दृढबुद्ध्यादीन्प्रणतान्पुत्रमव्रणः । ततोऽधिकं सोऽभ्यनन्दद्विन्ध्यकेतुं च तं नृपः ॥ ३७०
रिसेनोऽपि पित्रा तेन निवेदितम् । नत्वा मन्दारदेवं तं श्वशुरं मुमुदे परम् ॥ ३७१
बंगतौ चण्डप्रभव्याघ्रपराक्रमौ। दृष्टाङ्गिळग्नौ सचिवौ पूर्णान्मेने मनोरथान् ॥ ३७२
त्र सोऽप्यागान्महेन्द्रादित्यभूपतिः। शशाङ्कपुरतः प्रीत्या श्रुतवृत्तान्तहर्मुखः ॥ ३७३
अथ तैः समं समैः सुन्दरसेनः स राजसुतः।
नडकूबर इव रम्भां मन्दारवतीं वहन्दयिताम् ॥ ३७४
अलकापुरीमयासीन्निजवसतिं वाहनोत्तमारूढः।
सकळसमृद्धिनिकेतनभूमिं भूयिष्ठपुण्यजनाम् ॥ ३७५
ां च वातायनसंश्रिताभिनेत्रोत्पलैः पौरजनाङ्गनाभिः।
आकीर्यमाणः प्रियया समेतः स राजधानीं स्वपितुर्विवेश ॥ ३७६
आनन्दबाष्पाकुललोचनायाः प्रणम्य मातुश्चरण च तत्र ।
स राजपुत्रोऽखिलबन्धुभृत्यबद्धोत्सवं तं दिवसं निनाय ॥ ३७७
अथापरेद्युर्गणकोपदिष्टे लग्ने स तस्याश्चिरकाङ्कितं तम् ।
जग्राह पाणिं जनकार्पिताया मन्दारवत्या नरनाथसूचुः॥ ३७८
ददौ च तस्मै श्वशुरो महाघीण्यपुत्रको मन्दरदेवभूपः।
रत्नानि भूयांसि निजं च राज्यं प्रीतः स्खदेहोत्तरकालभावि ॥ ३७९
चकार चेच्छाविभवानुरूपं पिता महसेननृपश्च तस्य ।
अदुधगं मोचितबन्धनौ महोत्सवं वृष्टहिरण्यवस्त्रम् ॥ ३८०
दृष्ट्वाथ मन्दारवतीसमागमात्कृतार्थतां सुन्दरसेनमागतम् ।
प्रमोदमासेव्य च तद्विवाही प्रगीतनृत्यन्निखिलाङ्गनागणम् ॥ ३८१
ययौ महासेनमहीभृताचितः स्वमण्डलं मन्दरदेवभूपतिः।
शशाङ्कपूर्व च पुरं स पार्थिवः स विन्ध्यकेतुश्च महाटवीपतिः ॥ ३८२
ततोऽत्र यातेषु दिनेषु सङ्गणं प्रजाप्रियं सुन्दरसेनमात्मजम् ।
अवेक्ष्य राज्ये च निवेश्य तं निजे वनं महासेननृपो जगाम सः ॥ ३८३
संप्राप्य राज्यमथ सुदरसेनदेवः सोऽपि स्वबाहुबलनिर्जितवैरिवर्गः ।
तैर्मन्त्रिभिः सह महीमखिलां शशास मन्दारवत्यधिगमप्रसरत्प्रमोदः ॥ ३८४
इति तत्र सरस्तीरे व्याख्याय कथां मृगाङ्कदत्ताय ।
स व्याघ्रसेननामा सचिवो निजगाद तं भूयः ॥ ३८५
एतत्स कण्वो मुनिराश्रमान्तः कथाद्भुतं वर्णितवान्प्रभो नः।
कथावसाने च दयालुरस्मानाश्वासयन्नेवमसाववोचत् ॥ ३८६
तपुत्रकाः सुविषमाणि दुरुत्तराणि कृच्छाणि धीरहृदयाः किल ये सहन्ते ।
ते प्राप्नुवन्ति परमित्थमभीप्सितानि नान्ये तु ये गलितसत्वविलुप्तचेष्टाः ॥८७
तस्मादिमां त्यजत विक्छवतां प्रयात युष्माकमप्यधिपतिः स मृगाङ्कदत्तः ।
संप्राप्तसर्वसचिवः सुचिरं पृथिव्यां राज्यं करिष्यति समेत्य शशाङ्कवत्या ॥ ३८८
इति तेन वयं महर्षिणोक्ता धृतिमालम्ब्य निशां च तत्र नीत्वा ।
चलितास्तत आश्रमादवाप्ताः क्रमशः काननमेतदध्वखिन्नाः॥ ३८९
इह चातितृषा क्षुधा च तप्ताः फलहेतोर्गणनाथवृक्षमेतम् ।
अधिरुह्य फलत्वमेव यातास्तपसा देव तवाद्य मोचिताः स्मः ॥ ३९०
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३८१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४ ।]
४७९
शशाङ्कवतीलम्बकः १२ ।