऽथ वीरस्तैः सचिवैः सह ॥
एकदा चान्वितः सैन्यैर्वयस्यैस्तैश्च पञ्चभिः। निर्ययौ मृगयाहेतोर्नगर्याः स नृपात्मजः ॥
निर्यान्तं च दशैतं दूरदेशान्तरागता । कापि कात्यायनी नाम प्रौढा प्रव्राजिकोत्तमा ॥
अरोहिणीकश्चन्द्रोऽयं किं वाप्यरतिकः स्मरः। इति चामानुषं वीक्ष्य तद्भयं सा व्यचिन्तयत् ॥
बुद्ध च राजपुत्रं तं पृष्टात्तपरिवारतः। धातुः सा सर्गवैचित्र्यं प्रशंसन्ती विसिस्मिये ॥
अथारात्तारवीर्येण राजपुत्रं स्खेरण तमू । कुमार विजयस्वेति वदन्ती प्रणनाम सा ॥