तरङ्गः २ । । सुरतमञ्जरीलम्बकः १६ । ५२९ १०४ अथ तस्मिन्नहनि गते प्रातर्गोपाळकं स तं सम्राट् । एहि ममैश्वर्यं त्वं निवसेत्यभ्यर्थयामास ॥ गोपालकोऽपि तमुवाच स किं न बस पर्याप्तमेवममुना तव दर्शनेन । स्नेहस्तवास्ति मयि चेतदिहैव वर्षाकालं समागतमिमं निवसाश्रमे त्वम् ।। इति नरवाहनदत्तस्तेनोक्तो मातुलेन तत्कालम्। सपरिच्छदः स तस्मिन्नसितगिरौ कश्यपाश्रमे तस्थौ । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सुतरम ऊरीलम्यके प्रथमस्तरङ्गः । १०५ १०६ द्वितीयस्तरङ्गः अथासितगिरौ तस्मिन्नास्थानी व्यजिज्ञपत् । नरवाहनदत्तं तं स्वसेनापतिरेकदा । अद्यहं देव हर्यस्थो रक्षन्सैन्यानि दृष्टवान् । दिव्येन पुंसा नभसि ह्रियमाणां निशि स्त्रियम् । क्रन्दन्तीं हार्यपुत्रेति कान्तिसर्वस्वहारिणीम्। लञ्चैवानयितां बुद्धा तस्कालबलिनेन्दुना॥ आः पाप परदारांस्वमपहृत्य क्क यास्यसि । नरवाहनदत्तस्य राज्ये देवस्य रक्षितुः ।। योजनानां सहस्त्रेषु षष्थौ वैद्याधरे पदे । तिर्यश्चोऽपि हि नाधर्म कुर्वन्त्यन्येषु का कथा ।। इत्युक्त्वैव प्रधाठ्याशु सानुगेन मया स्वयम् । संयम्य स पुमान्व्योम्नः खनारीकोऽवतारितः । अवतार्य च पश्यामो यावत्स्यालः स ते प्रभो। भ्राता युष्मन्महाव्या इत्यकख्यो नभश्वरः । देव्यां कलिङ्गसेनायां जातो मनवेगतः । केयं किमेतां हरसीत्युक्तोऽस्माभिश्च सोऽभ्यधात् । इयं मतङ्गदेवस्य विद्याधरपतेः सुता । उत्पन्नाशोकमञ्जर्या नाम्ना सुरतमञ्जरी । सैषा प्रागेव बाचा मे मात्रा दत्ता सती किळ । अन्यस्मै मानुषायात्र स्वपित्रा प्रतिपादिता । अतोऽद्यासौ निजा भार्या यदि प्राप्य हृता मया । तन्मे को दोष इत्युक्त्वा सोऽत्र व्यरमदिल्यकः ॥ ११ केनाथं परिणीता त्वं कथं प्राप्तासि चामुना । इति साथ मया पृष्टावोचसुरतमञ्जरी । १२ अस्त्युज्जयिन्यां नृपतिः श्रीमान्पालकसंज्ञकः । कुमारस्तस्य पुत्रोऽस्ति सुनामावन्तिवर्धनः । १३ तेनेह परिणीताहं सुप्त ह`तलेऽद्य च । आर्यपुत्रस्य सुप्तस्य हृतास्म्येतेन पाप्मना ॥ १४ एवमुक्तवती सा च संयतस्थः स चेत्यकः । मयेह स्थापितौ तौ वैौ प्रमाणमधुना प्रभुः । १५ एवं हरिशिखात्सेनापतेः श्रुत्वा ससंशयम् । गत्वा गोपालकायैतच्चक्रवर्ती शशंस सः । १६ गोपालकोऽपि सोऽवादीद्वसैतद्विदितं न मे । सांप्रतं परिणीतैषा जाने पालकसूनुना ।। १७ आनीयतां कुमारस्तदुज्जयिन्याः स मत्रिणा । समं भरतरोहेण ज्ञास्यामो निश्चयं ततः । १८ तच्छुत्वा मातुलवचश्चक्रवर्ती विसृज्य सूः। विद्याधरं धूमशिखं मातुलस्य कनीयसः । १९ पालकस्यान्तिकं राज्ञस्तावानायितवानुभौ । उज्जयिन्याः कुमारं तं तत्सुतं तं च मत्रिणम् प्राप्तौ कंसप्रणामौ च स तौ गोपालकान्वितः। स्नेहादरभ्यां संमान्य प्रकृतं पृच्छति स्म तम् ॥ २१ थिते निशाहीनचन्द्रभेऽवन्तिवर्धने । तथा सुरतमञ्जर्या पितर्यस्याश्व सेयके । २२ सरसु वायुपथाथेषु मुनौ तिष्ठति कश्यपे । सोऽन्येषु च जगामैवं मन्त्री भरतरोहकः । आ मूलाच्छुणु देवैतदुज्जयिन्याः किलैकद । एवं समेत्य विज्ञप्तः सर्वैः पालकभूपतिः । २४ अस्यामुदकदानाख्यो भवत्यद्योत्सवः पुरि । हेतुश्चात्र न चेत्सम्यक्छुतस्तच्छूयत प्रभो । २५ पूर्व चण्डमहासेनः पिता ते खन्नमुत्तमम् । प्राप्तुं च भार्या तपसा देवीं चण्डीमतोषयत् । २६ सा। स्वं खङ्गं ददौ तस्मै भार्यार्थं चैघमभ्यधात्। अङ्गारकाख्यमसुरं हत्वा तस्यचिरात्सुताम् । ३७ पुत्राङ्गारवतीं नाम भव्य भार्यामवाप्स्यसि । इत्यादिष्टस्तया देव्या तस्थौ राजा स तन्मनाः ।। २८ अत्रान्तरे चोज्जयिन्यां यो योऽभून्नगराधिपः। स स केनापि सत्त्वेन रात्रौ रात्रावभक्ष्यत । २९ ततश्चण्डमहासेनस्तन्वेष्टुं स्वयं निशि । स्वैरं भ्रमन्पुरि प्राप पुरुषं पारदारिकम् ॥ ६७
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४३१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति