५५८ कथासरित्सागरः । [ आदितस्तरङ्गः आवयोयौवनभयादग्निरेवाधुना गतिः। तथास्यां चतुर्दश्यां तत्प्रवेशं विद्ध्वहे ॥ कृतनिश्चययोरेवं तयोः साप्यकरोत्तदा । निश्चयं मरणायैव तन्माता सपरिच्छदा ॥ प्राप्तायां च चतुर्दश्यां ताः पापरिपुनासनि । तीर्थे सर्वाधिाश्चक्रुरार्चत्वा हाटकेश्वरम् । तावन्मेरुध्वजो राजा तिथौ तस्यां सपुत्रकः। सभार्यश्चाययौ तावज्ञाटकेश्वरमर्चितुम् ॥ स पापरिपुतीर्थं तत्नानार्थं सानुगो व्रजन् । दूराद्ददर्श तत्तीरे वनान्तधूममुद्रतम् ॥ धूमोद्मः कुतोऽत्रेति पृच्छन्तं तं च भूपतिम् । ऊचुः सङ्कामसिंहाद्याः पातालाधिकृता निजाः । त्रैलोक्यमालिनो भार्या महाराज स्वयंप्रभा । दुहितृभ्यां कुमारीभ्यां सहात्र तपसि स्थिता । नूनं ता अग्निकार्यादि किंचिदत्राद्य कुर्यते । यदि वातितपःखिन्नाः कुर्वन्त्यग्निप्रवेशनम् ॥ तच्छुत्वा सह पुत्राभ्यां पन्य तैश्चाधिकारिभिः । द्रष्टुं स राजा तत्रागान्निषिद्धान्यपरिच्छदः ॥ ददर्श चात्र प्रच्छन्नस्थितस्ते दैत्यकन्यके । समातृके पूजयन्त्यौ सुसमिद्धे चितानलम् ॥ मुखळावण्यसंदोहनिःस्यन्दैर्दिक्षु सर्वतः । चन्द्रबिम्बशतानीव रचयन्यौ रसातले । लोलहराम्बुपूराभ्यां कामस्येवाभिषेचनम् । कुचकाञ्चनकुम्भाभ्यां कुर्वत्यौ त्रिजगज्जये । बिभ्राणे जघनाभोगं विपुलं बद्धमेखळम् । नक्षत्रमालाकमिव स्मरद्विपशिरःस्थलम् । वहन्त्यौ केशपाशौ च पन्नगाविव निमितौ । धात्रा लावण्यसर्वस्खनिधानं रक्षितुं तयोः । दृष्ट्ठा ते चिन्तयामास स राजा जातविस्मयः । अहो विश्वसृजः सृष्टिर्लसन्नवनवाङ्गता । यदेतयोर्न रम्भापि नोर्वशी न तिलोत्तमा । रूपे भजति तुल्यत्वमसुराधिपकन्ययोः॥ इति चिन्तयतस्तस्य राज्ञः सा दैत्यकन्यका । ज्येष्टार्चयित्वा त्रैलोक्यप्रभा वहेिं व्यजिज्ञपत् । उक्तः स्वनहरादेशो यतः प्रभृति मेऽस्बया । ततः प्रभृति बढंव भर्तृबुद्धिर्यतो मया । तस्मिन्गुणनिधौ राजपुत्रे मुक्ताफलाध्वजे । तत्स एव पतिर्भूयाद्भगवन्मेऽन्यजन्मनि । इह जन्मनि तातेन संयतस्थेन मानिना । दित्सिताष्यम्बया तस्मै दातुं नाङ्गीकृतास्मि यत् । तच्छुत्वा तद्वदेवात्र सापि त्रिभुवनप्रभा । वने हुताशान्मलयध्वजं जन्मान्तरे पतिम् ॥ ततो मेरुध्वजो राजा स तच्छूवणहQछः । तद्भार्या च महादेवी परस्परमवोचताम् । प्राप्यातामिमे भार्ये यद्यस्मत्तनयाविमौ । तदेताभ्यामवाप्तं स्याल्लोकद्वयजयात्फलम् । तद्यावदस्मिन्नन नामानं क्षिपतः क्षणम् । तावकि नोपसृत्यैते वारयामः समातृके । एवं देव्या सहायोच्य राजावोचदुपेत्य ताः । मा कार्यं साहसं दुःखं शमयिष्याम्यहं हि वः ॥ श्रुत्वैतच्छूोत्रपीयूषत्रभं भूपतेर्वचः । दृष्ट्वा च तं ताः सकलाः प्रणेमुरसुराङ्गनाः ।। पश्यन्त्योऽपि वयं पूर्वं मायाछन्ना न लक्षिताः । लोकद्वयेश्वरेणेह दृष्टाः स्मोऽद्य पुनस्त्वया । बहुष्टानां च दुःखान्तो भवत्येवाचिरेण नः। किं पुनः स्खगिरा दत्ते देवेनाभ्यर्थिते वरे ॥ तद्रहीतार्यपाद्यादि कृतासनपरिग्रहः । भवन्तो हि जगत्पूज्या अयं चास्माकमाश्रमः । इति स्वयंप्रभामुक्तवतीमाह हसनृपः। जामातृभ्यां त्वयैताभ्यां पाद्यार्थं दीयतामिति । ततः स्वयंप्रभावादीत्तदेताभ्यां वृषध्वजः । देवो दापयितार्चादि युष्माभिस्वद्य गृह्यताम् । मेरुध्वजो जगादाथ सर्वमात्तमिदं मया। यूयं च मरणोद्योगान्निवर्तध्वमितोऽधुना । प्रविश्य तिष्टतैकस्मिन्स्वपुरे सर्वकामदे । ततोऽहमेव ज्ञास्यामि यथा वः कुशलं भवेत् ॥ इत्युक्तवन्तं राजानं स जगाद स्वयंप्रभा । देवादेशान्निवृत्ताः स्मः शरीरत्यगनिश्चयात् ॥ काराथे तु प्रभौ युक्ता कथं नः स्वगृहस्थितिः । तदिहैव वयं तावत्तिष्ठामो देव संप्रति । यावद्देवः स्वयं दत्तं वरं नः पालयिष्यति । समुतामात्यमस्माकं मोचयिष्यति च प्रभुम् । मुक्तस्वदधिकारी सन्स च राज्यं करिष्यति । अर्पयिष्यति राज्यं च तुभ्यमेव त्वदिच्छया । समयप्रतिबन्धं च स करिष्यति तादृशम् । अन्तरस्था वयं चात्र सह पातालवासिभिः । पातालेभ्योऽस्मदीयानि रत्नानि स्वीकुरुष्व च । एवमुक्तवतीं तां स राजा मेरुध्वजोऽब्रवीत् ।
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४६२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति