पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९४
[ आदितस्तरङ्ग
कथासरित्सागरः ।

इति वाक्सुधया तस्या दत्तानन्दोऽहमभ्यधाम् । युष्मदायत्तमेवैतत्स्वाधीनोऽयं जनस्तव ॥
एतच्छुत्वा प्रहृष्टा सा ततो याता यथागतम् । तत्प्रत्ययाच जातास्थो निर्दूतोऽहमगां गृहम् ॥
अन्येद्युतां च मदिरावतीं पितुरयाचत । उज्जयिन्याः समायातो महान्क्षत्रियपुत्रकः ॥
तरिपता च सुतां तस्मै प्रदातुं प्रत्यपद्यत । तच्चाहं तत्परिजनाच्छुतवाञ्श्रोत्रदारुणम् ॥
ततः स्वर्गादिव भ्रष्टो वजेणेव समाहतः। आक्रान्त इव भूतेन मोहं प्रापमहं चिरम् ॥
आश्वस्याचिन्तयं चाहं वैकुल्येनाधुनैव किम् । पश्यामि तावत्पर्यन्तं प्राप्नोतीष्टमविक्छवः॥
इत्याशयाहं दिवसान्यावत्कांश्चिन्नयामि तान् । प्रियासखीभिरागत्य धार्यमाणस्तदुक्तिभिः ॥
लग्नोऽत्र निश्चितस्तावदभ्यक्ता मदिरावती । प्राप्तोद्वाहदिवसस्तस्याः प्रविततोत्सवः ॥
स्वेच्छासंचाररुद्धायां तस्यां तत्पितृवेश्मनि । जन्ययात्राप्रवेशोऽभूदासन्नस्तूर्यनादितैः ॥
तदृष्ट्वा तन्निराशोऽहं कथं जीवितवैशसम् । कलयन्मन्यमानश्च विरहान्मरणं सुखम् ॥
गत्वा च नगरीबाह्यमारुह्य वटपादपम् । पाशं व्यरचयं तेन पाशेनानौकहात्ततः ॥
प्रियाप्राप्तिमनोराज्यमातमनं चात्यजं समम् । क्षणाच्चापश्यमात्मानं नष्टां संप्राप्य चेतनाम् ॥
यूनः पतितमुत्सङ्गं छिन्नपाशस्य कस्यचित् । अनेन नूनं त्रातोऽहमिति मत्वाब्रवं च तम् ॥
महासत्त्व त्वया तावद्दर्शितैव दयालुता । किं तु मे विहर्तस्य मृत्युरिष्टो न जीवितम् ॥
चन्द्रोऽग्निर्विषमाहारो गीतानि श्रुतिसूचयः। उद्यानं बन्धनं पौष्पी माला दिग्धा शरावली ॥
ज्वलिताङ्गारवर्ष च चन्दनाद्यनुलेपनम् ॥
येषां मित्रं विपर्यस्तं संसारे विधुरात्मनाम् । जीविते को रसस्तेषां मादृशां विप्रयोगिनाम् ॥
इत्युक्त्वावर्णयं चास्मै तमहं छुच्छुबन्धवे । पृष्टोदन्ताय मदिरावतीवृत्तान्तविस्तरम् ॥
ततोऽब्रवीत्स धुम्र किं प्राज्ञोऽपि विमुह्यसि । सर्वे यस्य कृते तेन किं यक्तेनात्मना फलम् ॥
आत्मीयमत्र वृत्तान्तं शृण्विमं कथयामि ते । अस्तीह निषधो नाम देशो हिमवदाश्रयः ॥
कलिविद्रावितस्यैको यो धर्मस्य समाश्रयः । जन्मक्षेत्रं च सत्यस्य गृहं कृतयुगस्य च ॥
अतृप्तिर्यत्र लोकस्य श्रुते न त्वर्थसंचये । संतोषश्च स्वदारेषु नोपकारेषु सर्वदा ॥
तत्र शीळघृताढ्यस्य ब्राह्मणस्याहमात्मजः। सोऽहं देशान्तरालोककौतुकान्निर्गतो गृहत् ॥
भ्रमन्देशानुपाध्यायान्पश्यन्प्राप्तोऽस्मि च क्रमात्। सखे शङ्कपुरं नाम नातिदूरमितः पुरम् ॥
श वपालस्य यत्रास्ति नागराजस्य पावनम् । शङ्कहद् इति ख्यातं स्वच्छतोयं महत्सरः ॥
तत्रोपाध्यायसदने वसंस्तदहमेकदा। नानयात्रोत्सवेऽगच्छं द्रष्टुं शङ्कहदं सरः ॥
असंख्यैः पूरिततटं नानादेशागतैर्जनैः । सुरासुरैरिवाम्भोधिं क्षोभ्यमाणं समन्ततः ॥
वधूनां श्लथधम्मिल्दविस्रस्तकुसुमस्रजाम् । वीचिहस्तैः परामृष्टजघनस्तनमण्डलम् ॥
आलिप्यापहृतेनाङ्गरागेणापिञ्जरीकृतम् । महाह्रदं तमद्राक्षी तन्वानं कामुकायितम् ॥
तस्य दक्षिणतो गत्वा तरुखण्डं व्यलोकयम् । सधूममिव तापिच्छैः साङ्गारमिव किंशुकैः ॥
सज्वालमिव चोत्फुल्ललोहिताशोकवलिभिः। हरनेत्रानलप्लुष्टं देहं रतिपतेरिव ॥
तत्रातिमुक्तकलतामण्डपद्वारि कुर्वतीम् । कुसुमावचयं कांचिदपश्यं कन्यकामहम् ॥
लीलाकटाक्षविक्षेपतजितश्रवणोत्पलाम् । उत्क्षिप्तबाहुलतिकालक्षितैकपयोधराम् ॥
वहन्तीं कबरीपाशं पृष्ठतः परिमोचितम् । वदनेन्दुभयेनेव तिमिरं शरणागतम् ॥
नूनं रम्भादिनिर्माणसिद्धहस्तेन वेधसा । सृष्टा साक्ष्णोर्निमेषेण विज्ञेया मानुषीति ये ॥
सा च दृष्टा प्रवियैव हृदयं मे मृगेक्षणा । हस्तभीव मारस्य जगत्रितयमोहिनी ॥
सापि मामवलोक्यैव सद्यः स्मरवशाभवत् । विमुच्य पुष्पावचयक्रीडां प्रेमविहस्तिता ॥



१ मालतीमाधवे वेतदुत्तान्तस्थाने माधवस्य इमशाने गमनं तत्रघोरघण्टादिसमागमश्च वर्णितः. तत्सर्वमपि
लम्बकचतुर्थतरङ्गस्थविदूषककथातः समुद्धृतं भवभूनिना. २ पुस्तकान्तरेऽस्माच्चैकादशे एकलोकस्य त्रुटिचिह्नमस्ति.