५५६ कथासरित्सागरः । [ आदितस्तरङ्गः ११ ततः प्रवृत्ते भूयोऽत्र मयासुरमहाहवे । विमानैर्ययुर्देष्टुं रुद्रेन्द्रप्रमुखाः सुराः॥ मुक्ताफलध्वजश्चात्र तत्क्षणोपस्थितं पुरः । दशलक्षयतेजस्कमन्त्रं पपाशुपतं महत् । अतिप्रमाणमुद्वह्निज्वालं यज्ञे चतुर्मुखम् । एकाग्निमष्टबाहुं च कल्पन्तानलसंनिभम् विद्धि मां शंकरादेशयातं विजयाय ते । इति ब्रुवाणं सोऽभ्यच्र्यं राजपुत्रस्तद्ग्रहीत् । तावच्च गगने तैस्तैरसुरैरस्त्रवृष्टिभिः। मेरुध्वजबलं ताम्यधःस्थितमबाध्यत । ततस्तद्रक्षितुं चित्रयोधी मुक्ताफळजवजः । शरजालं दौ मध्ये युयुधे चासुरैः सह । पितृभ्रातृयुतं दृश्वा तं नभश्चरवाहनम् । त्रैलोक्यमाली दैत्येन्द्रः पन्नगात्रं मुमोच सः तस्मान्निर्गच्छतोऽसंख्यान्घोरानाशीविषानहीन् । गरुडैगरुडात्रोत्थैरैर्दयन्मलयध्वजः । ततो यद्यत्स दैत्येन्द्रः सपुत्रोऽस्त्रमवासृजत् । मुक्ताफलयजस्तत्तन्निरास्थतस्य हेलया ॥ अथ क्रुद्धः स देवारिस्तत्पुत्रोऽन्ये च दानवाः । आग्नेयादीनि युगपत्तस्मिन्नस्त्राणि चिक्षिपुः । तानि तस्याग्रतो दृष्ट्वा स्थितं पाशुपतं ज्वलन् । भीतान्यस्त्राणि सर्वाणि विमुखानि क्षणाद्ययुः । ततरते यावदिच्छन्ति भीता दैत्याः पलायितुम् । तावत्तदाशयं बुधैव वीरो मुक्ताफलध्वजः । बबन्ध तेषामृध्यै च चतुर्दिकं च तत्क्षणम् । शरजालं स दुर्मेदं वञ्जपञ्जरसंनिभम् तत्रान्तभ्रमतस्तांश्च शकुन्तानिव दानवान् । पित्रा भ्रात्रा च सहितः स जघन शितैः शरैः । निपेतुश्च कराः पादः शरीराणि शिरांसि च । छिन्नानि तेषां दैत्यानामचर्हास्त्रनिम्नगाः ॥ साधुवादे ततो दत्ते पुष्पवर्षानुगे सुरैः । मोहनात्रं ददौ तेषां द्विषां मुक्ताफलध्वजः । तेन संमोहितान्भूमौ पतितांस्तान्सराजकान् । असुरान्वारुणास्त्रेण पाशबद्धांश्चकार सः । तपोधनोऽथ सोऽवादीन्मेरुध्वजनृपं मुनिः । न वध्यमासुरं सैन्यं हतशेषमिदं खलु । स्वीकृतेन ह्यनेनैव प्रवेक्ष्यध्वं रसातलम् । दैत्येन्द्रस्तु सपुत्रोऽयं बहू नीत्वा समङ्गिकः । महासुरैर्जुष्टनागैर्युक्तो मुख्यैश्च राक्षसैः । स्थाप्यो देवसभासने श्वेतशैलगुझान्तरे । इत्युक्तो मुनिना दैत्ययोधान्मेरुध्वजोऽब्रवीत् । मा भैष्ट यूयं नास्माभिर्वध्या सभ्रातृकस्य तु ॥ ९ मुक्ताफलध्वजस्यास्य वर्तध्वं शासनेऽधुना । इत्युक्त दानवा राज्ञा हृष्टास्तत्प्रतिपेदिरे । स राजा तं दैत्यराजं त्रैलोक्यमालिनम् । पुत्रादिभिस्तैः सहितं श्वेतशैलमनाययत् । तदुर्लभ्यन्तरे तं च स्थापयामास संयतम् । भूरिशरबलोपेतप्रधनामयरक्षितम् । ततो निवृत्ते सङ्गमे मुक्तमन्दारवृष्टिषु । वैमानिकेषु यातेषु प्रवृत्ते जगदुत्सवे ॥ स तत्र पुत्रौ वक्ति स्म राजा मरुध्वजो जयी । इहैव यज्ञरक्षार्थमहं तिष्ठामि संप्रति युवां प्रयातं पाताळमेतैः स्वैः सैनिकैः सह । प्राप्तदैत्यविमानौवैः शेषासुरबलेन च । । १०८ अश्वास्य स्थापयित्वा च वशे पातालवासिनः । प्रधानाधिष्ठितान्कृत्वा स्वीकृत्येहगमिष्यथः । १०१ एतच्छुत्वा तथेत्याशु दिव्यकामगवाहनः। मुक्ताफलध्वजो बीः स चापि मलयध्वजः । १०२ रसातलं विविशतुः ससैन्यौ भ्रातरवुभौ । सह दानव सैन्येन प्रणतेनाग्रयायिना । १०३ हत्वा च रक्षिणः स्थानस्थानेषु परिपन्थिनः । अदातामत्र तौ शेषजनस्याभयडिण्डिमम् । १०४ विश्वस्तप्रणते चैतौ जने सप्त रसातलान् । स्वीचक्रतुः पुरशतैर्नानारत्नमयैर्युतान् । १०५ बुभुजाते च तान्नम्यानुद्यानैः सर्वकामदैः। दिव्यासवश्रुतानेकरत्नसोपानवापिकैः । १०६ तत्राद्भुताकृती तौ च ददृशुर्दानवाङ्गनाः । तत्कन्याश्च तरुष्वन्तर्मायाच्छादितविग्रहः । १०७ आरेभे च तदा तत्र भर्तुर्बद्धस्य शर्मणे । तपः स्वयंप्रभा नाम भार्या त्रैलोक्यमालिनः । १०८ तस्याः सुते च त्रैलोक्यप्रभत्रिभुवनप्रभे । आरेभाते तपस्तद्वत्कुमारों श्रेयसे पितुः । १०९ तौ च राजसुतौ तत्र पाताले सकलं जनम् । लब्धप्रशमनस्वस्थं संमान्य विविधैः प्रियैः ११ स्थापयित्वा च सङ्कामसिंहादीनधिकारिणः। तपोवनाश्रमपदं पितुः पार्श्वमुपेयतुः ।। १११ तावत्तत्र शुनेर्यज्ञः स समाप्तिमुपाययौ ! गन्तुं प्रारेभिरे देवाः स्वधिष्ण्यान्पृषयस्तथा ॥ ११२
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४६०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति