ततस्तं वीक्ष्य सच्चक्रवर्तिचितं गुणी गृहम् । नीत्वा स वीणादत्तः स्वैरुपचारैरुपाचरत् ॥
अन्येद्युस्तत्पुरं दृष्ट्वा वीणाहस्ताखिलप्रजम् । नरवाहनदत्तस्तं बीणदत्तं स पृष्टवान् ॥
सर्वेऽप्याबालमेते किं वीणाहस्ता जना इति । वीणादत्तोऽपि स ततस्तमेवं प्रत्यभाषत ॥
राजा सागरदत्ताख्यो गन्धर्वाणामिहारित यः। तस्य ग्रन्धर्वदत्ताख्या सुतास्ति न्यक्कृताप्सराः ॥
धात्रा कृतं सुधाचन्द्रचन्दनायैरिवोचितैः। सर्वसुन्दरनिर्माणवर्णकायेव यद्वपुः ॥
सततं सा च गायन्ती वीणायां शौरिणा स्वयम् । दत्तं स्वगीतकं काष्ठां गान्धर्वं परमां गता ॥
यो वादयति वीणायां त्रिभिर्मासैश्च गायति । गान्धर्वं कोविदः सम्यग्वैष्णवं स्तुतिगीतकम् ॥
स मे पतिः स्यादित्यस्या राजपुत्र्याश्च निश्चयः । तेन सर्वेऽत्र वीणासु शिक्षन्ते न च तद्विदुः ॥
एतच्छुस्वैव सानन्दो वीणादत्तमुखद्वचः । नरवाहनदतोऽसौ राजपुत्रो जगाद तम् ॥
अहं कलानां सर्वासां स्वयंवरवृतः पतिः। जानामि सर्वं गान्धर्वं त्रैलोक्योदरवति यत् ॥
इत्युक्तवन्तं स सुहृद्वीणादत्तो निनाय तम् । राज्ञः सागरदत्तस्य पार्श्व तत्र जगाद च ॥
नरवाहनदत्तोऽयं वत्सराजसुतः किल । इह विद्याधरीहस्ताद्विभ्रष्टो नगरे तव ॥
गान्धर्वाचार्य एवायं केशवस्तुतिगीतकम् । वेत्ति गन्धर्वदत्ताया यत्रोपरि महान्रसः ॥
तच्छुत्वा सोऽब्रवीद्राजा सत्यमेतन्मया श्रुतम् । गन्धर्वाणां मुखपूर्वं तन्मान्योऽयमिहाद्य नः ॥
देवशश्चैष न भ्रान्तिर्देवभूमौ किमन्यथा । इह विद्याधरीसङ्गादागच्छेन्मानुषो भवन् ॥
आनीयत तद्गन्धर्वदत्ता वीक्षामहेऽद्भुतम् । इति राज्ञोदिते जग्मुरानेतुं तां महत्तराः ॥
आगाच्च सा ततः कान्ता कुसुमाभरणोज्ज्वला । यौवनेन विघूर्णन्ती वातेनेवातंवी लता ॥
उपविश्य पितुः पार्श्व तद्वाक्याच क्षणान्तरे । भूयैः कथितवृत्तान्ता वीणयां गीतकं जगौ ॥
खराब्धृतिषु युञ्जन्यास्तस्या ब्राह्या इव श्रियः। नरवाहनदत्तोऽभूद्दीते रूपे च विस्मितः ॥
राजपुत्रि न ते वीणा सुखरा प्रतिभाति मे । जाने वालः स्थितस्तयामिति सोऽत्र जगाद च ॥
ततोऽत्र वीक्ष्यते यावद्वालस्ववापि सः । तेन सर्वेऽपि ते जग्मुर्गन्धर्वा अपि बिस्मयम् ॥
राजपुत्र गृहाणेमां कथं सिध्द्यामृतेन नः । इति राजा सुताहरताीणां तस्मै ददौ वदन् ॥
सोऽपि तां वान्विष्णोरगायीतकं तथा । यथा ते तत्र गन्धर्वांश्चित्रन्यस्ता इवाभवन् ॥
ततो गन्धर्वद्त्ता सा दृश्यैव प्रणयाद्रेया । तं वने फुल्लनीलाब्जमालये वास्तया स्वयम् ॥
तदालोक्य तथारूपां तत्प्रतिज्ञां स्मरंश्च सः । राजा गन्धर्वदत्तां तां सद्यस्तस्मै सुतां ददौ ॥
दिध्यातोद्यादिकश्चात्र विवाहो यस्तयोरभूत् । कोपसा कथ्यते तस्य येनान्यदुपमीयते ॥
ततस्तया समं तत्र तस्थौ गन्धर्वदत्तया । नरवाहनदत्तोऽसौ दिव्यैर्भागैर्नवोढया ॥
एकस्मिश्च दिने द्रष्टुं निर्गतो नगरश्रियम् । तांस्तान्प्रदेशानालोक्य पुरोद्यानं विवेश सः ॥
तत्र व्योम्नोऽवरोहन्तीं सोऽपश्यद्दिव्ययोषितम् । समं दुहित्रानंश्रेऽपि सवृष्टिमिव विश्रुतम् ॥
वत्सराजसुतः सोऽयं पुत्रि भावी पतिस्तव । इति तां वीक्ष्य जपन्तीं ज्ञानतस्तां निजां सुताम् ॥
का त्वं किमगतासीति सोऽपृच्छत्तामुपागताम् । सापीप्सितोपक्रमिणी दिव्ययोषित्तमब्रवीत् ॥
देवासिंहाभिधानस्य विद्याधरपतेरहम् । भार्या धनवती नाम कन्यैषा च सुता मम ॥
चण्डासिंहस्य भगिनी नाग्नेयमजितवती । अस्या भर्ता त्वमदिष्टो गगनोज्ञतया गिरा ॥
वेगवत्यात्र निक्षिप्तं भाविविद्याधरेश्वरम्। बुढ़हं निज विद्यासस्त्वां प्राप्ता बक्तुमीप्सितम् ॥
न विद्याधरास्येऽत्र स्थाने युक्तं तवसितुम् । ते हि द्वेषेण हन्युस्त्वामप्राप्तपदमेककम् ॥
तदेहि तद्गस्थां त्वां नयावः सांप्रतं भुवम् । नेन्दुः क्षिपति जी काढं परिक्षीणोऽर्कमण्डले ॥
संप्राप्तेऽवसरे चैतां सुतां मे परिणेष्यसि । इत्युक्त्वैव तमादाय ससुता सा खमुद्ययौ ॥
श्रावस्यां पुरि नीत्वैव निक्षिप्योपवने च तम् । समं तयाजिनावत्या सुतया सा तिरोदधे ॥
तत्र प्रसेनजिद्राजा दूरादाखेटकाशतः । दर्श राजपुत्रं तमुदाराकारलक्षणम् ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४०४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०२
[ आदितस्तरङ्गः
कथासरित्सागरः