पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१०
[ आदितस्तरङ्गवः
कथासरित्सागरः ।

अयं च तन्निवासोऽद्रिः कैलासस्ते स्थितोऽग्रतः । अत्राराध्य शिवं श्रेयो निर्विनं त्वमवाप्स्यसि ॥
तदेह्यत्र नयामि त्वामित्युक्त्वा तत्र तत्क्षणात् । प्रापण्यासत्र्य च ययौ सोऽथ विद्याधरोत्तमः ॥
नरवाहनदत्तोऽपि कैलासं समवाप्य सः । तपसा तोषयामास तत्राग्रस्थं विनायकम् ॥
तेन दत्ताभ्यनुज्ञश्च प्रविश्य गिरिजापतेः । आश्रमं नियमक्षामो ददर्श द्वारि नन्दिनम् ॥
कृतप्रक्षिणं चैतं स नन्दी सद्योऽब्रवीत् । प्रायः सिद्धोऽसि विन्न हि प्रशान्तास्ते तवाधुना ॥
तदिहस्थस्तपस्य स्वं भगवत्तोषणावधि। दुरितघ्नतपःशुद्धिसव्यपेक्षा हि सिद्धयः ॥
इत्युक्ते नन्दिना ध्यायन्देवं देवीं च पार्वतीम् । नरवाहनदत्तोऽत्र तपस्तेपेऽनिलाशनः ॥
तपस्तुष्टश्च भगवान्स दवा दर्शनं शिघः । देव्या गिरिजया सार्धमेवं प्रहं तमादिशत् ॥
विद्याधराणां सर्वेषां चक्रवर्ती भवाधुना । सर्वाः सर्वातिशायिन्यो विद्याः प्रादुर्भवन्तुते ॥
अस्मत्प्रभावाच्छचूणामविजयो भविष्यसि । अच्छेद्यश्चाप्यभेद्यश्न हनिष्यस्यखिलान्रिपून् ॥
दृष्टे त्वयि न विद्याश्च प्रभविष्यन्ति ते द्विषाम् । तद्गच्छ गौरीविद्यापि स्वदयत्ता भविष्यति ॥
इति गौर्या समं दत्वा वरं तस्मै ददौ हरः । चक्रवर्तिमहापद्मविमानं ब्रह्मनिर्मितम् ॥
ततस्तस्याविरासंस्ता विद्यः सर्वाः सविग्रहः । किमादिशसि यकुर्म इस्याज्ञासाधनोत्सुकाः ॥
          इति नरवहन सः सिद्धवरौघः प्रणम्य परमेशौ ।
          अधिरुह्य तत्र दिव्यं पद्मबिमानं तदभ्यनुज्ञातः ॥
          प्रथमं तावदयासीदमितगतेस्तस्य बक्रपुरसंज्ञम् ।
          पुरमावेदितमार्गे विद्याभिः सिद्धचारणोर्ततः ॥
          सोऽष्यारूढविमानं व्योम्ना प्राप्तं विलोक्य तं दूरात् ।
          अमितगतिः समुपेत्य स्वगृहं प्रावेशयत्कृतप्रणतिः ॥
          प्रददौ च तत्र वर्णितनिज़सिद्धिप्राप्तये मुदा तस्मै ।
          नरवाहनदत्ताय स सुलोचनाख्याम्पायनं स्वसुताम् ॥
          सोऽत्र तया सह विद्याधरलक्ष्म्येवाप्तया तदा परया ।
          नयति स्म चक्रवर्ती ततोत्सवं प्रीतिमांस्तदः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पश्चलम्वी तृतीयस्तरङ्गः।


_____


चतुर्थस्तरङ्गः


ततो वक्रपुरे तत्र स्थित आस्थानवर्तनम् । नरवाहनदत्तं तं नूतनं चक्रवर्तिनम् ॥
अन्येद्युरवतीर्यंब वेत्रहस्तो नभस्तलात् । उपगम्य पुमानेकः प्रणम्यैवं व्यजिज्ञपत् ॥
चक्रवर्तिप्रतीहारं विद्धि वेव क्रमागतम् । मां पौररुचिदेवाख्यं स्वसेवार्थमुपागतम् ॥
तच्छुत्वा सोऽमितगतेर्मुखमैक्षत तेन च । सत्यं देवेति विज्ञप्तः क्षतृत्वेऽभिननन्द तम् ॥
अथ प्रभावतो बुद्धा वेगवत्यादिभिः सह । तत्पत्नीभिर्धनवती चण्डसिंहश्च तत्सुतः ॥
तथा पिङ्गलगान्धरो राजा वायुपथान्वितः। समं सागरदत्तेन तत्र चित्राङ्गदश्च सः ॥
आययुः सैन्यरुद्धात्रैः सह हेमप्रभादिभिः। परतेजोस हिष्णुत्वं सूचयन्त इत्रग्रतः ॥
उपेत्य पादयोस्तस्य निपेतुश्चक्रवर्तिनः । सोऽपि संमानयामास यथार्ह स्वागतेन तान् ॥
धनवत्यास्तु चरणौ गौरवास्प्रणनाम सः । सापि जामातरं प्रीता तमाशीभिरवर्धयत् ॥
उक्तारमसिद्धिवृत्तान्तास्तेन ते प्रभुणा ततः । चण्डसिंहादयः सर्वे प्रमोदं सुतरां दधुः ॥
पार्श्वपयाताः पत्नीश्च दृष्ट्वा धनवतीं तदा। चक्रवर्ती स पप्रच्छ क ते मे सचिवा इति ॥
क्षिप्त मनसवेगेन रक्षित्वा स्थापिता मया । विद्यमुखेन ते भिन्ना इति सा प्रयुवाच तम् ॥