तरङ्गः ६ ।] पद्मावतीलम्बकः १७ । ५६३ अमुत्र राक्षसीत्रस्ता पूर्वं संभाविता मया । स्वयंवरागता चेह दृष्टोद्यानान्तरे पुनः । १४० इह चावाप्तशापं मामनुसर्तुमनास्तदा । प्रिया पद्मावती कृच्छूान्मुनीन्द्रेण निवर्तिता । १४१ सैवाद्य पश्य मे मित्र दृष्टिमार्गात्पलायते । एतत्तस्य वचः श्रुत्वा पद्मावत्यब्रवीत्सखीः॥ १४२ सत्यं सख्यः स एवायं पूर्वदेहमनाश्रितम् । कथं तूपैम्यमुं तन्मे सोऽत्र सिद्धीश्वरो गतिः ॥ १४३ तेनैव दत्तः स्वप्नो मे स एव च करिष्यति । उपायमिति निश्चित्य सागारिसीश्वरं पुनः । १४४ पूर्वदेहस्थितेनैव प्रियेण मम संगमम् । कुरु वा देहि वा मृत्यै तृतीया न गतिर्मम । १४५ इति विज्ञापयामास सा तमभ्यच्र्य धूर्जटिम् । ससखीका च तत्रैव तस्थौ देवकुलाङ्गने । १४६ शबलैर्याश्रमे तत्र तां स मुक्ताफलध्वजः अन्विष्याप्राप्य चोद्विग्नस्तमवादीद्वयस्यकम् । १४७ इतः प्राप्ता न सा यावो धाम तच्छांभवं पुनः । ततोऽपि चेन्न लप्स्ये तां प्रवेक्ष्याम्यग्निमेव तत् । १४८ इच्छुत्वा स सखवोचद्भावि कल्याणमेव ते । न मृषा स्यान्मुनिवचः स्वप्नादेशश्च शांभवः ॥ १४९ इत्याश्वासयता तेन सख्या मुक्ताफलध्वजः । सह सिद्धीश्वरं प्रायाद्विमानमधिरुह्य सः । १५० गतं दृष्टुात्र तं पद्मावती तस्थावलक्षिता । पश्यतेहैव संप्राप्त इति चोवाच सा सखीः । १५१ सोऽपि प्रविश्य देवाग्रं दृष्ट्वा प्रयप्रपूजितम् । मुक्तफलध्वजो देवं वयस्यं तमभाषत । १५२ सखे केनापि पश्यायमधुनैवार्चितो विभुः । नूनं सैव प्रिया मेऽत्र स्थिता काप्यर्चत स्तया ॥ १५३ इत्युक्त्वा सोऽत्र चिन्वानो यदा न प्राप तां तदा । चक्रन्द हा प्रिये पद्मावतीति विरही मुहुः ॥ १५४ पेकीरुते तदालापबुद्ध्या तत्कबरीधिया । बर्हिबर्ह सरसिजे तन्सुखभ्रान्तितस्तथा ।। १५५ गवन्स्मरज्यावेशविवशस्तेन कृच्छूतः । आश्वस्य जगदे सख्या राजपुत्रोऽनुनीय सः । १५६ बहूपवासक्छान्तेन किमारब्धमिदं त्वया । जितभूयोकपाताहुं किमात्मानमुपेक्षसे १५७ चयन्तिकमनायाते पिता मेरुध्वजस्तव। राजा त्रैलोक्यमाली च श्वशुरो दानवेश्वरः । १५८ चर्थिनी च त्रैलोक्यप्रभा सापि तदात्मज । माता च ते विनयवत्यनुजो मलयध्वजः । १५९ अनिष्टाशङ्किनः सर्वे सोपवासा जहत्यसून् । तदेहि तावद् वा तान्रक्षाघोऽवसितं दाहः । १६ पूति तं वादिनं प्राह मित्रं मुक्ताफलध्वजः । त्वमेव मद्विमानेन गत्वाश्वासय तानिति । १६१ एतस्तं स सखावोचत्र ममोपनमेत्कथम् । शापेन मुनिशिष्यो यस्तच वाहनतां गतः । १६२ युक्तवन्तं सुहृदं राजपुत्रोऽब्रवीत्स तम् । तर्हि तिष्ठ सखे तावत्पश्यावः किं भवेदिह ॥ १६३ एवं श्रुत्वा तदळापं पद्मवयवत्सखीः । जानेऽभिज्ञानसंवादैः स पूर्वप्रिय एष मे । १६४ हामं मानुषदेहस्थः शापेनैवं कदर्यते । सिद्धकन्योपहासच शापदोषो ममाप्ययम् । १६५ £ति यावच्च सा वक्ति तावदालोहितच्छविः । वियोगिवनदावाग्निरुदगन्मृगलाञ्छनः । १६६ पूरयामास च शनैर्जगज्ज्योतन समन्ततः । कंदर्पदहनज्वाला तं च मुक्ताफलध्वजम्॥ १६७ अतस्तत्कालचक्राह्व इव क्रन्दन्नृपात्मजः । छन्नस्थयैव जगदे पद्मावत्या स विन्नया । १६८ जपुत्र ख एव त्वं यदि मे पूर्ववल्लभः । तथाप्यन्यशरीरस्थो ममासि परपूरुषः । १६९ अहं ते परदाराश्च तदाक्रन्दसि किं मुहुः । उपायो भवितावश्यं सत्यं चेत्तन्मुनेर्वचः ॥ १७० एतच्छुत्वा वचस्तस्यास्तामपश्यंश्च सोऽभ्यगात् । मुक्ताफलध्वजो हर्षविषादविषमां दशाम् ॥ १७१ जगाद च मया देवि स्मृतप्राक्तनजन्मना । दृष्ट्वा त्वं प्रत्यभिज्ञाता स्वामेव दधती तनुम् ॥ १७२ यं तु वैद्याधरे देहे वर्तमानं विीय माम् । अधुना परिजानीषे मर्यदेहगतं कथम् । १७३ दवश्यं मया त्याज्यमिदं हतशरीरकम् । इत्युक्त्वा सोऽभवत्तूष्णीं छन्नासीत्सापि तप्रिया ॥ १७४ 'तो भूयिष्ठयातायां रात्रौ निद्रागते अमात् । पूर्वसंयतके तस्मिन्महाबुद्धौ बयस्यके ।। १७५ अप्राप्यां तेन देहेन जानन्पद्मावतीं स ताम् । मुक्ताफलध्वजो दारूण्याहृत्याग्निमदीपयत् । १७६ भगवंस्त्वत्प्रसादेन प्राक्तनीं तां ततं श्रितः । प्राप्यासमचिरेणैव प्रियां पद्मावतीमहम् ॥ १७७ ति ब्रुवन्प्रणम्यैव लिङ्गमूर्ति स शंकरम् । जुदाव उबलते तस्मिन्ननौ राजसुतस्तनुम् १७८
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४६७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति