पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९०
[ आदितस्तरङ्ग
 

     अथ तत्परिभोगलीलयेव क्षपिताक्षीयत सा तयोस्त्रियामा ।
     विकसत्सुरतोत्सवाभिलाषप्रसरा प्रीतिरुपाययौ तु वृद्धिम् ॥
     गता निशा संप्रति देव मुच्यतां विलासशय्या सुरतक्छमच्छिदः ।।
     अमी हि चूर्णलककम्पदायिनो मृगीदृशां वान्ति निशान्तवायवः ॥
     चन्द्रं निशायाः सहसानुयान्या हारच्युतानीव च मौक्तिकानि ।
     दूर्वाबनानेष्ववपिण्डितानि स्फुरन्ति सच्छायमुषोजळानि ॥
     कोषेषु व्यलसन्निपीतमधवो ये कैरवाणां चिरं
     लब्धाभ्यन्तरसुस्थिता विकसतामिन्दुप्रभासंगमे ॥
     ते संकोचमुपागतेषु विगठEीकेषु तेष्वन्यतो
     भृङ्गः पश्य कुमार यान्ति मलिनाः कस्य स्थिरा झापदि ॥
     दिनकृकरमण्डिताधरामवलोक्यैव निशां मनोभुवा।
     अपशशितिलकं वपुः कृतं मथिताल्पाल्पतमोअनं तथा ॥
     इति मृदुमधुरैः स बन्दिवाक्यैरुषसि शशाङ्कवतीविमुक्तकण्ठः।
     अपगतसुरतान्तखेदनिद्रः सपदि जहौ शयनं मृगकथ ॥
     उत्थाय च व्यधित बासरकृत्यमेष पित्रा निजोचितकृताखिलसंविधानः ।
     भूयस्तथैव च निनाय तदा बहूनि तान्युत्सवेन दयितासहितो दिननि ॥
     अथ राजामरदत्तस्तज्जनकस्तच्छुशुर्यस्य ।
     शिरसि सुषेणस्यादौ बबन्ध पहुं कृताभिषेकस्य ॥
     विषयं तदुचितमेकं हस्त्यश्वहिरण्यभारवस्त्राणि ।
     शतसंख्याश्च वरस्त्रीर्ददौ स तस्मै कृतादरो नृपतिः ॥
     शबरकिराताधिपती मायाबहुशक्तिरक्षितौ च ततः।
     सहबान्धवौ सदारौ मातङ्गचमूपतिं च तं स नृपम् ॥
     दुर्गपिशाचं सचिवान्मृगाङ्कदत्तस्य तांश्च सश्रुतधीम् ।
     सममानयप्रद तैर्विषयैर्नावाजिहेमवस्त्रैश्च ॥
     ततः किरातेन्द्रमुखान्विसृज्य तान्नृपान्स्वदेशेषु सुषेणसंयुतान् ।
     शशास राज्यं सुतशौर्यनिर्दूतः स तत्मुखेनामरदत्तभूपतिः ॥
     मृगाङ्कवत्तोऽपि विजित्य वैरिणः शशाङ्कवत्या सुचिरादवाप्तया।
     निजैश्च तैर्भमपराक्रमादिभिः सहवतस्थे सचिवैश्चिरं सुखी ॥
     कालेऽथ यास्यमरदत्तनृपस्य तस्य स्वैरं जरा श्रवणमूलमुपाजगाम ।
     भुक्ताः श्रियः परिणतं वयसा शमस्य नन्वेष काळ इति वक्तुमिवाङ्गभूता ॥
     ततः स भोगेषु विरक्तमानसो महीपतिः स्वानिजगाद मस्रिणः।
     निशम्यतां संप्रति वर्णयामि वो विधित्सितं यन्मम वर्तते हृदि ॥
     गतं वयो नः पलितेन सांप्रतं कृतान्तदूतेन कचग्रहः कृतः।
     जरागमे जीर्णरसं च मादृशां कुभोगतृष्णाव्यसनं विडम्बना ॥
     विवृद्धिभाजा वयसा समं च यद्विवर्धते लोभमनोभवत्रहः।
     असंशयं कापुरुषव्रतं हि तत्स्वभावजं सत्पुरुपैरशिक्षितम् ॥
     तदस्ति मे लब्धयशा मही तले सराजकावन्तिनरेन्द्रनिर्जयात् ।
     स्वतोऽनुरक्तप्रकृतिर्गुणाधिको मृगाङ्कदत्तः सुसहायवानयम् ॥