पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२०
[ आदितस्तरङ्गः १०९
कथासरित्सागरः

इति स्तुता तुतोषात्र कालरात्रिर्न तस्य यत् । तस्वमूर्धापहारेण तामर्चितुमियेष सः ॥
मा पुत्र साहसं कार्षीरेिषा सिद्धास्मि वीर ते । प्रकृतिस्थं तवास्त्वेतत्कटकं जयमाप्नुहि ॥
इत्युवाचात्तखतुं तं सा देवी तत्र तत्क्षणम् । सुप्तप्रबुद्धमिव तत्कटकं तस्य चाभवत् ॥
ततो भार्या वयस्याश्च सर्वे विद्याधराश्च ते । प्रशशंसुस्तमेतस्य प्रभावं चक्रवर्तिनः ॥
अथैष विहिताहारपानाद्यवश्यकक्रियः । बीरोऽनैषीत्रियामां तां शतयामाभिवायताम् ॥
प्रातश्च पूजयित्वा तां कालरात्रिं ततो ययौ । विद्याधरनिरुद्धारैमार्गे धूमशिखं प्रति ॥
अभूतेन समं तस्य सद्भामश्चक्रवर्तिनः । राज्ञा मन्दरदेवीयप्रधानेन स तादृशः ॥
यत्र खन्नमयं व्योम शूरमूर्धमयी मही । आसीजहि जहीत्युप्रवीरवाक्यमयं वचः॥
तत्र धूमशिखं युद्धे बद्धानीतं प्रसह्य तम् । चक्रवर्ती स संमान्य ग्राहयामास शासनम् ॥
न्यवेशयच्च तदहः सैन्यसनैव तत्पुरे । शान्तधूमशिखोद्रेकमग्निदग्धेन्धनं यथा ॥
द्वितीयेऽह्नि स चारेभ्यो योहुमायान्तमग्रतः । बुट्टा मन्द्रदेवं तं ज्ञातवृत्तान्तमग्रतः ॥
नरवाहनदत्तस्तैः सह विद्याधरेश्वरैः । प्रययौ तं प्रति ततस्तज्जये बद्धनिश्चयः ॥
किंचिद्त्वा दर्शाने बहुराजगणान्वितम् । सैन्यं मन्दरदेवस्य रचितव्यूहमागतम् ॥
सतः कृतप्रतिव्यूहरचनो राजभिर्युतः । नरवाहनदत्तस्तदभ्यधावदरेर्बलम् ॥
अथाहवः प्रववृते तयोरुभयसैन्ययोः। प्रलयोद्वेलजलाधिक्षुभितैौघानुकारिणोः॥
ततस्ते चण्डसिंहाद्या युध्यन्ते स्म महारथाः । शूराः काश्चनदंष्ट्राख्यराजप्रभृतयोऽन्यतः ॥
प्रकम्पितत्रिभुवनो विक्षोभितकुलाचलः। विजनृम्भे स सङ्गमः कल्पान्तपवनागमः ॥
शोणैकपार्श्वः कैलासः शूरशोणितकुङ्कुमैः । भूतिश्वेतान्यपार्श्वश्च तदा गौरीशमन्वगात् ॥
खङ्गपट्टोदितानेकसूर्यबिम्बोषभास्वरः । सत्यं प्रलयकालोऽभूद्वीराणां स महाहवः ॥
इयत्तद्युद्धमासीद्यद्विस्मयं प्रेक्षणागताः । नारदाद्या अपि ययुर्देष्टदेवासुराहवाः ॥
इत्थं घोरे रणे तस्मिश्चण्डसिंहोऽभिधावितः। जघ्ने काञ्चनदंष्ट्रेण गदया मूर्ति भीमया ॥
तं गदघातपतितं दृष्ट्वा धनवती सुतम् । शश्वा विद्याबलेनोभे सैन्ये निश्चेतने व्यधात् ॥
नरवाहनदत्तश्च चक्रवर्ती बलादितः । ततो मन्दरेदेवश्च द्वावेवास्तां सचेतनौ ॥
तदा धनवतीं क्रुद्धां जगत्संहरणक्षमाम् । वीक्ष्याम्बरगता देवा अपि दिक्षु प्रदुहवुः ॥
दृष्ट्वा मन्दरदेवोऽथ चक्रवर्तिनमेककम्। नरवाहनदत्तं तमभ्यधावदुदायुधः ॥
नरवाहनदत्तोऽपि विमानादवतीर्य सः। उखातखञ्जरत्नः सन्प्रतिजग्राह तं जवात् ॥
ततो मन्दरदेवेन मायया जयमिच्छता । समदोद्दाममातङ्गरूपं चक्रे स्वविद्यया ॥
तदृष्टाकारि सुमहर्सिहरूपं स्वमायया । नरवाहनदत्तेन विद्यातिशयशालिना ॥
ततो भग्नंभवपुषा मुक्तसिंहाकृतिः स्फुटम् । युद्धे मन्दरदेवेन चक्रवर्ती ततान सः ॥
नानाविचित्रकरणाबङ्गहरक्रिया तौ। मण्डलाग्रधरौ नाट्यप्रवृत्ताविव रेजतुः ॥
नरवाहनदत्तोऽथ साक्षाज्जयमिवहरत् । खङ्गं मन्द्रदेवस्य कराकरणयुक्तितः ॥
हृतखङ्गस्य चाकृष्टमुरिकस्यात्र तामपि । तथैव तस्य सहसा चक्रवर्ती जहार सः ॥
ततोऽपशवं बाहुभ्यां युध्यमानं स गुरुफयोः। प्राप्य मन्दरदेवं तं राजा भूमावपातयत् ॥
प्रारेभे च शिरश्छेत्तुं केशेष्वाकृष्य तस्य सः । बक्षसि न्यस्तचरणः सम्राट् खनेन विद्विषः ॥
तावन्मन्दरदेवीति नाम्ना कन्याभ्युपेत्य तम् । स्वसा मन्दरदेवस्य वारयन्त्येवमब्रवीत् ॥
तपोवनस्थो दृष्ट्वा त्वं भर्ता प्राकल्पितो मया। तच्छशुणैमिमं राजन्मा वधीर्जुतरं मम ॥
एवं तयोक्तः सुदृश विमुच्य जितलजितम् । धीरो मन्दरदेवं तं महराजो जगाद सः ॥
मुक्तो मया त्वं मा भूत्तल्लज्जा विद्याधरेश ते । चपळूौ किल शूराणां रणे जयपराजयौ ॥
इति मन्दरदेवोऽसावुक्तो राज्ञा जगाद तम् । किं जीवितमिदानीं मे रक्षितस्याहवे बिया ॥