रङ्गः २] पझावतीलम्बकः १७ ५४३ ४४ ४५ ४७ वन्द्वपुर्जेयु देवानां संप्रवृत्तेष्वथासुरैः। शतं विद्युत्प्रभोऽभ्यागाद्विद्युद्वजपिता क्रुधा । २९ त्रप्रत्यत्रयुद्धेन शनैस्तेनामरद्विषा । शक्रोऽभिभूयमानोऽथ तस्मै वश्रमवाक्षिपत् । |शाहतः स दैत्योऽत्र पपात गतजीवितः । विद्युद्भुजोऽथ तस्क्रोधादभ्यधावच्छतक्रतुम् ॥ ३१ पप्राणसंशये चादौ तस्मै ब्रह्मात्रमक्षिपत् । अन्ये च प्राहरन्नन्यैस्तस्मिन्नगैर्महासुराः । ओोऽथ ध्यात्वेश्वरादिष्टमत्रं पाशुपतं क्षणात् । अग्रोपस्थितमभ्यर्यं शक्रश्चिक्षेप शत्रुषु । ३३ न कालाग्निनास्त्रेण दग्धं तत्सैन्यमासुरम् । विद्युद्वजस्तु बालत्वादहतो मूर्छितोऽपतत् । ३४ स हिनस्ति तदत्रं हि बालं वृद्धं पराङ्मुखम् । ततो लब्धजया देवाः स्वस्थानान्यखिला ययुः ॥ ३५ होऽपि विद्युद्वजो ध्वस्तः सुचिराल्लब्धचेतनः । शोचन्पलाय मिलितानवोचच्छेपसैनिकान् ॥ ३६ जयिनोऽपि जिताः स्मोऽद्य ब्रह्मास्त्रे प्रत्युताजिते । तत्यक्ष्याम्याहवे गत्वा शक्रमासाद्य जीवितम् । ३७ ते पितरि शक्ष्यामि न गन्तुं स्वपुरं पुनः । इत्युक्तवन्तं तं मत्री वृद्धो वक्ति स्म पैतृकः ॥ ३८ भकालमुक्तं ब्रह्मात्रमन्यमुक्तास्रमन्थरम् । अन्यानासनैशानमहात्रव्याहृतं हि तत् । ३९ लब्धजयमाक्षेप्तुं नाकाले शत्रुमर्हसि । एवं हि तस्योपचयः स्वनाशश्च कृतो भवेत् ॥ ४० शीरो हि रक्षन्नात्मानं काले प्राप्य बढं रिपोः। मन्युप्रतिक्रियां कृत्वा विश्वलाध्यं यशोऽभुते ॥ ४१ इति वृद्धेन तेनोक्तो विद्युद्वज उवाच सः । तह्स्मद्राज्यरक्षार्थ यात यूयमहं पुनः । ४२ अमेवाराधयिष्यामि गत्वा सर्वेश्वरं शिवम् । इत्युक्स्वानिच्छतोऽप्येतान्विससर्जेव सोऽनुगान् ॥ ४३ गत्वा च पञ्चभिः सर्वे वयस्यैर्दैत्यपुत्रकैःकैलासमूळे गङ्गायास्तीरे सोऽशिश्रियत्तपः। समें पश्चाग्निमध्ये च शीते तस्थौ स वारिणि । एकं सहस्र वर्षाणां शिवध्यायी फलाशनः ॥ मूलाशनो द्वितीयं च तृतीयं वारिभोजनः । वायुभक्षश्चतुर्थे च निराहारश्च पञ्चमम्।। ४६ वरदानागतं भूयो बहु मेने न पद्मजम् । दृष्टो वरप्रभावस्ते गम्यतामित्युवाच च । कालं तावन्मेवान्यन्निराहारस्थितं च तम् । मूर्घद्रतमह्नधूमं साक्षाच्छंभुरुपाययौ ॥ वृणीष्व वरमित्युक्तस्तेन दैत्यो जगाद सः । वध्यामहं रणे शेकं त्वत्प्रसादाद्विभो इति ॥ ४९ उत्तिष्ठ न विशोषोऽस्ति जितस्य निहतस्य वा । तदिन्द्रं जेष्यसि रणे तत्पदे च निवत्स्यसि । इत्युक्त्वान्तर्दधे देवः सोऽपि सिद्धे मनोरथम् । मत्वा विद्युद्वजः कृत्वा पारणं स्वपुरं ययौ ॥ ५१ तत्राभिनन्दितः पैरैस्तेन पित्र्येण मत्रिणा । मिलित्वा तत्कृते तप्ततपसा व्यधितोत्सवम्॥ आहूयासुरसैन्यानि विहिताहवसंविधिः । इन्द्राय प्राहिणोदूतं युधि सजो भवेति सः । ५३ चचाल च नभः सेनानादनिर्घतदारितम् । केतुभिश्छादयंस्तन्वन्टिं स्वर्वासिनामिव । इन्द्रोऽपि तं लब्धवरं विज्ञायागतमाकुळः । संमघ्य देवगुरुण सुरसैन्यान्युपाह्वयत् । ५५ ततो विद्युद्धी प्राप्ते तयोरुभयसैन्ययोः। स्वेषां परेषां चाज्ञातुविभागोऽभून्महाहवः । ५६ सुबाहुप्रमुखा दैत्याः सहयुध्यन्त वायुभिः। पिङ्गाक्षाद्याः कुबेरैश्च महामायाद्योऽग्निभिः । ५७ अयःकायादयः सुरैः सिद्धेराकम्पनादयः । अन्ये विद्याधरैर्दैत्या गन्धवोद्यस्ततोऽपरे । एवमासीन्महायुद्धे तेषां वासरविंशतिम् । एकविंशे दिने दैत्यैरभज्यन्त रणे सुराः । ५९ वे च भग्नाः प्रविविशुः पलाय्यान्तत्रिविष्टपम् । ततश्चैरावणारूढो निरगाद्वासवः स्वयम् । परिवार्य च तं देवसैन्यानि निरगुः पुनः । चन्द्रकेतुप्रभृतिभिः सहैव बुचरेश्वरैः । ६१ ततः प्रवृत्ते सङ्गमे हन्यमानासुरामरे । इन्द्रमभ्यद्रवद्विद्युद्वजः पितृवधक्रुधा । ६२ सोऽस्त्राणि तस्य प्रत्यस्त्रैर्दैत्येन्द्रस्य प्रतिज्ञतः । चिच्छेद बाणैः कोदण्डं देवराजो मुहुर्मुहुः । ६३ ततो मुद्ररमादाय महेश्वरवरोद्धरः । विद्युद्वजस्तं स जवाद्धावद्वासवं प्रति । ६४ उभूय दन्तयोर्दत्वा पादमैरावणस्य च । आरुरोहस्य कुन्भागं यन्तारं विममाथ च । ६५ ददौ च देवराजाय प्रहरं मुद्रेण सः । देवराजश्च मुशलेनाशु प्रतिजघान तम् ॥ ६६ विद्युद्वजोऽपि भूयस्तं मुद्रेण जघान यत् । तदिन्द्रः सोऽपतद्वायुरथस्योपरि मूञ्छितः ।। ६७ ४८ ५० ५२ ५४ ५८
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४४५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति