द्वित्रेष्वहःसु यातेषु गच्छतोश्वायुधौ तयोः । अकस्मादुद्भूत्तत्र महानुत्पातमारुतः ॥
अहो वायुरपूर्वोऽयमित्याश्चर्यवशादिव । व्याघूर्णन्ते स्म जलधेस्तटेषु वनराजयः ॥
व्यत्यस्ताश्च मुहुर्वातादधरोत्तरतां ययुः। वारिधेर्बारिनिचया भावाः कालक्रमादिव ॥
आक्रन्देन समं दत्ते रत्नैरर्थे महाब्धये । प्रयत्नेन सहपास्ते कर्णधारैर्मरुस्पटे ॥
मुक्तासु जीविताशाभिः सह सर्वैः ससंभ्रमैः। शिलासु ष्ठङ्गळाबद्धास्वतिगुर्वीषु सर्वतः ॥
तरङ्गरोत्क्षिप्तविक्षिप्ते नागबन्धैरिवाम्बुधौ । प्रप्रेमतुः प्रवहणे प्रयुद्ध इव ते उभे ॥
ततः सुन्दरसेनस्तदृष्ट्या धैर्यादित्रासनात् । चलितस्तमुवाचेदं सहेन्द्रादित्यभूपतिम् ॥
ममापुण्यैरकाण्डे वः प्रळयोऽयमुपस्थितः । तन्न शक्नोम्यहं द्रष्टुं क्षिपाम्यात्मानमम्बुधौ ॥
इत्युक्त्वा स्वोत्तरीयेण बद्ध परिकरं हुतम् । स राजपुत्रो जलधौ तत्रात्मानमपातयत् ॥
तद्वा तद्वयस्यास्ते पञ्च चण्डप्रभादयः । महेन्द्रादित्यसहितास्तत्रैवात्मानमक्षिपन् ॥
बाहुभ्यां च तरन्तस्ते नदीनं गतसंभ्रमाः । सर्वेऽपीतस्ततो जग्मुर्विक्षिप्त वीचिवेगतः ॥
क्षणाच्च शान्ते पवने निःशब्दस्तिमितोऽम्बुधिः। दधौ प्रशान्तकोपस्य सज्जनस्य समनताम् ॥
तावच्च वातेन कुतोऽप्यानीतां यानपात्रिकाम् । प्राप सुन्दरसेनोऽत्र सहितो दृढबुद्धिना ॥
तामारुरोह चैकेन समं तेन स्वमत्रिणा । स जीवितप्रमययोरन्तदळामिवापराम् ॥
ततो दिशमजानानः पयोमयमिवाखिलम् । प्रभ्रष्टपौरुषः पश्यन्देवताशरणस्तदा ॥
नवा मन्दानुकूलेन दैवेनेव नभस्वता । संप्रयमाणया तीरं प्रापितोऽभूत्रिभिर्दिनैः ॥
ततस्तीरविलग्नायां तस्यामात्मद्वितीयकः । स्थलं च जीविताशां च ससमध्यारुरोह सः ॥
तत्रस्थश्च समाश्वस्य दृढबुद्धिर्मभाषत । उत्तीर्णाऽप्यम्बुधेरस्मि पातालाद्ष्यधो गतः ॥
यतो विक्रमशक्तिं तं तं च व्याघ्रपराक्रमम् । चण्डप्रभं भीमभुजं खचिवांस्तांस्तथाविधान् ॥
महेन्द्रादित्यनृपतिं तं चाकारणबान्धवम् । विनाश्य सर्वानधुना का शोभा जीवितेन मे ॥
इत्युक्तवन्तं तं मन्त्री दृढबुद्धिर्जगाद सः। देव धैर्यं गृहाण त्वं जाने कल्याणमस्ति नः ॥
यथा ह्यावां तथा तेऽपि तरेयुर्जातु वारिधिम् । शक्या हि केन निश्चेतुं दुर्जाना नियतेर्गतिः ॥
इत्यादि तत्तद्यावत्तं दृढबुद्धिर्जेवीति सः। तावजग्मतुस्तत्र स्नानार्थं तापसावुभौ ॥
तौ विलोक्य विषण्णं तं राजपुत्रमुपेत्य च । परिपृच्छय च वृत्तान्तं साधू सयमूचतुः ॥
सुमते नान्यथाभावं बलिनः पूर्वकर्मणः । अपि देवाः क्षमः कर्तुं सुखदुःखप्रदायिनः ॥
हातुमिच्छन्नतो दुःखं धीरः सुकृतमाचरेत् । सा हि प्रतिक्रिया तस्य न शोकः शातनस्तनोः ॥
तद्विषादं जहीहि त्वं शरीरं रक्ष धैर्यतः । शरीरे सति को नाम पुरुषार्थो न सिध्यति ॥
कल्याणलक्षणश्वासि भाठ्यवश्यं शुभं तव । इत्युक्त्वा तौ समाश्वास्य निन्यतुः स्वाश्रमं मुनी ॥
तत्र कांश्चिच दिवसान्प्रतीक्षन्स नृपात्मजः तस्थौ सुन्दरसेनोऽथ दृढबुद्धिसमन्वितः ॥
अत्रान्तरे च तन्मां दोभ्यं भीमभुजोऽम्बुधिम् । तीर्वा विक्रमशक्तिश्च द्वौ पृथक्प्रापतुस्तटम् ॥
अस्मद्वदुत्तरेज्जातु सोऽपीत्याशावशाच तौ । महाटवीं विविशतुश्चिन्वानौ दुःखमोहितौ ॥
शेषौ तत्सचिवौ चण्डप्रभव्याघ्रपराक्रमौ । राजा महेन्द्रादित्यश्च तथैवोत्तीर्यं वारिधिम् ॥
आर्ताः सुन्दरसेनं तमन्विष्याप्राप्य दुःखिताः । अलब्धभन्नवहनास्तच्छशाङ्कपुरं ययुः ॥
ततस्तौ मंत्रिणौ तत्र तच्च प्राक्स्थापितं बलम् । रुदन्तो ज्ञातवृत्तान्ता ययुः स्वामलकां पुरीम् ॥
प्रामेष्वराजतनयेष्वनुशोचत्सु तेषु सा । आक्रन्दैकमयी जज्ञे पुरी प्ररुदितप्रजा ॥
महासेननृपश्चात्र सदेवीको निशम्य तत् । सुतोदन्तं न यत्प्राणैर्जहे तद्ळमायुषः ॥
देहत्यागोद्यतं तं च सदेवीकं न्यवारयन् । सचिवा वचनैस्तैस्तैर्दर्शिताशोपपत्तिभिः ॥
ततः स नगरीबारे स्वयंभ्वायतने नृपः। सूनोः प्रवृत्तिं चिन्वानस्तपस्यन्नास्त सानुगः ॥
तावन्मन्दारदेवोऽपि दैत्रीपे स भूपतिः । जामासुर्मुहितुधाब्धिपातोदन्तमबुध्यत ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३७६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७४
[ आदितस्तरङ्ग
कथासरित्सागरः